श्री केतु कवच PDF संस्कृत
Download PDF of Shri Ketu Kavacham Sankrit
Misc ✦ Kavach (कवच संग्रह) ✦ संस्कृत
श्री केतु कवच संस्कृत Lyrics
|| श्री केतु कवच ||
ओं अस्य श्रीकेतुकवचस्तोत्रमहामन्त्रस्य पुरन्दर ऋषिः । अनुष्टुप्छन्दः । केतुर्देवता । कं बीजं । नमः शक्तिः । केतुरिति कीलकम् । मम केतुकृत पीडा निवारणार्थे सर्वरोगनिवारणार्थे सर्वशत्रुविनाशनार्थे सर्व कार्य सिद्ध्यर्थे केतुप्रसादसिद्ध्यर्थे जपे विनियोगः ।
ध्यानम्
धूम्रवर्णं ध्वजाकारं द्विभुजं वरदांगदम्
चित्राम्बरधरं केतुं चित्रगन्धानुलेपनम् ।
वैडूर्याभरणं चैव वैडूर्य मकुटं फणिम्
चित्रंकफाधिकरसं मेरुं चैवाप्रदक्षिणम् ॥
केतुं करालवदनं चित्रवर्णं किरीटिनम् ।
प्रणमामि सदा देवं ध्वजाकारं ग्रहेश्वरम् ॥ १ ॥
कवच
चित्रवर्णः शिरः पातु फालं मे धूम्रवर्णकः ।
पातु नेत्रे पिङ्गलाक्षः श्रुती मे रक्तलोचनः ॥ २ ॥
घ्राणं पातु सुवर्णाभो द्विभुजं सिंहिकासुतः ।
पातु कण्ठं च मे केतुः स्कन्धौ पातु ग्रहाधिपः ॥ ३ ॥
बाहू पातु सुरश्रेष्ठः कुक्षिं पातु महोरगः ।
सिंहासनः कटिं पातु मध्यं पातु महासुरः ॥ ४ ॥
ऊरू पातु महाशीर्षो जानुनी च प्रकोपनः ।
पातु पादौ च मे रौद्रः सर्वाङ्गं रविमर्दकः ॥ ५ ॥
इदं च कवचं दिव्यं सर्वरोगविनाशनम् ।
सर्वदुःखविनाशं च सत्यमेतन्नसंशयः ॥ ६ ॥
इति पद्मपुराणे केतु कवचम् ।
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowश्री केतु कवच
READ
श्री केतु कवच
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
