Shri Krishna

गोपैः कृतं श्रीकृतं श्रीकृष्णस्तोत्रम्

Gopaihkrritamshrikrritamshrikrrishnastotram Sanskrit Lyrics

Shri KrishnaStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| गोपैः कृतं श्रीकृतं श्रीकृष्णस्तोत्रम् ||

गते शक्रे ततः कृष्णः पूज्यमानो व्रजौकसैः ।
गोवर्धनधरः श्रीमान् विवेश व्रजमेव ह ॥ १॥

तं स्म वृद्धाभिनन्दन्ति ज्ञातयश्च सहोषिताः ।
धन्याः स्मोऽनुगृहीताः स्मस्त्वद्धृतेन नगेन ह ॥ २॥

गावो वर्षभयात्तीर्णा वयं तीर्णा महाभयात् ।
तव प्रसादाद्गोविन्द देवतुल्य महाद्युते ॥ ३॥

अमानुषाणि कर्माणि तव पश्याम गोपते ।
धारणेनास्य शैलस्य विद्मस्त्वां कृष्णमव्ययम् ॥ ४॥

कस्त्वं भवसि रुद्राणां मरुतां वा महाबल ।
वसूनां वा किमर्थं च वसुदेवः पिता तव ॥ ५॥

वने च बालक्रीडा ते जन्म चास्मासु गर्हितम् ।
कृष्ण दिव्या च ते चेष्टा शङ्कितानि मनांसि नः ॥ ६॥

किमर्थं गोपवेषेण रमसेऽस्मासु गर्हितम् ।
लोकपालोपमश्चैव गास्त्वं किं परिरक्षसि ॥ ७॥

देवो वा दानवो वा त्वं यक्षो गन्धर्व एव वा ।
अस्माकं बान्धवो जातो योऽसि सोऽसि नमोऽस्तु ते ॥ ८॥

नमोऽस्तु कृष्ण कृष्णेति नमो गोपालबन्धवे ।
नमो बालाय गोप्त्रे च गोपवेषाय बान्धव ॥ ९॥

नमस्ते शिशुसिंहाय नमो भूधरधारिणे ।
देवायाथ वरिष्ठाय यक्षाय च नमो नमः ॥ १०॥

नमस्ते नन्दपुत्राय यशोदायाः सुताय च ।
को भवान् कश्च वा देवः किमर्थं नोऽभिरक्षसि ॥ ११॥

केनचिद्यदि कार्येण वससीह यदृच्छया ।
वयं तवानुगाः सर्वे भवन्तं शरणं गताः ॥ १२॥

इति हरिवंशान्तर्गतं गोपैः कृतं श्रीकृतं श्रीकृष्णस्तोत्रं सम्पूर्णम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download गोपैः कृतं श्रीकृतं श्रीकृष्णस्तोत्रम् PDF

गोपैः कृतं श्रीकृतं श्रीकृष्णस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App