|| कालियकृतं १ श्रीकृष्णस्तोत्रम् ||
व्यास उवाच ।
इत्युक्ते ताभिराश्वास्य क्लान्तदेहोऽपि पन्नगः ।
प्रसीद देवदेवेति प्राह वाक्यं शनैः शनैः ॥ ४३॥
कालीय उवाच ।
तवाष्टगुणमैश्वर्यं नाथ स्वाभविकं परम् ।
निरस्तातिशयं यस्य तस्य स्तोष्यामि किन्वहम् ॥ ४४॥
त्वं परस्त्वं परस्याऽऽद्यः परं त्वं तत्परात्मकम् ।
परस्मात्परमो यस्त्वं तस्य स्तोष्यामि किं न्वहम् ॥ ४५॥
यथाऽहं भवता सृष्टो जात्या रूपेण चेश्वरः ।
स्वभावेन च संयुक्तस्तथेदं चेष्टितं मया ॥ ४६॥
यद्यन्यथा प्रवर्तेय देवदेव ततो मयि ।
न्याय्यो दण्डनिपातस्ते तवैव वचनं यथा ॥ ४७॥
तथाऽपि यं जगत्स्वामी दण्डं पातितवान्मयि ।
स सोढोऽयं वरो दण्डस्त्वत्तो नान्योऽस्तु मे वरः ॥ ४८॥
हतवीर्यो हतविषो दमितोऽहं त्वयाऽच्युत ।
जीवितं दीयतामेकमाज्ञापय करोमि किम् ॥ ४९॥
इति ब्रह्मपुराणे पञ्चाशीत्यधिकशततमाध्यायान्तर्गतं
कालियकृतं श्रीकृष्णस्तोत्रं समाप्तम् ।
- sanskritदेवगन्धर्वादिभिः कृतं श्रीकृष्णस्तोत्रम्
- sanskritदुर्वाससा कृतं श्रीकृष्णस्तोत्रम्
- sanskritज्वरकृतं श्रीकृष्णस्तोत्रम्
- sanskritगोपैः कृतं श्रीकृतं श्रीकृष्णस्तोत्रम्
- sanskritगर्गकृतं श्रीकृष्णस्तोत्रम्
- sanskritकालपुरुषकृतं श्रीकृष्णस्तोत्रम्
- sanskritइन्द्रकृतं श्रीकृष्णस्तोत्रम्
- sanskritअनन्तकृतं श्रीकृष्णस्तोत्रम्
- sanskritअष्टावक्रकृतं श्रीकृष्णस्तोत्रम्
- sanskritअदितिकृतं श्रीकृष्णस्तोत्रम्
- sanskritअक्रूरकृतं श्रीकृष्णस्तोत्रम्
- sanskritश्रीकृष्णसहस्रनामस्तोत्रम्
- sanskritदेवैः कृतं श्रीकृष्णचैतन्यस्तोत्रम्
- englishShri Krishna Kritam Durga Stotram
- sanskritश्रीकृष्णमङ्गलस्तोत्रम्
Found a Mistake or Error? Report it Now