श्री सिद्धिदेवी अष्टोत्तरशतनामावली

|| श्री सिद्धिदेवी अष्टोत्तरशतनामावली || ओं स्वानन्दभवनान्तस्थहर्म्यस्थायै नमः । ओं गणपप्रियायै नमः । ओं सम्योगस्वानन्दब्रह्मशक्त्यै नमः । ओं सम्योगरूपिण्यै नमः । ओं अतिसौन्दर्यलावण्यायै नमः । ओं महासिद्ध्यै नमः । ओं गणेश्वर्यै नमः । ओं वज्रमाणिक्यमकुटकटकादिविभूषितायै नमः । ओं कस्तूरीतिलकोद्भासिनिटिलायै नमः । ९ ओं पद्मलोचनायै नमः । ओं शरच्चाम्पेयपुष्पाभनासिकायै नमः । ओं मृदुभाषिण्यै नमः । ओं…

श्री सिद्धिदेवी अष्टोत्तरशतनाम स्तोत्रम्

|| श्री सिद्धिदेवी अष्टोत्तरशतनाम स्तोत्रम् || सूर्य उवाच । स्वानन्दभवनान्तस्थहर्म्यस्था गणपप्रिया । सम्योगस्वानन्दब्रह्मशक्तिः सम्योगरूपिणी ॥ १ ॥ अतिसौन्दर्यलावण्या महासिद्धिर्गणेश्वरी । वज्रमाणिक्यमकुटकटकादिविभूषिता ॥ २ ॥ कस्तूरीतिलकोद्भासिनिटिला पद्मलोचना । शरच्चाम्पेयपुष्पाभनासिका मृदुभाषिणी ॥ ३ ॥ लसत्काञ्चनताटङ्कयुगला योगिवन्दिता । मणिदर्पणसङ्काशकपोला काङ्क्षितार्थदा ॥ ४ ॥ ताम्बूलपूरितस्मेरवदना विघ्ननाशिनी । सुपक्वदाडिमीबीजरदना रत्नदायिनी ॥ ५ ॥ कम्बुवृत्तसमच्छायकन्धरा करुणायुता । मुक्ताभा दिव्यवसना रत्नकल्हारमालिका ॥…

श्री मङ्गलगौरी अष्टोत्तरशतनामावलिः

|| श्री मङ्गलगौरी अष्टोत्तरशतनामावलिः || ओं गौर्यै नमः । ओं गणेशजनन्यै नमः । ओं गिरिराजतनूद्भवायै नमः । ओं गुहाम्बिकायै नमः । ओं जगन्मात्रे नमः । ओं गङ्गाधरकुटुम्बिन्यै नमः । ओं वीरभद्रप्रसुवे नमः । ओं विश्वव्यापिन्यै नमः । ओं विश्वरूपिण्यै नमः । ओं अष्टमूर्त्यात्मिकायै नमः । १० ओं कष्टदारिद्य्रशमन्यै नमः । ओं शिवायै नमः । ओं…

श्री बुद्धिदेवी अष्टोत्तरशतनामावली

|| श्री बुद्धिदेवी अष्टोत्तरशतनामावली || ओं मूलवह्निसमुद्भूतायै नमः । ओं मूलाज्ञानविनाशिन्यै नमः । ओं निरुपाधिमहामायायै नमः । ओं शारदायै नमः । ओं प्रणवात्मिकायै नमः । ओं सुषुम्नामुखमध्यस्थायै नमः । ओं चिन्मय्यै नमः । ओं नादरूपिण्यै नमः । ओं नादातीतायै नमः । ९ ओं ब्रह्मविद्यायै नमः । ओं मूलविद्यायै नमः । ओं परात्परायै नमः । ओं…

श्री बुद्धिदेवी अष्टोत्तरशतनाम स्तोत्रम्

|| श्री बुद्धिदेवी अष्टोत्तरशतनाम स्तोत्रम् || सूर्य उवाच । मूलवह्निसमुद्भूता मूलाज्ञानविनाशिनी । निरुपाधिमहामाया शारदा प्रणवात्मिका ॥ १ ॥ सुषुम्नामुखमध्यस्था चिन्मयी नादरूपिणी । नादातीता ब्रह्मविद्या मूलविद्या परात्परा ॥ २ ॥ सकामदायिनीपीठमध्यस्था बोधरूपिणी । मूलाधारस्थगणपदक्षिणाङ्कनिवासिनी ॥ ३ ॥ विश्वाधारा ब्रह्मरूपा निराधारा निरामया । सर्वाधारा साक्षिभूता ब्रह्ममूला सदाश्रया ॥ ४ ॥ विवेकलभ्य वेदान्तगोचरा मननातिगा । स्वानन्दयोगसंलभ्या निदिध्यासस्वरूपिणी ॥…

श्री प्रत्यङ्गिरा अष्टोत्तरशतनामावली

|| श्री प्रत्यङ्गिरा अष्टोत्तरशतनामावली || ओं प्रत्यङ्गिरायै नमः । ओं ओङ्काररूपिण्यै नमः । ओं क्षं ह्रां बीजप्रेरितायै नमः । ओं विश्वरूपास्त्यै नमः । ओं विरूपाक्षप्रियायै नमः । ओं ऋङ्मन्त्रपारायणप्रीतायै नमः । ओं कपालमालालङ्कृतायै नमः । ओं नागेन्द्रभूषणायै नमः । ओं नागयज्ञोपवीतधारिण्यै नमः । ९ ओं कुञ्चितकेशिन्यै नमः । ओं कपालखट्वाङ्गधारिण्यै नमः । ओं शूलिन्यै नमः…

श्री उमा अष्टोत्तरशतनामावली

|| श्री उमा अष्टोत्तरशतनामावली || ओं उमायै नमः । ओं कात्यायन्यै नमः । ओं गौर्यै नमः । ओं काल्यै नमः । ओं हैमवत्यै नमः । ओं ईश्वर्यै नमः । ओं शिवायै नमः । ओं भवान्यै नमः । ओं रुद्राण्यै नमः । ९ ओं शर्वाण्यै नमः । ओं सर्वमङ्गलायै नमः । ओं अपर्णायै नमः । ओं…

श्री उमा अष्टोत्तरशतनाम स्तोत्रम्

|| श्री उमा अष्टोत्तरशतनाम स्तोत्रम् || उमा कात्यायनी गौरी काली हैमवतीश्वरी । शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला ॥ १ ॥ अपर्णा पार्वती दुर्गा मृडानी चण्डिकाऽम्बिका । आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा ॥ २ ॥ स्कन्दामाता दयाशीला भक्तरक्षा च सुन्दरी । भक्तवश्या च लावण्यनिधिस्सर्वसुखप्रदा ॥ ३ ॥ महादेवी भक्तमनोह्लादिनी कठिनस्तनी । कमलाक्षी दयासारा कामाक्षी नित्ययौवना ॥…

श्री अन्नपूर्णा अष्टोत्तरशतनामावलिः

|| श्री अन्नपूर्णा अष्टोत्तरशतनामावलिः || ओं अन्नपूर्णायै नमः । ओं शिवायै नमः । ओं देव्यै नमः । ओं भीमायै नमः । ओं पुष्ट्यै नमः । ओं सरस्वत्यै नमः । ओं सर्वज्ञायै नमः । ओं पार्वत्यै नमः । ओं दुर्गायै नमः । ९ ओं शर्वाण्यै नमः । ओं शिववल्लभायै नमः । ओं वेदवेद्यायै नमः । ओं…

तीक्ष्णदंष्ट्र कालभैरवाष्टकम्

|| तीक्ष्णदंष्ट्र कालभैरवाष्टकम् || यं यं यं यक्षरूपं दशदिशिविदितं भूमिकम्पायमानं सं सं संहारमूर्तिं शिरमुकुटजटा शेखरं चन्द्रबिम्बम् । दं दं दं दीर्घकायं विकृतनखमुखं चोर्ध्वरोमं करालं पं पं पं पापनाशं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ १ ॥ रं रं रं रक्तवर्णं कटिकटिततनुं तीक्ष्णदंष्ट्राकरालं घं घं घं घोष घोषं घघघघ घटितं घर्जरं घोरनादम् । कं कं कं कालपाशं…

श्री अन्नपूर्णा अष्टोत्तरशतनाम स्तोत्रम्

|| श्री अन्नपूर्णा अष्टोत्तरशतनाम स्तोत्रम् || अस्य श्री अन्नपूर्णाष्टोत्तर शतनामस्तोत्र महामन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप्छन्दः श्री अन्नपूर्णेश्वरी देवता स्वधा बीजं स्वाहा शक्तिः ओं कीलकं मम सर्वाभीष्टप्रसादसिद्ध्यर्थे जपे विनियोगः । ओं अन्नपूर्णा शिवा देवी भीमा पुष्टिस्सरस्वती । सर्वज्ञा पार्वती दुर्गा शर्वाणी शिववल्लभा ॥ १ ॥ वेदवेद्या महाविद्या विद्यादात्री विशारदा । कुमारी त्रिपुरा बाला लक्ष्मीश्श्रीर्भयहारिणी ॥ २ ॥…

श्री ज्ञानप्रसूनाम्बिका स्तोत्रम्

|| श्री ज्ञानप्रसूनाम्बिका स्तोत्रम् || माणिक्याञ्चितभूषणां मणिरवां माहेन्द्रनीलोज्ज्वलां मन्दारद्रुममाल्यभूषितकुचां मत्तेभकुम्भस्तनीम् । मौनिस्तोमनुतां मरालगमनां माध्वीरसानन्दिनीं ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ १ ॥ श्यामां राजनिभाननां रतिहितां राजीवपत्रेक्षणां राजत्काञ्चनरत्नभूषणयुतां राज्यप्रदानेश्वरीम् । रक्षोगर्वनिवारणां त्रिजगतां रक्षैकचिन्तामणिं ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ २ ॥ कल्याणीं करिकुम्भभासुरकुचां कामेश्वरीं कामिनीं कल्याणाचलवासिनीं कलरवां कन्दर्पविद्याकलाम् । कञ्जाक्षीं कलबिन्दुकल्पलतिकां कामारिचित्तप्रियां ध्याये चेतसि कालहस्तिनिलयां ज्ञानप्रसूनाम्बिकाम् ॥ ३…

सङ्कटनामाष्टकम्

|| सङ्कटनामाष्टकम् || नारद उवाच जैगीषव्य मुनिश्रेष्ठ सर्वज्ञ सुखदायक । आख्यातानि सुपुण्यानि श्रुतानि त्वत्प्रसादतः ॥ १ ॥ न तृप्तिमधिगच्छामि तव वागमृतेन च । वदस्वैकं महाभाग सङ्कटाख्यानमुत्तमम् ॥ २ ॥ इति तस्य वचः श्रुत्वा जैगीषव्योऽब्रवीत्ततः । सङ्कष्टनाशनं स्तोत्रं शृणु देवर्षिसत्तम ॥ ३ ॥ द्वापरे तु पुरा वृत्ते भ्रष्टराज्यो युधिष्ठिरः । भ्रातृभिस्सहितो राज्यनिर्वेदं परमं गतः ॥ ४…

श्री सर्वमङ्गला स्तोत्रम्

|| श्री सर्वमङ्गला स्तोत्रम् || ब्रह्मोवाच । दुर्गे शिवेऽभये माये नारायणि सनातनि । जये मे मङ्गलं देहि नमस्ते सर्वमङ्गले ॥ १ ॥ दैत्यनाशार्थवचनो दकारः परिकीर्तितः । उकारो विघ्ननाशार्थवाचको वेदसम्मतः ॥ २ ॥ रेफो रोगघ्नवचनो गश्च पापघ्नवाचकः । भयशत्रुघ्नवचनश्चाऽऽकारः परिकीर्तितः ॥ ३ ॥ स्मृत्युक्तिस्मरणाद्यस्या एते नश्यन्ति निश्चितम् । अतो दुर्गा हरेः शक्तिर्हरिणा परिकीर्तिता ॥ ४ ॥…

सप्तमातृका स्तोत्रम्

|| सप्तमातृका स्तोत्रम् || प्रार्थना । ब्रह्माणी कमलेन्दुसौम्यवदना माहेश्वरी लीलया कौमारी रिपुदर्पनाशनकरी चक्रायुधा वैष्णवी । वाराही घनघोरघर्घरमुखी चैन्द्री च वज्रायुधा चामुण्डा गणनाथरुद्रसहिता रक्षन्तु नो मातरः ॥ ब्राह्मी – हंसारूढा प्रकर्तव्या साक्षसूत्रकमण्डलुः । स्रुवं च पुस्तकं धत्ते ऊर्ध्वहस्तद्वये शुभा ॥ १ ॥ ब्राह्म्यै नमः । माहेश्वरी – माहेश्वरी प्रकर्तव्या वृषभासनसंस्थिता । कपालशूलखट्वाङ्गवरदा च चतुर्भुजा ॥ २…

श्री श्रेयस्करी स्तोत्रम्

|| श्री श्रेयस्करी स्तोत्रम् || श्रेयस्करि श्रमनिवारिणि सिद्धविद्ये स्वानन्दपूर्णहृदये करुणातनो मे । चित्ते वस प्रियतमेन शिवेन सार्धं माङ्गल्यमातनु सदैव मुदैव मातः ॥ १ ॥ श्रेयस्करि श्रितजनोद्धरणैकदक्षे दाक्षायणि क्षपित पातकतूलराशे । शर्मण्यपादयुगले जलजप्रमोदे मित्रेत्रयी प्रसृमरे रमतां मनो मे ॥ २ ॥ श्रेयस्करि प्रणतपामर पारदान ज्ञान प्रदानसरणिश्रित पादपीठे । श्रेयांसि सन्ति निखिलानि सुमङ्गलानि तत्रैव मे वसतु मानसराजहंसः…

श्री शीतलाष्टकम्

|| श्री शीतलाष्टकम् || अस्य श्रीशीतलास्तोत्रस्य महादेव ऋषिः अनुष्टुप् छन्दः शीतला देवता लक्ष्मीर्बीजं भवानी शक्तिः सर्वविस्फोटकनिवृत्यर्थे जपे विनियोगः ॥ ईश्वर उवाच । वन्देऽहं शीतलां देवीं रासभस्थां दिगम्बराम् । मार्जनीकलशोपेतां शूर्पालङ्कृतमस्तकाम् ॥ १ ॥ वन्देऽहं शीतलां देवीं सर्वरोगभयापहाम् । यामासाद्य निवर्तेत विस्फोटकभयं महत् ॥ २ ॥ शीतले शीतले चेति यो ब्रूयाद्दाहपीडितः । विस्फोटकभयं घोरं क्षिप्रं तस्य…

नित्य पारायण स्तोत्रम्

॥ नित्य पारायण स्तोत्रम् ॥ प्रभात श्लोकः कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती । करमूले स्थिता गौरी प्रभाते करदर्​शनम् ॥ करमूले तु गोविंदः प्रभाते करदर्​शनम् ॥ प्रभात भूमि श्लोकः समुद्र वसने देवी पर्वत स्तन मंडले । विष्णुपत्नि नमस्तुभ्यं, पादस्पर्​शं क्षमस्वमे ॥ सूर्योदय श्लोकः ब्रह्मस्वरूप मुदये मध्याह्नेतु महेश्वरम् । साहं ध्यायेत्सदा विष्णुं त्रिमूर्तिं च दिवाकरम् ॥ स्नान…

अर्ध नारीश्वर स्तोत्रम्

॥ अर्ध नारीश्वर स्तोत्रम् ॥ चांपेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय । धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय ॥ कस्तूरिकाकुंकुमचर्चितायै चितारजःपुंज विचर्चिताय । कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥ झणत्क्वणत्कंकणनूपुरायै पादाब्जराजत्फणिनूपुराय । हेमांगदायै भुजगांगदाय नमः शिवायै च नमः शिवाय ॥ विशालनीलोत्पललोचनायै विकासिपंकेरुहलोचनाय । समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ॥ मंदारमालाकलितालकायै कपालमालांकितकंधराय । दिव्यांबरायै…

श्री विशालाक्षी स्तोत्रम् (व्यास कृतम्)

|| श्री विशालाक्षी स्तोत्रम् (व्यास कृतम्) || व्यास उवाच । विशालाक्षि नमस्तुभ्यं परब्रह्मात्मिके शिवे । त्वमेव माता सर्वेषां ब्रह्मादीनां दिवौकसाम् ॥ १ ॥ इच्छाशक्तिः क्रियाशक्तिर्ज्ञानशक्तिस्त्वमेव हि । ऋज्वी कुण्डलिनी सुक्ष्मा योगसिद्धिप्रदायिनी ॥ २ ॥ स्वाहा स्वधा महाविद्या मेधा लक्ष्मीः सरस्वती । सती दाक्षायणी विद्या सर्वशक्तिमयी शिवा ॥ ३ ॥ अपर्णा चैकपर्णा च तथा चैकैकपाटला ।…

श्री वासवी स्तोत्रम्

|| श्री वासवी स्तोत्रम् || कैलासाचलसन्निभे गिरिपुरे सौवर्णशृङ्गे मह- स्तंभोद्यन् मणिमण्टपे सुरुचिर प्रान्ते च सिंहासने । आसीनं सकलाऽमरार्चितपदां भक्तार्ति विध्वंसिनीं वन्दे वासवि कन्याकं स्मितमुखीं सर्वार्थदामम्बिकाम् ॥ १ ॥ नमस्ते वासवी देवी नमस्ते विश्वपावनि । नमस्ते व्रतसम्बद्धा क्ॐआत्रे ते नमो नमः ॥ २ ॥ नमस्ते भयसंहारी नमस्ते भवनाशिनि । नमस्ते भाग्यदा देवी वासवी ते नमो नमः…

श्री वासवीकन्यकापरमेश्वरी अष्टोत्तरशतनामावली

 || श्री वासवीकन्यकापरमेश्वरी अष्टोत्तरशतनामावली || ओं श्रीवासवाम्बायै नमः । ओं श्रीकन्यकायै नमः । ओं जगन्मात्रे नमः । ओं आदिशक्त्यै नमः । ओं देव्यै नमः । ओं करुणायै नमः । ओं प्रकृतिस्वरूपिण्यै नमः । ओं विद्यायै नमः । ओं शुभायै नमः । ९ ओं धर्मस्वरूपिण्यै नमः । ओं वैश्यकुलोद्भवायै नमः । ओं सर्वस्यै नमः । ओं…

श्री वासवीकन्यकाष्टकम्

|| श्री वासवीकन्यकाष्टकम् || नमो देव्यै सुभद्रायै कन्यकायै नमो नमः । शुभं कुरु महादेवि वासव्यैच नमो नमः ॥ १ ॥ जयायै चन्द्ररूपायै चण्डिकायै नमो नमः । शान्तिमावहनोदेवि वासव्यै ते नमो नमः ॥ २ ॥ नन्दायैते नमस्तेस्तु गौर्यै देव्यै नमो नमः । पाहिनः पुत्रदाराम्श्च वासव्यै ते नमो नमः ॥ ३ ॥ अपर्णायै नमस्तेस्तु कौसुंभ्यै ते नमो…

श्री रेणुका अष्टोत्तरशतनामावली

|| श्री रेणुका अष्टोत्तरशतनामावली || ओं जगदम्बायै नमः । ओं जगद्वन्द्यायै नमः । ओं महाशक्त्यै नमः । ओं महेश्वर्यै नमः । ओं महादेव्यै नमः । ओं महाकाल्यै नमः । ओं महालक्ष्म्यै नमः । ओं सरस्वत्यै नमः । ओं महावीरायै नमः । ९ ओं महारात्र्यै नमः । ओं कालरात्र्यै नमः । ओं कालिकायै नमः । ओं…

श्री रेणुका अष्टोत्तरशतनाम स्तोत्रम्

|| श्री रेणुका अष्टोत्तरशतनाम स्तोत्रम् || ध्यानम् । ध्यायेन्नित्यमपूर्ववेषललितां कन्दर्पलावण्यदां देवीं देवगणैरुपास्यचरणां कारुण्यरत्नाकराम् । लीलाविग्रहिणीं विराजितभुजां सच्चन्द्रहासादिभि- -र्भक्तानन्दविधायिनीं प्रमुदितां नित्योत्सवां रेणुकाम् ॥ स्तोत्रम् । जगदम्बा जगद्वन्द्या महाशक्तिर्महेश्वरी । महादेवी महाकाली महालक्ष्मीः सरस्वती ॥ महावीरा महारात्रिः कालरात्रिश्च कालिका । सिद्धविद्या राममाता शिवा शान्ता ऋषिप्रिया ॥ नारायणी जगन्माता जगद्बीजा जगत्प्रभा । चन्द्रिका चन्द्रचूडा च चन्द्रायुधधरा शुभा ॥…

आदित्य कवच पाठ

॥ आदित्य कवच पाठ विधि ॥ सर्वप्रथम नित्यकर्म आदि से निर्वत्त होकर एक लाल रंग का स्वच्छ आसान बिछायें। अब पूर्व दिशा की ओर मुख करके पद्मासन में बैठ जायें अपने सामने भगवान सूर्यदेव का छायाचित्र अथवा मूर्ति स्थापित करें, दोनों में से कुछ भी उपलब्ध न होने की दशा में आकाश में पूर्व दिशा…

श्री गायत्री कवच

॥ गायत्री कवचम्‌ ॥ विनियोग अस्य श्री गायत्रीकवचस्तोत्रमन्त्रस्य ब्रह्म-विष्णु-महेश्वरा ऋषय;, ऋग,-यजुः-सामा-ऽथर्वाणि छन्दांसि, परब्रह्मस्व-रूपिणी गायत्री देवता तद्बीजम्‌, भर्गः शक्तिः, धियः कीलकम्‌, मोक्षार्थे जपे विनियोगः । न्यास ॐ तत्सवितुर्ब्रह्मात्मने हृदयाय नमः, ॐ वरेण्यं विष्णवात्मने शिरसे स्वाहा, ॐ भर्गोदेवस्य रुद्रात्मने शिखायै वषट्, ॐ धीमहि ईश्वरात्मने कवचाय हुम्‌ ॐ धियो यो नः सदाशिवात्मने नेत्रत्रयाय वौषट्, ॐ प्रचोदयात्‌ परब्रह्मतत्त्वात्मने अस्त्राय…

श्री रेणुका स्तोत्रम्

|| श्री रेणुका स्तोत्रम् || श्रीपरशुराम उवाच । ओं नमः परमानन्दे सर्वदेवमयी शुभे । अकारादिक्षकारान्तं मातृकामन्त्रमालिनी ॥ १ ॥ एकवीरे एकरूपे महारूपे अरूपिणी । अव्यक्ते व्यक्तिमापन्ने गुणातीते गुणात्मिके ॥ २ ॥ कमले कमलाभासे हृत्सत्प्रक्तर्णिकालये । नाभिचक्रस्थिते देवि कुण्डली तन्तुरूपिणी ॥ ३ ॥ वीरमाता वीरवन्द्या योगिनी समरप्रिये । वेदमाता वेदगर्भे विश्वगर्भे नमोऽस्तु ते ॥ ४ ॥…

श्री भवानी कवच

॥ श्री भवानी कवचम् ॥ श्री पार्वत्युवाच भगवन् सर्वमाख्यातं मन्त्रं यन्त्रं शुभ प्रदम् । भवान्याः कवचं ब्रूहि यद्यहं वल्लभा तव ॥ १॥ ईश्वर उवाच । गुह्याद्गुह्यतरं गोप्यं भवान्याः सर्वकामदम् । कवचं मोहनं देवि गुरुभक्त्या प्रकाशितम् ॥ २॥ राज्यं देयं च सर्वस्वं कवचं न प्रकाशयेत् । गुरु भक्ताय दातव्यमन्यथा सिद्धिदं नहि ॥ ३॥ ॐ अस्य श्रीभवानी…

श्री रेणुका कवचम्

|| श्री रेणुका कवचम् || जमदग्निप्रियां देवीं रेणुकामेकमातरं सर्वारम्भे प्रसीद त्वं नमामि कुलदेवताम् । अशक्तानां प्रकारो वै कथ्यतां मम शङ्कर पुरश्चरणकालेषु का वा कार्या क्रियापरा ॥ श्री शङ्कर उवाच । विना जपं विना दानं विना होमं महेश्वरि । रेणुका मन्त्रसिद्धि स्यान्नित्यं कवच पाठतः ॥ त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् । सर्वसिद्धिकरं लोके सर्वराजवशङ्करम् ॥ डाकिनीभूतवेतालब्रह्मराक्षसनाशनम् ।…

श्री राजराजेश्वर्यष्टकम् (अम्बाष्टकम्)

|| श्री राजराजेश्वर्यष्टकम् (अम्बाष्टकम्) || अम्बा शाम्भवि चन्द्रमौलिरबलाऽपर्णा उमा पार्वती काली हैमवती शिवा त्रिनयनी कात्यायनी भैरवी । सावित्री नवयौवना शुभकरी साम्राज्यलक्ष्मीप्रदा चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी ॥ १ ॥ अम्बा मोहिनि देवता त्रिभुवनी आनन्दसन्दायिनी वाणी पल्लवपाणि वेणुमुरलीगानप्रियालोलिनी । कल्याणी उडुराजबिम्बवदना धूम्राक्षसंहारिणी चिद्रूपी परदेवता भगवती श्रीराजराजेश्वरी ॥ २ ॥ अम्बा नूपुररत्नकङ्कणधरी केयूरहारावली जातीचम्पकवैजयन्तिलहरी ग्रैवेयकैराजिता । वीणावेणुविनोदमण्डितकरा वीरासने…

बृहस्पति कवच पाठ

॥ बृहस्पति कवच पाठ करने के लाभ ॥ बृहस्पति कवच का पाठ करने से जातक को बृहस्पति की महादशा तथा अन्तर्दशा में लाभ होता है। इस कवच के नियमित पाठ से विवाह सम्बन्धी समस्याओं का निवारण होता है। बृहस्पति कवच का दैनिक पाठ करने से घर में धन – धान्य की पूर्ति होती है। यदि…

बुध कवच स्तोत्र

‖ बुध कवच स्तोत्र ‖ विनियोगः अस्य श्रीबुधकवचस्तोत्रमन्त्रस्य, कश्यप ऋषिः, अनुष्टुप् छन्दः, बुधो देवता, बुधप्रीत्यर्थं जपे विनियोगः| अथ बुध कवचम् बुधस्तु पुस्तकधरः कुङ्कुमस्य समद्युतिः | पीताम्बरधरः पातु पीतमाल्यानुलेपनः ‖ 1 ‖ कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा | नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः ‖ 2 ‖ घाणं गन्धप्रियः पातु जिह्वां विद्याप्रदो मम |…

श्री मङ्गलचण्डिका स्तोत्रम्

|| श्री मङ्गलचण्डिका स्तोत्रम् || ध्यानम् । देवीं षोडशवर्षीयां रम्यां सुस्थिरयौवनाम् । सर्वरूपगुणाढ्यां च कोमलाङ्गीं मनोहराम् ॥ १ ॥ श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् । वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥ २ ॥ बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम् । बिम्बोष्ठीं सुदतीं शुद्धां शरत्पद्मनिभाननाम् ॥ ३ ॥ ईषद्धास्यप्रसन्नास्यां सुनीलोत्पललोचनाम् । जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसम्पदाम् ॥ ४ ॥ संसारसागरे घोरे पोतरुपां वरां भजे…

श्री मूकाम्बिका स्तोत्रम्

|| श्री मूकाम्बिका स्तोत्रम् || मूलाम्भोरुहमध्यकोणविलसद्बन्धूकरागोज्ज्वलां ज्वालाजालजितेन्दुकान्तिलहरीमानन्दसन्दायिनीं । एलाललितनीलकुन्तलधरां नीलोत्पलाभाम्शुकां कोलूराद्रिनिवासिनीं भगवतीं ध्यायामि मूकाम्बिकाम् ॥ १ ॥ बालादित्यनिभाननां त्रिनयनां बालेन्दुना भूषितां नीलाकारसुकेशिनीं सुललितां नित्यान्नदानप्रियां । शङ्खं चक्र वराभयां च दधतीं सारस्वतार्थप्रदां तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम् ॥ २ ॥ मध्याह्नार्कसहस्रकोटिसदृशां मायान्धकारच्छिदां मध्यान्तादिविवर्जितां मदकरीं मारेण संसेवितां । शूलम्पाशकपालपुस्तकधरां शुद्धार्थविज्ञानदां तां बालां त्रिपुरां शिवेनसहितां ध्यायामि मूकाम्बिकाम्…

मीनाक्षी स्तोत्रम्

|| मीनाक्षी स्तोत्रम् || श्रीविद्ये शिववामभागनिलये श्रीराजराजार्चिते श्रीनाथादिगुरुस्वरूपविभवे चिन्तामणीपीठिके । श्रीवाणीगिरिजानुताङ्घ्रिकमले श्रीशाम्भवि श्रीशिवे मध्याह्ने मलयध्वजाधिपसुते मां पाहि मीनाम्बिके ॥ १ ॥ चक्रस्थेऽचपले चराचरजगन्नाथे जगत्पूजिते आर्तालीवरदे नताभयकरे वक्षोजभारान्विते । विद्ये वेदकलापमौलिविदिते विद्युल्लताविग्रहे मातः पूर्णसुधारसार्द्रहृदये मां पाहि मीनाम्बिके ॥ २ ॥ कोटीराङ्गदरत्नकुण्डलधरे कोदण्डबाणाञ्चिते कोकाकारकुचद्वयोपरिलसत्प्रालम्बहाराञ्चिते । शिञ्जन्नूपुरपादसारसमणीश्रीपादुकालङ्कृते मद्दारिद्र्यभुजङ्गगारुडखगे मां पाहि मीनाम्बिके ॥ ३ ॥ ब्रह्मेशाच्युतगीयमानचरिते प्रेतासनान्तस्थिते पाशोदङ्कुशचापबाणकलिते बालेन्दुचूडाञ्चिते…

श्री नारायण कवच

॥ श्री नारायण कवच ॥ ॐ श्री विष्णवे नमः ॥ ॐ श्री विष्णवे नमः ॥ ॐ श्री विष्णवे नमः ॥ ॐ नमो नारायणाय ॥ ॐ नमो नारायणाय ॥ ॐ नमो नारायणाय ॥ ॐ नमो भगवते वासुदेवाय ॥ ॐ नमो भगवते वासुदेवाय ॥ ॐ नमो भगवते वासुदेवाय ॥ ॐ हरिर्विदध्यान्मम सर्वरक्षां न्यस्ताड़् घ्रिपद्मः पतगेन्द्रपृष्ठे । दरारिचर्मासिगदेषुचापपाशान्…

मातृकावर्ण स्तोत्रम्

|| मातृकावर्ण स्तोत्रम् || गणेश ग्रह नक्षत्र योगिनी राशि रूपिणीम् । देवीं मन्त्रमयीं नौमि मातृकापीठ रूपिणीम् ॥ १ ॥ प्रणमामि महादेवीं मातृकां परमेश्वरीम् । कालहल्लोहलोल्लोल कलनाशमकारिणीम् ॥ २ ॥ यदक्षरैकमात्रेऽपि संसिद्धे स्पर्धते नरः । रवितार्क्ष्येन्दु कन्दर्प शङ्करानल विष्णुभिः ॥ ३ ॥ यदक्षर शशिज्योत्स्नामण्डितं भुवनत्रयम् । वन्दे सर्वेश्वरीं देवीं महाश्रीसिद्धमातृकाम् ॥ ४ ॥ यदक्षर महासूत्र प्रोतमेतज्जगत्रयम्…

श्री मनसा देवी मूलमन्त्रम्

|| श्री मनसा देवी मूलमन्त्रम् || ध्यानम् । श्वेतचम्पकवर्णाभां रत्नभूषणभूषिताम् । वह्निशुद्धांशुकाधानां नागयज्ञोपवीतिनीम् ॥ १ ॥ महाज्ञानयुतां चैव प्रवरां ज्ञानिनां सताम् । सिद्धाधिष्टातृदेवीं च सिद्धां सिद्धिप्रदां भजे ॥ २ ॥ पञ्चोपचार पूजा । ओं नमो मनसायै – गन्धं परिकल्पयामि । ओं नमो मनसायै – पुष्पं परिकल्पयामि । ओं नमो मनसायै – धूपं परिकल्पयामि । ओं…

श्री भ्रमराम्बाष्टकम्

|| श्री भ्रमराम्बाष्टकम् || चांचल्यारुणलॊचनांचितकृपां चंद्रार्कचूडामणिं चारुस्मॆरमुखां चराचरजगत्संरक्षणीं तत्पदाम् । चंचच्चंपकनासिकाग्रविलसन्मुक्तामणीरंजितां श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ ॥ १ ॥ कस्तूरीतिलकांचितॆंदुविलसत्प्रॊद्भासिफालस्थलीं कर्पूरद्रवमिश्रचूर्णखदिरामॊदॊल्लसद्वीटिकाम् । लॊलापांगतरंगितैरधिकृपासारैर्नतानंदिनीं श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ ॥ २ ॥ राजन्मत्तमरालमंदगमनां राजीवपत्रॆक्षणां राजीवप्रभवादिदॆवमकुटै राजत्पदांभॊरुहाम् । राजीवायतमंदमंडितकुचां राजाधिराजॆश्वरीं [पत्र] श्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावयॆ ॥ ३ ॥ षट्तारां गणदीपिकां शिवसतीं षड्वैरिवर्गापहां षट्चक्रांतरसंस्थितां वरसुधां षड्यॊगिनीवॆष्टिताम् । षट्चक्रांचितपादुकांचितपदां षड्भावगां षॊडशीं…

श्री भवान्यष्टकम्

|| श्री भवान्यष्टकम् || न तातो न माता न बन्धुर्न दाता न पुत्रो न पुत्री न भृत्यो न भर्ता । न जाया न विद्या न वृत्तिर्ममैव गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ १ ॥ भवाब्धावपारे महादुःखभीरु पपात प्रकामी प्रलोभी प्रमत्तः । कुसंसारपाशप्रबद्धः सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ २ ॥ न जानामि दानं न च ध्यानयोगं…

श्री भवानी भुजङ्ग स्तुतिः

|| श्री भवानी भुजङ्ग स्तुतिः || षडाधारपङ्केरुहान्तर्विराज- -त्सुषुम्नान्तरालेऽतितेजोल्लसन्तीम् । सुधामण्डलं द्रावयन्तीं पिबन्तीं सुधामूर्तिमीडे चिदानन्दरूपाम् ॥ १ ॥ ज्वलत्कोटिबालार्कभासारुणाङ्गीं सुलावण्यशृङ्गारशोभाभिरामाम् । महापद्मकिञ्जल्कमध्ये विराज- -त्त्रिकोणे निषण्णां भजे श्रीभवानीम् ॥ २ ॥ क्वणत्किङ्किणीनूपुरोद्भासिरत्न- -प्रभालीढलाक्षार्द्रपादाब्जयुग्मम् । अजेशाच्युताद्यैः सुरैः सेव्यमानं महादेवि मन्मूर्ध्नि ते भावयामि ॥ ३ ॥ सुशोणाम्बराबद्धनीवीविराज- -न्महारत्नकाञ्चीकलापं नितम्बम् । स्फुरद्दक्षिणावर्तनाभिं च तिस्रो वलीरम्ब ते रोमराजिं भजेऽहम् ॥ ४…

श्री दाक्षायणी स्तोत्रम्

|| श्री दाक्षायणी स्तोत्रम् || गम्भीरावर्तनाभी मृगमदतिलका वामबिम्बाधरोष्टी श्रीकान्ताकाञ्चिदाम्ना परिवृत जघना कोकिलालापवाणि । कौमारी कम्बुकण्ठी प्रहसितवदना धूर्जटीप्राणकान्ता रम्भोरू सिंहमध्या हिमगिरितनया शाम्भवी नः पुनातु ॥ १ ॥ दद्यात्कल्मषहारिणी शिवतनू पाशाङ्कुशालङ्कृता शर्वाणी शशिसूर्यवह्निनयना कुन्दाग्रदन्तोज्ज्वला । कारुण्यामृतपूर्णवाग्विलसिता मत्तेभकुम्भस्तनी लोलाक्षी भवबन्धमोक्षणकरी स्व श्रेयसं सन्ततम् ॥ २ ॥ मध्ये सुधाब्धि मणिमण्टपरत्न वेद्यां सिंहासनोपरिगतां परिपीतवर्णाम् । पीताम्बराभरणमाल्यविचित्रगात्रीं देवीं भजामि नितरां नुतवेदजिह्वाम्…

श्री तुलजा भवानी स्तोत्रम्

|| श्री तुलजा भवानी स्तोत्रम् || नमोऽस्तु ते महादेवि शिवे कल्याणि शाम्भवि । प्रसीद वेदविनुते जगदम्ब नमोऽस्तु ते ॥ १ ॥ जगतामादिभूता त्वं जगत्त्वं जगदाश्रया । एकाऽप्यनेकरूपासि जगदम्ब नमोऽस्तु ते ॥ २ ॥ सृष्टिस्थितिविनाशानां हेतुभूते मुनिस्तुते । प्रसीद देवविनुते जगदम्ब नमोऽस्तु ते ॥ ३ ॥ सर्वेश्वरि नमस्तुभ्यं सर्वसौभाग्यदायिनि । सर्वशक्तियुतेऽनन्ते जगदम्ब नमोऽस्तु ते ॥ ४…

श्री जोगुलाम्बाष्टकम्

|| श्री जोगुलाम्बाष्टकम् || महायोगिपीठस्थले तुङ्गभद्रा- -तटे सूक्ष्मकाश्यां सदासंवसन्तीम् । महायोगिब्रह्मेशवामाङ्कसंस्थां शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ १ ॥ ज्वलद्रत्नवैडूर्यमुक्ताप्रवाल प्रवीण्यस्थगाङ्गेयकोटीरशोभाम् । सुकाश्मीररेखाप्रभाख्यां स्वफाले शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ २ ॥ स्वसौन्दर्यमन्दस्मितां बिन्दुवक्त्रां रसत्कज्जलालिप्त पद्माभनेत्राम् । परां पार्वतीं विद्युदाभासगात्रीं शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ३ ॥ घनश्यामलापादसंलोक वेणीं मनः शङ्करारामपीयूषवाणीम् । शुकाश्लिष्टसुश्लाघ्यपद्माभपाणीं शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ४ ॥ सुधापूर्ण…

श्री जगद्धात्री स्तोत्रम्

|| श्री जगद्धात्री स्तोत्रम् || आधारभूते चाधेये धृतिरूपे धुरन्धरे । ध्रुवे ध्रुवपदे धीरे जगद्धात्रि नमोऽस्तु ते ॥ १ ॥ शवाकारे शक्तिरूपे शक्तिस्थे शक्तिविग्रहे । शाक्ताचारप्रिये देवि जगद्धात्रि नमोऽस्तु ते ॥ २ ॥ जयदे जगदानन्दे जगदेकप्रपूजिते । जय सर्वगते दुर्गे जगद्धात्रि नमोऽस्तु ते ॥ ३ ॥ सूक्ष्मातिसूक्ष्मरूपे च प्राणापानादिरूपिणि । भावाभावस्वरूपे च जगद्धात्रि नमोऽस्तु ते ॥…

चतुःषष्टि योगिनी नाम स्तोत्रम् 1

|| चतुःषष्टि योगिनी नाम स्तोत्रम् 1 || गजास्या सिंहवक्त्रा च गृध्रास्या काकतुण्डिका । उष्ट्रास्याऽश्वखरग्रीवा वाराहास्या शिवानना ॥ १ ॥ उलूकाक्षी घोररवा मायूरी शरभानना । कोटराक्षी चाष्टवक्त्रा कुब्जा च विकटानना ॥ २ ॥ शुष्कोदरी ललज्जिह्वा श्वदंष्ट्रा वानरानना । ऋक्षाक्षी केकराक्षी च बृहत्तुण्डा सुराप्रिया ॥ ३ ॥ कपालहस्ता रक्ताक्षी शुकी श्येनी कपोतिका । पाशहस्ता दण्डहस्ता प्रचण्डा चण्डविक्रमा…

श्री मङ्गलगौरी स्तोत्रम्

|| श्री मङ्गलगौरी स्तोत्रम् || देवि त्वदीयचरणाम्बुजरेणु गौरीं भालस्थलीं वहति यः प्रणतिप्रवीणः । जन्मान्तरेऽपि रजनीकरचारुलेखा तां गौरयत्यतितरां किल तस्य पुंसः ॥ १ ॥ श्रीमङ्गले सकलमङ्गलजन्मभूमे श्रीमङ्गले सकलकल्मषतूलवह्ने । श्रीमङ्गले सकलदानवदर्पहन्त्रि श्रीमङ्गलेऽखिलमिदं परिपाहि विश्वम् ॥ २ ॥ विश्वेश्वरि त्वमसि विश्वजनस्य कर्त्री त्वं पालयित्र्यसि तथा प्रलयेऽपि हन्त्री । त्वन्नामकीर्तनसमुल्लसदच्छपुण्या स्रोतस्विनी हरति पातककूलवृक्षान् ॥ ३ ॥ मातर्भवानि भवती…