श्री शबरीश्वराष्टकम् (शनिबाधा विमोचन) PDF संस्कृत
Download PDF of Shani Badha Vimochana Sabareeswara Ashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
श्री शबरीश्वराष्टकम् (शनिबाधा विमोचन) संस्कृत Lyrics
|| श्री शबरीश्वराष्टकम् (शनिबाधा विमोचन) ||
शनिबाधाविनाशाय घोरसन्तापहारिणे ।
काननालयवासाय भूतनाथाय ते नमः ॥ १ ॥
दारिद्र्यजातान् रोगादीन् बुद्धिमान्द्यादि सङ्कटान् ।
क्षिप्रं नाशय हे देवा शनिबाधाविनाशक ॥ २ ॥
भूतबाधा महादुःख मध्यवर्तिनमीश माम् ।
पालय त्वं महाबाहो सर्वदुःखविनाशक ॥ ३ ॥
अवाच्यानि महादुःखान्यमेयानि निरन्तरम् ।
सम्भवन्ति दुरन्तानि तानि नाशय मे प्रभो ॥ ४ ॥
मायामोहान्यनन्तानि सर्वाणि करुणाकर ।
दूरीकुरु सदा भक्तहृदयानन्ददायक ॥ ५ ॥
अनेकजन्मसम्भूतान् तापपापान् गुहेश्वर ।
चूर्णीकुरु कृपासिन्धो सिन्धुजाकान्त सन्तते ॥ ६ ॥
उन्मत्तोद्भूतसन्तापाऽगाधकूपाः महेश्वर ।
हस्तावलम्बं दत्त्वा मां रक्ष रक्ष शनैश्चर ॥ ७ ॥
देहि मे बुद्धिवैशिष्ट्यं देहि मे नित्ययौवनम् ।
देहि मे परमानन्दं देव देव जगत्पते ॥ ८ ॥
इति शनिबाधा विमोचन श्री शबरीश्वराष्टकम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री शबरीश्वराष्टकम् (शनिबाधा विमोचन)

READ
श्री शबरीश्वराष्टकम् (शनिबाधा विमोचन)
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
