|| देवर्षयकृता श्रीगणेशस्तुतिः ||
देवर्षय ऊचुः ।
नताः स्मो विघ्नकर्तारं दयालुं सर्वपालकम् ।
सर्वस्य जगतो हेतुं सर्वव्यापिनमीश्वरम् ॥ २१॥
अनेकशक्तिसंयुक्तं सर्वकामप्रपूरकम् ।
दीनानुकम्पिनं देवं सर्वज्ञं करुणानिधिम् ॥ २२॥
स्वेच्छोपात्ताकृतिं नैकावतारनिरतं सदा । (नाना ह्यवताररतं सदा)
गुणातीतं गुणक्षोभं चराचरगुरुं विभुम् ॥ २३॥
एकदन्तं द्विदन्तं च त्रिनेत्रं दशहस्तकम् ।
शुण्डादण्डमुखं विघ्ननाशनं पापहारकम् ॥ २४॥
भक्तानां वरदं नित्यं सृष्टिस्थित्यन्तकारकम् ।
अनादिमध्यनिधनं भूतादि भूतवर्धनम् ॥ २५॥
त्रिलोकेशं सुराधीशं दुष्टदानवमर्दनम् ।
लम्बकर्णं बृहद्भानुं व्यालभूषाधरं शुभम् ॥ २६॥
इति देवर्षयकृता श्रीगणेशस्तुतिः सम्पूर्णा ॥
Read in More Languages:- sanskritनन्दिकेशकृता श्रीगणेशस्तुतिः
- sanskritदेवा मुनयश्चकृता श्रीगणेशस्तुतिः
- sanskritदेवपत्नीकृता श्रीगणेशस्तुतिः
- sanskritदूर्वाकृता श्रीगणेशस्तुतिः
- sanskritदक्षकृता गणेशस्तुतिः
- sanskritदम्भासुरकृता श्रीगणेशस्तुतिः
- sanskritगणेशस्तुतिः तत्त्वैः कृता
- sanskritजडभरतकृता श्रीगणेशस्तुतिः
- sanskritचन्द्रकृता श्रीगणेशस्तुतिः
- sanskritगृत्समदकृता श्रीगणेशस्तुतिः
- sanskritगणेशस्तुतिः गुणेशकृता
- sanskritकीर्तिर्कृता श्रीगणेशस्तुतिः
- sanskritकाशिराजो जना कृता श्रीगणेशस्तुतिः
- sanskritकाशिराजकृता श्रीगणेशस्तुतिः
- sanskritकाशिकृता श्रीगणेशस्तुतिः
Found a Mistake or Error? Report it Now