Download HinduNidhi App
Misc

श्री आदित्य द्वादशनाम स्तोत्रम्

Sri Aditya Surya Dwadasa Nama Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| श्री आदित्य द्वादशनाम स्तोत्रम् ||

आदित्यः प्रथमं नामं द्वितीयं तु दिवाकरः ।
तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः ॥ १ ॥

पञ्चमं तु सहस्रांशुः षष्ठं चैव त्रिलोचनः ।
सप्तमं हरिदश्वश्च अष्टमं तु विभावसुः ॥ २ ॥

नवमं दिनकृत् प्रोक्तं दशमं द्वादशात्मकः ।
एकादशं त्रयीमूर्तिर्द्वादशं सूर्य एव च ॥ ३ ॥

द्वादशादित्यनामानि प्रातः काले पठेन्नरः ।
दुःस्वप्नो नश्यते तस्य सर्वदुःखं च नश्यति ॥ ४ ॥

दद्रुकुष्ठहरं चैव दारिद्र्यं हरते ध्रुवम् ।
सर्वतीर्थकरं चैव सर्वकामफलप्रदम् ॥ ५ ॥

यः पठेत् प्रातरुत्थाय भक्त्या स्तोत्रमिदं नरः ।
सौख्यमायुस्तथारोग्यं लभते मोक्षमेव च ॥ ६ ॥

इति श्री आदित्य द्वादशनाम स्तोत्रम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री आदित्य द्वादशनाम स्तोत्रम् PDF

श्री आदित्य द्वादशनाम स्तोत्रम् PDF

Leave a Comment