श्री नवग्रह कवचम्
॥ श्री नवग्रह कवचम् ॥ ॥ ब्रह्मोवाच ॥ शिरो मे पातु मार्ताण्डो कपालं रोहिणीपतिः । मुखमङ्गारकः पातु कण्ठश्च शशिनन्दनः । बुद्धिं जीवः सदा पातु हृदयं भृगुनन्दनः । जठरञ्च शनिः पातु जिह्वां मे दितिनन्दनः । पादौ केतुः सदा पातु वाराः सर्वाङ्गमेव च । तिथयोऽष्टौ दिशः पान्तु नक्षत्राणि वपुः सदा । अंसौ राशिः सदा पातु योगाश्च स्थैर्यमेव…