Download HinduNidhi App
Misc

गरुड द्वादशनाम स्तोत्रम्

Sri Garuda Dwadasa Nama Stotram Sanskrit

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

|| गरुड द्वादशनाम स्तोत्रम् ||

सुपर्णं वैनतेयं च नागारिं नागभीषणम् ।
जितान्तकं विषारिं च अजितं विश्वरूपिणम् ॥ १

गरुत्मन्तं खगश्रेष्ठं तार्क्ष्यं कश्यपनन्दनम् ।
द्वादशैतानि नामानि गरुडस्य महात्मनः ॥ २

यः पठेत् प्रातरुत्थाय स्नाने वा शयनेऽपि वा ।
विषं नाक्रामते तस्य न च हिंसन्ति हिंसकाः ॥ ३

सङ्ग्रामे व्यवहारे च विजयस्तस्य जायते ।
बन्धनान्मुक्तिमाप्नोति यात्रायां सिद्धिरेव च ॥ ४

इति श्री गरुड द्वादशनाम स्तोत्रम् ।

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download गरुड द्वादशनाम स्तोत्रम् PDF

गरुड द्वादशनाम स्तोत्रम् PDF

Leave a Comment