श्री महाकालकवचम्
|| श्री महाकालकवचम् || ॐ श्रीगणेशाय नमः । श्रीभैरव उवाच अथ वक्ष्यामि देवेशि कवचम् मन्त्रगर्भकम् । मूलमन्त्रस्वरूपं च विश्वमङ्गलकाभिधम् ॥ १॥ सर्वसम्पत्प्रदं चैव महाकालस्य पार्वति । गुह्यातिगुह्यपरमं मूलविद्यामयं ध्रुवम् ॥ २॥ परमार्थप्रदं नित्यं भोगमोक्षैककारणम् । महाभयहरं देवि महैश्वर्यप्रदं शिवे ॥ ३॥ कवचस्यास्य देवेशि ऋषिर्भैरव ईरितः। अनुष्टुप्छन्द इत्युक्तं महाकालश्च देवता ॥ ४॥ कूर्चबीजं पराशक्तिस्तारं कीलकमीरितम् ।…