|| शिवदत्तकृतं श्रीगणेशस्तोत्रम् ||
॥ श्रीगणेशाय नमः ॥
शिवदत्त उवाच ।
गणेशाय नमस्तुभ्यं पराशरात्मजाय ते ।
शिवपुत्राय शेषस्य पुत्राय वै नमो नमः ॥ ४०॥
सर्वपुत्राय सर्वेषां मात्रे पित्रे नमो नमः ।
भ्रात्रे सुहृद्गणायैव स्नुषादिवेषधारिणे ॥ ४१॥
अनन्तरूपिणे तुभ्यं नानाभोगविहारिणे ।
भोगहीनाय देवाय सुराय ते नमो नमः ॥ ४२॥
अपारगुणधाराय गुणानां पतये नमः ।
गणेशाय परेशाय पूर्णानन्दाय ते नमः ॥ ४३॥
आदिमध्यान्तरूपैश्च स्रष्ट्रे पात्रे प्रहारिणे ।
आदिमध्यान्तहीनाय साक्षिणे ते नमो नमः ॥ ४४॥
स्वानन्दपतये तुभ्यं मूषकवाहनाय च ।
सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिपते नमः ॥ ४५॥
योगानां पतये तुभ्यं योगशान्तिस्वरूपिणे ।
गजाननाय शान्तिभ्यः शान्तिदात्रे नमो नमः ॥ ४६॥
परेशाय महादीनपालकाय नमो नमः ।
सर्वेभ्यः सुखदात्रे ते विघ्नेशाय नमो नमः ॥ ४७॥
किं स्तौमि त्वां गणाध्यक्ष वेदाः शान्तिं गतास्त्वयि ।
अतो नमो नमो नाथ तुष्टो भव महोदर ॥ ४८॥
रजांसि स्वस्थितास्तारा मेघबिन्दूंश्च मानवः ।
गणयेत् कोऽपि ते नाथ न गुणान् वर्णितुं क्षमः ॥ ४९॥
धन्योऽहं सर्वभावैश्च येन दृष्टो गजाननः ।
वेदान्तागोचरे गम्यो योगिभिश्च शिवादिभिः ॥ ५०॥
एवं स्तुत्वा गणेशानं ननाम मुनिपुङ्गवः ।
तमुवाच गणाधीशः स्वभक्तं भक्तलोलुपः ॥ ५१॥
श्रीगणेश उवाच ।
वरान् वृणु महाभाग ये ते चित्ते ददामि तान् ।
प्रसन्नोऽहं च ते भक्त्या स्तोत्रेण मुनिसत्तम ॥ ५२॥
शिवदत्त उवाच ।
भक्तिं देहि त्वदीयां मे दृढामव्यभिचारिणीम् ।
नान्यं याचे गणाधीश त्वत्पादप्रवणो ह्यहम् ॥ ५३॥
(फलश्रुतिः)
श्रीगणेश उवाच ।
मदीया भक्तिरुग्रा ते भविष्यति महामते ।
स्मृतिमात्रेण ते कार्यं भविष्यति सुसिद्धिदम् ॥ ५४॥
त्वया कृतमिदं स्तोत्रं मदीयं पठनान्नृणाम् ।
श्रवणात् सिद्धिदं सर्वं भविष्यति निरन्तरम् ॥ ५५॥
यद्यदिच्छति तत्तत्तु सफलं प्रभविष्यति ।
स्तोत्रपाठेन विप्रर्षे मयि भक्तिप्रदं तथा ॥ ५६॥
एवमुक्त्वांऽतर्दधेऽसौ गणेशो ब्रह्मनायकः ।
शिवदत्तो गणेशानं सञ्चिन्त्य स्वाश्रमे स्थितः ॥ ५७॥
सदा योगीन्द्रवन्द्यः स बभूवे गाणपाग्रणीः ।
अन्ते विघ्नेश्वरे योगी लीनो बभूव शौनक ॥ ५८॥
एवं वैशाखजं मुख्यं व्रतं सर्वार्थदं परम् ।
कथितं ते महाभाग श्रवणात् सर्वसिद्धिदम् ॥ ५९॥
वैशाखव्रतसंयुक्तं शिवदत्तचरित्रकम् ।
यः पठेच्छृणुयाद् वाऽपि स सर्वफलभाग्भवेत् ॥ ६०॥
इति शिवदत्तकृतं श्रीगणेशस्तोत्रं सम्पूर्णम् ॥
Read in More Languages:- hindiऋणहर्ता श्री गणेश स्तोत्रम्
- marathiश्री गणपति अथर्वशीर्ष स्तोत्रम
- gujaratiશ્રી ગણપતિ અથર્વશીર્ષ સ્તોત્રમ
- hindiश्री गणपति अथर्वशीर्ष स्तोत्रम हिन्दी पाठ अर्थ सहित (विधि – लाभ)
- sanskritश्री भानुविनायक स्तोत्रम्
- hindiसिद्धि विनायक स्तोत्र
- tamilஶ்ரீ பா⁴நுவிநாயக ஸ்தோத்ரம்
- kannadaಶ್ರೀ ಭಾನುವಿನಾಯಕ ಸ್ತೋತ್ರಂ
- teluguశ్రీ భానువినాయక స్తోత్రం
- sanskritश्री अष्टविनायकस्तोत्रम्
- hindiएकदन्त शरणागति स्तोत्रम्
- englishShri Gajanana Stotram
- englishShri Ganeshashtak Stotram
- englishShri Ganadhipat Stotram
- hindiश्री गणाधिपत स्तोत्रम् अर्थ सहित
Found a Mistake or Error? Report it Now

