Parvati Ji

श्रीपार्वतीश्रीकण्ठस्तोत्रम्

Parvatishrikanthastotram Sanskrit Lyrics

Parvati JiStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीपार्वतीश्रीकण्ठस्तोत्रम् ||

(श्रीगरलपुरतः प्रस्थानसमये)
बहुभ्यो घस्रेभ्यस्तव पदसरोजातयुगलं
निरीक्ष्याहं मोदं बहुलमगमं शैलतनये ।
भविष्यान्मातस्त्वत्पदयुगसरोजातविरहा-
द्भवेद्यः खेदस्तं शमय हृदयाब्जे विलसनात् ॥ १॥

प्रभोऽष्टमूर्ते मम चित्तमध्ये संस्थाप्य चैकां तव मूर्तिमारात् ।
अपि स्थितस्य प्रमुदं विधेहि का ते क्षतिस्तेन कृपापयोधे ॥ २॥

मन्मूर्तिमेकां तव पादमूले दधासि यस्माच्छशिबालमौले ।
तस्माच्च मन्मानसपङ्कजाते त्वया विधेया तव मूर्तिरेका ॥ ३॥

आकाशस्य विभुत्वात्तत्रस्थत्वाच्च पादपद्मस्य ।
तव नटनाथ पदं मच्चित्ते स्फुरताद्धि यत्र कुत्रापि ॥ ४॥

इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीपार्वतीश्रीकण्ठस्तोत्रं सम्पूर्णम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download श्रीपार्वतीश्रीकण्ठस्तोत्रम् PDF

श्रीपार्वतीश्रीकण्ठस्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App