Misc

श्री योनि कवचम्

Yoni Kavacham Sanskrit Lyrics

MiscKavach (कवच संग्रह)हिन्दी
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री योनि कवचम् ||

देव्युवाच –

भगवन् श्रोतुमिच्छामि कवचं परमाद्भुतम् ।
इदानीं देवदेवेश कवचं सर्वसिद्धिदम् ॥

महादेव उवाच –

श‍ृणु देवि प्रवक्ष्यामि अतिगुह्यतमं प्रिये ।
यस्मै कस्मै न दातव्यं दातव्यं निष्फलं भवेत् ॥

विनियोगः –

अस्य श्रीयोनीकवचस्य गुप्त ऋषिः,
कुलटा छन्दः, राजविघ्नोत्पातविनाशे विनियोगः ।
ह्रीं योनिर्मे सदा पातु स्वाहा विघ्नविनाशिनी ।
शत्रुनाशात्मिका योनिः सदा मां पातु सागरे ॥

ब्रह्मात्मिका महायोनिः सर्वान् कामान् प्ररक्षतु ।
राजद्वारे महाघोरे क्लीं योनिः सर्वदाऽवतु ॥

हूमात्मिका सदा देवी योनिरूपा जगन्मयी ।
सर्वाङ्गं पातु मां नित्यं सभायां राजवेश्मनि ॥

वेदात्मिका सदा योनिर्वेदरूपा सरस्वती ।
कीर्तिं श्रीं कान्तिमारोग्यं पुत्रपौत्रादिकं तथा ॥

रक्ष रक्ष महायोने सर्वसिद्धिप्रदायिनि ।
रजोयोगात्मिका योनिः सर्वत्र मां सदाऽवतु ॥

फलश्रुतिः ।

इति ते कथितं देवि कवचं सर्वसिद्धिदम् ।
त्रिसन्ध्यं यः पठेन्नित्यं राजोपद्रवनाशकृत् ॥

सभायां वाक्पतिश्चैव राजवेश्मनि राजवत् ।
सर्वत्र जयमाप्नोति कवचस्य जपेन हि ॥

श्रीयोन्याः सङ्गमे देवि पठेदेवमनन्यधीः ।
स एव सर्वसिद्धीशो नात्र कार्या विचारणा ॥

मातृकाक्षरसम्पुटं कृत्वा यदि पठेन्नरः ।
भुञ्जते विपुलान् भोगान् दुर्गया सह मोदते ॥

इति गुह्यतमं देवि सर्वधर्मोत्तमोत्तमम् ।
भूर्जे वा ताडिपत्रे वा लिखित्वा धारयेद्यदि ॥

हरिचन्दनमिश्रेण रोचना कुङ्कुमेन च ।
शिखायामथवा कण्ठे शिवः सोऽपि न संशयः ॥

शरत्काले महाष्टम्यां नवम्यां कुलसुन्दरि ।
पूजाकाले पठेदेतत् जयी नित्यं न संशयः ॥

॥ इति शक्तिकागमसर्वस्वे हरगौरीसंवादे श्रीयोनिकवचं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

श्री योनि कवचम् PDF

Download श्री योनि कवचम् PDF

श्री योनि कवचम् PDF

Leave a Comment

Join WhatsApp Channel Download App