धर्मशास्तासहस्रनामस्तोत्रम्
|| धर्मशास्तासहस्रनामस्तोत्रम् || ॐ पूर्णपुष्कलाम्बासमेत श्रीहरिहरपुत्रस्वामिने नमः । श्रीधर्मशास्तासहस्रनामस्तोत्रम् । अस्य श्रीहरिहरपुत्रसहस्रनामस्तोत्रमालामन्त्रस्य अर्धनारीश्वर ऋषिः । अनुष्टुप्छन्दः । श्रीहरिहरपुत्रो देवता । ह्रां बिजं, ह्रीं शक्तिः, ह्रूं कीलकम् । श्रीहरिहरपुत्रप्रसादसिध्यर्थे जपे विनियोगः ॥ अथ करन्यासः । ह्रां अङ्गुष्ठाभ्यां नमः । ह्रीं तर्जनीभ्यां नमः । ह्रूं मध्यमाभ्यां नमः । ह्रैं अनामिकाभ्यां नमः । ह्रौं कनिष्ठिकाभ्यां नमः । ह्रः…