नरसिंह पंचरत्न स्तोत्र PDF हिन्दी
Download PDF of Narasimha Pancharatna Stotram Hindi
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ हिन्दी
नरसिंह पंचरत्न स्तोत्र हिन्दी Lyrics
|| नरसिंह पंचरत्न स्तोत्र ||
भवनाशनैकसमुद्यमं करुणाकरं सुगुणालयं
निजभक्ततारणरक्षणाय हिरण्यकश्यपुघातिनम्।
भवमोहदारणकामनाशनदुःखवारणहेतुकं
भजपावनं सुखसागरं नरसिंहमद्वयरूपिणम्।
गुरुसार्वभौममर्घातकं मुनिसंस्तुतं सुरसेवितम्
अतिशान्तिवारिधिमप्रमेयमनामयं श्रितरक्षणम्।
भवमोक्षदं बहुशोभनं मुखपङ्कजं निजशान्तिदं
भजपावनं सुखसागरं नरसिंहमद्वयरूपिणम्।
निजरूपकं विततं शिवं सुविदर्शनायहितत्क्षणम्
अतिभक्तवत्सलरूपिणं किल दारुतः सुसमागतम्।
अविनाशिनं निजतेजसं शुभकारकं बलरूपिणं
भजपावनं सुखसागरं नरसिंहमद्वयरूपिणम्।
अविकारिणं मधुभाषिणं भवतापहारणकोविदं
सुजनैः सुकामितदायिनं निजभक्तहृत्सुविराजितम्।
अतिवीरधीरपराक्रमोत्कटरूपिणं परमेश्वरं
भजपावनं सुखसागरं नरसिंहमद्वयरूपिणम्।
जगतोऽस्य कारणमेव सच्चिदनन्तसौख्यमखण्डितं
सुविधायिमङ्गलविग्रहं तमसः परं सुमहोज्वलम्।
निजरूपमित्यतिसुन्दरं खलुसंविभाव्य हृदिस्थितं
भजपावनं सुखसागरं नरसिंहमद्वयरूपिणम्।
पञ्चरत्नात्मकं स्तोत्रं श्रीनृसिंहस्य पावनम्।
ये पठन्ति मुदा भक्त्या जीवन्मुक्ता भवन्ति ते।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowनरसिंह पंचरत्न स्तोत्र
READ
नरसिंह पंचरत्न स्तोत्र
on HinduNidhi Android App