॥ श्री महामृत्युञ्जय कवचम् ॥
॥ श्री भैरव उवाच ॥
श्रृणुष्व परमेशानि कवचं मन्मुखोदितम् ।
महामृत्युञ्जयस्यास्य न देयं परमाद्भुतम् ॥ १॥
यं धृत्वा यं पठित्वा च श्रुत्वा च कवचोत्तमम् ।
त्रैलोक्याधिपतिर्भूत्वा सुखितोऽस्मि महेश्वरि ॥ २॥
तदेववर्णयिष्यामि तव प्रीत्या वरानने ।
तथापि परमं तत्वं न दातव्यं दुरात्मने ॥ ३॥
॥ विनियोगः ॥
अस्य श्रीमहामृत्युञ्जयकवचस्य श्रीभैरव ऋषिः,
गायत्रीछन्दः, श्रीमहामृत्युञ्जयो महारुद्रो देवता,
ॐ बीजं, जूं शक्तिः, सः कीलकं, हौमिति तत्वं,
चतुर्वर्गसाधने मृत्युञ्जयकवचपाठे विनियोगः ।
चन्द्रमण्डलमध्यस्थं रुद्रं भाले विचिन्त्य तम् ।
तत्रस्थं चिन्तयेत् साध्यं मृत्युं प्राप्तोऽपि जीवति ॥ १॥
ॐ जूं सः हौं शिरः पातु देवो मृत्युञ्जयो मम ।
ॐ श्रीं शिवो ललाटं मे ॐ हौं भ्रुवौ सदाशिवः ॥ २॥
नीलकण्ठोऽवतान्नेत्रे कपर्दी मेऽवताच्छ्रुती ।
त्रिलोचनोऽवताद् गण्डौ नासां मे त्रिपुरान्तकः ॥ ३॥
मुखं पीयूषघटभृदोष्ठौ मे कृत्तिकाम्बरः ।
हनुं मे हाटकेशनो मुखं बटुकभैरवः ॥ ४॥
कन्धरां कालमथनो गलं गणप्रियोऽवतु ।
स्कन्धौ स्कन्दपिता पातु हस्तौ मे गिरिशोऽवतु ॥ ५॥
नखान् मे गिरिजानाथः पायादङ्गुलिसंयुतान् ।
स्तनौ तारापतिः पातु वक्षः पशुपतिर्मम ॥ ६॥
कुक्षिं कुबेरवरदः पार्श्वौ मे मारशासनः ।
शर्वः पातु तथा नाभिं शूली पृष्ठं ममावतु ॥ ७॥
शिश्र्नं मे शङ्करः पातु गुह्यं गुह्यकवल्लभः ।
कटिं कालान्तकः पायादूरू मेऽन्धकघातकः ॥ ८॥
जागरूकोऽवताज्जानू जङ्घे मे कालभैरवः ।
गुल्फो पायाज्जटाधारी पादौ मृत्युञ्जयोऽवतु ॥ ९॥
पादादिमूर्धपर्यन्तमघोरः पातु मे सदा ।
शिरसः पादपर्यन्तं सद्योजातो ममावतु ॥ १०॥
रक्षाहीनं नामहीनं वपुः पात्वमृतेश्वरः ।
पूर्वे बलविकरणो दक्षिणे कालशासनः ॥ ११॥
पश्चिमे पार्वतीनाथो ह्युत्तरे मां मनोन्मनः ।
ऐशान्यामीश्वरः पायादाग्नेय्यामग्निलोचनः ॥ १२॥
नैऋत्यां शम्भुरव्यान्मां वायव्यां वायुवाहनः ।
उर्ध्वे बलप्रमथनः पाताले परमेश्वरः ॥ १३॥
दशदिक्षु सदा पातु महामृत्युञ्जयश्च माम् ।
रणे राजकुले द्यूते विषमे प्राणसंशये ॥ १४॥
पायाद् ओं जूं महारुद्रो देवदेवो दशाक्षरः ।
प्रभाते पातु मां ब्रह्मा मध्याह्ने भैरवोऽवतु ॥ १५॥
सायं सर्वेश्वरः पातु निशायां नित्यचेतनः ।
अर्धरात्रे महादेवो निशान्ते मां महोमयः ॥ १६॥
सर्वदा सर्वतः पातु ॐ जूं सः हौं मृत्युञ्जयः ।
इतीदं कवचं पुण्यं त्रिषु लोकेषु दुर्लभम् ॥ १७॥
॥ फलश्रुति ॥
सर्वमन्त्रमयं गुह्यं सर्वतन्त्रेषु गोपितम् ।
पुण्यं पुण्यप्रदं दिव्यं देवदेवाधिदैवतम् ॥ १८॥
य इदं च पठेन्मन्त्री कवचं वार्चयेत् ततः ।
तस्य हस्ते महादेवि त्र्यम्बकस्याष्ट सिद्धयः ॥ १९॥
रणे धृत्वा चरेद्युद्धं हत्वा शत्रूञ्जयं लभेत् ।
जयं कृत्वा गृहं देवि सम्प्राप्स्यति सुखी पुनः ॥ २०॥
महाभये महारोगे महामारीभये तथा ।
दुर्भिक्षे शत्रुसंहारे पठेत् कवचमादरात् ॥ २१॥
सर्व तत् प्रशमं याति मृत्युञ्जयप्रसादतः ।
धनं पुत्रान् सुखं लक्ष्मीमारोग्यं सर्वसम्पदः ॥ २२॥
प्राप्नोति साधकः सद्यो देवि सत्यं न संशयः
इतीदं कवचं पुण्यं महामृत्युञ्जयस्य तु ।
गोप्यं सिद्धिप्रदं गुह्यं गोपनीयं स्वयोनिवत् ॥ २३॥
॥ इति श्री महामृत्युञ्जय कवचम् सम्पूर्णम् ॥
Read in More Languages:- englishShri Amogh Shiv Kavach
- hindiसदाशिव कवचम्
- englishShri Trailokya Mohan Kali Kavacham
- englishShri Brahmandvijay Shri Shiv Kavach
- englishShri Rudra Kavacham
- sanskritश्री रुद्र कवचम्
- sanskritब्रह्माण्डविजय श्री शिव कवच
- sanskritअमोघ शिव कवच
Found a Mistake or Error? Report it Now