|| श्री रवि सप्तति रहस्यनाम स्तोत्रम् PDF ||
हंसो भानुः सहस्रांशुस्तपनस्तापनो रविः ।
विकर्तनो विवस्वांश्च विश्वकर्मा विभावसुः ॥ १ ॥
विश्वरूपो विश्वकर्ता मार्तण्डो मिहिरोऽम्शुमान् ।
आदित्यश्चोष्णगुः सूर्योऽर्यमा ब्रध्नो दिवाकरः ॥ २ ॥
द्वादशात्मा सप्तहयो भास्करो हस्करः खगः ।
सूरः प्रभाकरः श्रीमान् लोकचक्षुर्ग्रहेश्वरः ॥ ३ ॥
त्रिलोकेशो लोकसाक्षी तमोऽरिः शाश्वतः शुचिः ।
गभस्तिहस्तस्तीव्रांशुस्तरणिः सुमहोरणिः ॥ ४ ॥
द्युमणिर्हरिदश्वोऽर्को भानुमान् भयनाशनः ।
छन्दोश्वो वेदवेद्यश्च भास्वान् पूषा वृषाकपिः ॥ ५ ॥
एकचक्ररथो मित्रो मन्देहारिस्तमिस्रहा ।
दैत्यहा पापहर्ता च धर्मो धर्मप्रकाशकः ॥ ६ ॥
हेलिकश्चित्रभानुश्च कलिघ्नस्तार्क्ष्यवाहनः । [दोषघ्नः]
दिक्पतिः पद्मनीनाथः कुशेशयकरो हरिः ॥ ७ ॥
घर्मरश्मिर्दुर्निरीक्ष्यश्चण्डांशुः कश्यपात्मजः ।
एभिः सप्ततिसङ्ख्याकैः पुण्यैः सूर्यस्य नामभिः ॥ ८ ॥
इति स्कन्दपुराणे काशीखण्डे नवमोऽध्याये श्री सूर्य सप्ततिनाम स्तोत्रम् ।
Read in More Languages:- teluguSurya Panjara Stotram Telugu
- kannadaಶ್ರೀ ಆದಿತ್ಯ ದ್ವಾದಶನಾಮ ಸ್ತೋತ್ರಂ
- sanskritश्री आदित्य द्वादशनाम स्तोत्रम्
- teluguశ్రీ ఆదిత్య ద్వాదశనామ స్తోత్రం
- tamilஶ்ரீ ஆதி³த்ய த்³வாத³ஶநாம ஸ்தோத்ரம்
- sanskritआदित्य हर्षण स्तोत्रं सार्थम्
- teluguఆదిత్య హృదయం తెలుగు (Aditya Hrudayam Telugu)
- englishShri Surya Kavach Stotram
- sanskritआदित्य कवच पाठ
- sanskritसूर्यार्यास्तोत्रम्
- tamilஸூர்யமண்டல ஸ்தோத்ரம்
Found a Mistake or Error? Report it Now
