ದುರ್ಗಾ ಮಾನಸ ಪೂಜಾ ಸ್ತೋತ್ರಮ್

|| ದುರ್ಗಾ ಮಾನಸ ಪೂಜಾ ಸ್ತೋತ್ರಮ್ || ಉದ್ಯಚ್ಚಂದನಕುಂಕುಮಾರುಣ- ಪಯೋಧಾರಾಭಿರಾಪ್ಲಾವಿತಾಂ ನಾನಾನರ್ಘ್ಯಮಣಿಪ್ರವಾಲಘಟಿತಾಂ ದತ್ತಾಂ ಗೃಹಾಣಾಂಬಿಕೇ | ಆಮೃಷ್ಟಾಂ ಸುರಸುಂದರೀಭಿರಭಿತೋ ಹಸ್ತಾಂಬುಜೈರ್ಭಕ್ತಿತೋ ಮಾತಃ ಸುಂದರಿ ಭಕ್ತಕಲ್ಪಲತಿಕೇ ಶ್ರೀಪಾದುಕಾಮಾದರಾತ್ || ದೇವೇಂದ್ರಾದಿಭಿರರ್ಚಿತಂ ಸುರಗಣೈರಾದಾಯ ಸಿಂಹಾಸನಂ ಚಂಚತ್ಕಾಂಚನಸಂಚಯಾಭಿರಚಿತಂ ಚಾರುಪ್ರಭಾಭಾಸ್ವರಮ್ | ಏತಚ್ಚಂಪಕಕೇತಕೀಪರಿಮಲಂ ತೈಲಂ ಮಹಾನಿರ್ಮಲಂ ಗಂಧೋದ್ವರ್ತನಮಾದರೇಣ ತರುಣೀದತ್ತಂ ಗೃಹಾಣಾಂಬಿಕೇ || ಪಶ್ಚಾದ್ದೇವಿ ಗೃಹಾಣ ಶಂಭುಗೃಹಿಣಿ ಶ್ರೀಸುಂದರಿ ಪ್ರಾಯಶೋ ಗಂಧದ್ರವ್ಯಸಮೂಹನಿರ್ಭರತರಂ ಧಾತ್ರೀಫಲಂ ನಿರ್ಮಲಮ್ | ತತ್ಕೇಶಾನ್ ಪರಿಶೋಧ್ಯ ಕಂಕತಿಕಯಾ ಮಂದಾಕಿನೀಸ್ರೋತಸಿ ಸ್ನಾತ್ವಾ ಪ್ರೋಜ್ಜ್ವಲಗಂಧಕಂ ಭವತು ಹೇ ಶ್ರೀಸುಂದರಿ ತ್ವನ್ಮುದೇ || ಸುರಾಧಿಪತಿಕಾಮಿನೀಕರಸ- ರೋಜನಾಲೀಧೃತಾಂ…

श्रीगोकुलेशाष्टोत्तरशतनामस्तोत्रम्

|| श्रीगोकुलेशाष्टोत्तरशतनामस्तोत्रम् || यन्नामाब्जं सदापूर्णं कृपाज्योत्स्नासमन्वितम् । पुष्टिभक्तिसुधावृष्टिकारकं च सुखाल्पदम् ॥ १॥ अथ नामशतं साष्टं वल्लभस्य वदाम्यहम् । देवता वल्लभो नाम्नां छन्दोऽनुष्टुप् सुखाकरम् ॥ २॥ फलं तु तत्पदाम्भोजे व्यसनं सर्वदा भवेत् । ऋषिस्तु विष्णुदासोऽत्र दासाय वरणं मतम् ॥ ३॥ वल्लभो गोकुलेशश्च विठ्ठलेशप्रियात्मजः । ताततुल्यस्वभावस्थो व्रजमङ्गलभूषणः ॥ ४॥ धराधरस्नेहदान्तो बहुनिर्दोषविग्रहः । भजनानन्दपीयूषपूर्णो मञ्जुदृगञ्चलः ॥ ५॥ दासवृन्दचकोरेन्दुः…

Durga Manas Puja Stotram Telugu

|| శ్రీదుర్గామానస పూజా || ॥ శ్రీదుర్గామానస పూజా ॥) శ్రీ గణేశాయ నమః । ఉద్యచ్ఛష్టనకుఙ్కుమారు- జపయోధారాభిరాప్లోవితాం నానాసర్య మణిప్రవాలఘటితాం దత్తాం గృహాణామ్సికే | ఆమృష్టాం సురసున్దరీభిరభితో హస్తామ్సుకైర్భక్తితో మాతః సున్దరి భక్తకల్పలతికి శ్రీపాదుకామాదరాత్ ॥ దేవేవాదిభిరర్చితం సురగణైరాదాయ సింహాసనం చర్వాత్కాఙ్పనసద్వాయాభిరచితం చారు ప్రభాభాస్వరమ్ । ఏతచ్ఛమృకకేతకీపరిమలం తైలం మహానిర్మలం గనోద్వర్తనమాదరేణ తరుణీదత్తం గృహాణామ్సికే ॥ పశ్చాద్దేవి గృహణ శమ్భుగృహిణి శ్రీసుస్టరి ప్రాయశో గస్థద్రవ్యసమూహనిర్భరతరం రాత్రీఫలం నిర్మలమ్ | తత్కేశాన్ పరిశోధ్య కబ్కతికయా మన్దాకినీ ప్రోతసి…

गुरुवायुरप्प अथवा नारायणीय तथा रोगहरसहस्रनामस्तोत्रम्

|| गुरुवायुरप्प अथवा नारायणीय तथा रोगहरसहस्रनामस्तोत्रम् || अथ ध्यानम् । सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरं कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम् । गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्ज्वलत्कौस्तुभं त्वद्रूपं वनमाल्यहारपटलश्रीवत्सदीप्रं भजे ॥ केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कित- श्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम् । काञ्चित्काञ्चनकाञ्चिलाञ्छितलसत्पीताम्बरालम्बिनी- मालम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदम् ॥ यत्त्रैक्यमहीयसोऽपि महितं सम्मोहनं मोहनात् कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि । सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रुपमाश्चर्यतो- ऽप्याश्चर्यं भुवने न कस्य कुतुकं पुष्णाति विष्णो विभो ॥ अथ स्तोत्रम् । ॐ गुरुवायुपुराधीशो…

श्रीगुरुवातपुराधीशाष्टोत्तरशतनामस्तोत्रम्

|| श्रीगुरुवातपुराधीशाष्टोत्तरशतनामस्तोत्रम् || ध्यानम् पीताम्बरं करविराजितशङ्खचक्र- कौमोदकीसरसिजं करुणासमुद्रम् । राधासहायमतिसुन्दरमन्दहासं वातालयेशमनिशां हृदि भावयामि ॥ कृष्णो वातपुराधीशः भक्तकल्पद्रुमः प्रभुः । रोगहन्ता परं धामा कलौ सर्वसुखप्रदः ॥ १॥ वातरोगहरो विष्णुः उद्धवादिप्रपूजितः । भक्तमानससंविष्टः भक्तकामप्रपूरकः ॥ २॥ लोकविख्यातचारित्रः शङ्कराचार्यपूजितः । पाण्ड्येशविषहन्ता च पाण्ड्यराजकृतालयः ॥ ३॥ नारायणकविप्रोक्तस्तोत्रसन्तुष्टमानसः । नारायणसरस्तीरवासी नारदपूजितः ॥ ४॥ विप्रनित्यान्नदाता च विविधाकृतिशोभितः । तैलाभिषेकसन्तुष्टः सिक्ततैलार्तिहारकः ॥…

श्रीगुरुवातपुरनाथपञ्चरत्नस्तोत्रम्

|| श्रीगुरुवातपुरनाथपञ्चरत्नस्तोत्रम् || आदित्यादिप्रभृतिकमिदं चक्षुराद्यं च तेजो ज्ञानाज्ञाने स्फुरितमखिलं येन नित्यं विभाति । तत्तादृक्षे सकलवचनागोचरे स्वप्रकाशे त्वद्रूपेऽस्मिन् किमिव कथये वातगेहाधिनाथ ॥ १॥ आकाशान्तं जगदखिलमप्यंशमात्रं यदीयं माया सेयं मरुदधिपते त्वत्स्वरूपैकदेशे । स त्वं कोणे क्वचन धरणेस्तिष्ठसे देहधारी कारुण्यं ते जगति कथये नाथ तादृक् कथं वा ॥ २॥ दृश्यं सर्वं वरद भवतो देह इत्यामनन्त्यां श्रुत्यां सत्यामपि बत…

गुरुमरुत्पुराधीशस्तोत्रम्

|| गुरुमरुत्पुराधीशस्तोत्रम् || गरुडवाहनं पुण्यदर्शनं वरझषाकृतिं वेदसङ्ग्रहम् । प्रलयकालजीवात्मतारकं गुरुमरुत्पुराधीशामाश्रये ॥ १॥ प्रणवमानसं प्राणजीवनं प्रकटकच्छपाकारमीश्वरम् । अमृतदायकं नित्यनूतनं गुरुमरुत्पुराधीशमाश्रये ॥ २॥ सुकृतकल्पकं सामतोषितं सकलवैष्णवाकारसूकरम् । भुवनभूषणालङ्कृतं विभुं गुरुमरुत्पुराधीशामाश्रये ॥ २॥ वरदमीश्वरं नारसिंहकं वपुषि भीकरं पुण्यपूरकम् । सुरगणावृतं भक्तवत्सलं गुरुमरुत्पुराधीशमाश्रये ॥ ४॥ चरितविश्रुतं वामनाकृतिं परमपूरुषं यागसाधकम् । परपदप्रदं पापनाशकं गुरुमरुत्पुराधीशामाश्रये ॥ ५॥ भृगुकुलोद्भवं रामनामकं सुगुणभासुरं रेणुकात्मजम्…

नवदुर्गा स्तोत्रम्

|| नवदुर्गा स्तोत्रम् || ॥ देवी शैलपुत्री ॥ वन्दे वाञ्छितलाभायचन्द्रार्धकृतशेखराम्। वृषारूढाम् शूलधरांशैलपुत्री यशस्विनीम्॥1॥ ॥ देवी ब्रह्मचारिणी ॥ दधाना करपद्माभ्यामक्षमाला कमण्डलू। देवी प्रसीदतु मयिब्रह्मचारिण्यनुत्तमा॥2॥ ॥ देवी चन्द्रघण्टा ॥ पिण्डजप्रवरारूढाचन्दकोपास्त्रकैर्युता। प्रसादं तनुते मह्यम्चन्द्रघण्टेति विश्रुता॥3॥ ॥ देवी कूष्माण्डा ॥ सुरासम्पूर्णकलशम्रुधिराप्लुतमेव च। दधाना हस्तपद्माभ्याम्कूष्माण्डा शुभदास्तु मे॥4॥ ॥ देवी स्कन्दमाता ॥ सिंहासनगता नित्यम्पद्माश्रितकरद्वया। शुभदास्तु सदा देवीस्कन्दमाता यशस्विनी॥5॥ ॥ देवी कात्यायनी…

दुर्गा पुष्पाञ्जलि स्तोत्र

|| दुर्गा पुष्पाञ्जलि स्तोत्र || भगवति भगवत्पदपङ्कजं भ्रमरभूतसुरासुरसेवितम् । सुजनमानसहंसपरिस्तुतं कमलयाऽमलया निभृतं भजे ॥ ते उभे अभिवन्देऽहं विघ्नेशकुलदैवते । नरनागाननस्त्वेको नरसिंह नमोऽस्तुते ॥ हरिगुरुपदपद्मं शुद्धपद्मेऽनुरागाद्- विगतपरमभागे सन्निधायादरेण । तदनुचरि करोमि प्रीतये भक्तिभाजां भगवति पदपद्मे पद्यपुष्पाञ्जलिं ते ॥ केनैते रचिताः कुतो न निहिताः शुम्भादयो दुर्मदाः केनैते तव पालिता इति हि तत् प्रश्ने किमाचक्ष्महे । ब्रह्माद्या अपि…

दुर्गा नमस्कार स्तोत्र

|| दुर्गा नमस्कार स्तोत्र || नमस्ते हे स्वस्तिप्रदवरदहस्ते सुहसिते महासिंहासीने दरदुरितसंहारणरते । सुमार्गे मां दुर्गे जननि तव भर्गान्वितकृपा दहन्ती दुश्चिन्तां दिशतु विलसन्ती प्रतिदिशम् ॥ अनन्या गौरी त्वं हिमगिरि-सुकन्या सुमहिता पराम्बा हेरम्बाकलितमुखबिम्बा मधुमती । स्वभावैर्भव्या त्वं मुनिमनुजसेव्या जनहिता ममान्तःसन्तापं हृदयगतपापं हर शिवे ॥ अपर्णा त्वं स्वर्णाधिकमधुरवर्णा सुनयना सुहास्या सल्लास्या भुवनसमुपास्या सुलपना । जगद्धात्री पात्री प्रगतिशुभदात्री भगवती…

नव दुर्गा स्तोत्र

|| नव दुर्गा स्तोत्र || चन्द्रार्धधारकतनूं च वरां चराणां वाचालवाङ्मयकरां च विभवां विभूषाम्। विद्याज्ञवन्दितवरां व्रतपर्वपुण्यां वन्दे शुभां शिवसखीं हिमशैलपुत्रीम्। ॐ शैलपुत्र्यै नमः। दोर्भ्यां कमण्डलुसितस्फटिके दधानां ब्रह्मप्रचारनियुतां सुरसेव्यमानाम्। वेदेषु वर्णितवरां विकटस्वरूपां वन्दे हि चोत्तमगुणां श्रुतिवादिनीं ताम्। ॐ ब्रह्मचारिण्यै नमः। कोपप्रतापशरमौर्वियुतां पुराणां चन्द्रप्रकाशसदृशानलभालयुक्ताम्। वीराभिवाञ्छितसमस्तवरप्रदां तां वन्दे विशालवसनां श्रुतचन्द्रघण्टाम्। ॐ चन्द्रघण्टायै नमः। सत्त्वां सुवर्णवदनां सततं सुतप्तां यज्ञक्रियासु वरदां…

दुर्गा पंचरत्न स्तोत्र

|| दुर्गा पंचरत्न स्तोत्र || ते ध्यानयोगानुगताः अपश्यन् त्वामेव देवीं स्वगुणैर्निगूढाम्। त्वमेव शक्तिः परमेश्वरस्य मां पाहि सर्वेश्वरि मोक्षदात्रि। देवात्मशक्तिः श्रुतिवाक्यगीता महर्षिलोकस्य पुरः प्रसन्ना। गुहा परं व्योम सतः प्रतिष्ठा मां पाहि सर्वेश्वरि मोक्षदात्रि। परास्य शक्तिर्विविधा श्रुता या श्वेताश्ववाक्योदितदेवि दुर्गे। स्वाभाविकी ज्ञानबलक्रिया ते मां पाहि सर्वेश्वरि मोक्षदात्रि। देवात्मशब्देन शिवात्मभूता यत्कूर्मवायव्यवचोविवृत्या। त्वं पाशविच्छेदकरी प्रसिद्धा मां पाहि सर्वेश्वरि मोक्षदात्रि।…

Apadunmulan Durga Stotram

|| Apadunmulan Durga Stotram || Lakshmishe Yoganidram Prabhajati Bhujagaadheeshatalpe Sadarpaa- Utpannau Daanavau Tacchravanamalamayaangau Madhum Kaitabham Cha । Drishtva Bheetasya Dhatur Stutibhirabhinutaam Aashu Tau Naashayanteem Durgaam Devim Prapadye Sharanamahamashe Shapadunmulanaaya ॥ Yuddhe Nirjitya Daityastribhuvanamakhilam Yastadeeya Dhishnye- Shvaasthaapya Swaan Vidheyaan Swayamagamadasau Shakrataam Vikramena । Tam Saamaatyaptamitram Mahishamabhinihatya Syamoordhaadhiroodhaam Durgaam Devim Prapadye Sharanamahamashe Shapadunmulanaaya ॥ Vishvotpattipranaasha Sthitivihritipare Devi…

શ્રીદુર્ગામાનસ પૂજા સ્તોત્રમ

|| શ્રીદુર્ગામાનસ પૂજા || શ્રી ગણેશાય નમઃ . ઉદ્યચ્ચન્દનકુઙ્કુમારુણપયોધારાભિરાપ્લાવિતાં નાનાનર્ઘ્યમણિપ્રવાલઘટિતાં દત્તાં ગૃહાણામ્બિકે . આમૃષ્ટાં સુરસુન્દરીભિરભિતો હસ્તામ્બુજૈર્ભક્તિતો માતઃ સુન્દરિ ભક્તકલ્પલતિકે શ્રીપાદુકામાદરાત્ .. દેવેન્દ્રાદિભિરર્ચિતં સુરગણૈરાદાય સિંહાસનં ચઞ્ચત્કાઞ્ચનસઞ્ચયાભિરચિતં ચારુપ્રભાભાસ્વરમ્ . એતચ્ચમ્પકકેતકીપરિમલં તૈલં મહાનિર્મલં ગન્ધોદ્વર્તનમાદરેણ તરુણીદત્તં ગૃહાણામ્બિકે .. પશ્ચાદ્દેવિ ગૃહાણ શમ્ભુગૃહિણિ શ્રીસુન્દરિ પ્રાયશો ગન્ધદ્રવ્યસમૂહનિર્ભરતરં ધાત્રીફલં નિર્મલમ્ . તત્કેશાન્ પરિશોધ્ય કઙ્કતિકયા મન્દાકિનીસ્રોતસિ સ્નાત્વા પ્રોજ્જ્વલગન્ધકં ભવતુ હે શ્રીસુન્દરિ ત્વન્મુદે .. સુરાધિપતિકામિનીકરસરોજનાલીધૃતાં…

श्रीकृष्णमङ्गलस्तोत्रम्

|| श्रीकृष्णमङ्गलस्तोत्रम् || सर्वे वेदाः साङ्गकलापाः परमेण प्राहुस्तात्पर्येण यदद्वैतमखण्डम् । ब्रह्मासङ्गं प्रत्यगभिन्नं पुरुषाख्यं तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ १॥ मायाधिष्ठानं परिशुद्धं यदविद्या सूते विश्वं देवमनुष्यादिविभेदम् । यस्मिन् ज्ञाते सा शशश‍ृङ्गेण समा स्यात् तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ २॥ श्रीवैकुण्ठे श्रीधरणीलालितपादः सर्वैर्वे दैर्मूर्तिधरैः संस्तुतकीर्तिः । आस्ते नित्यं शेषशयो यः परमात्मा तस्मै श्रीकृष्णाय नमो मङ्गलधाम्ने ॥ ३॥…

श्रीकृष्णचतुर्विंशतिस्तोत्रम्

|| श्रीकृष्णचतुर्विंशतिस्तोत्रम् || केशवं केशिमथनं वासुकेर्नोगशायिनम् । रासक्रीडाविलासाढ्यं कृष्णं वन्दे जगद्गुरुम् ॥ १॥ नारायणं नरहरिं नारदादिभिरर्चितम् । तारकं भवबन्धानां कृष्णं वन्दे जगद्गुरुम् ॥ २॥ माधवं मधुरावासं भूधरोद्धारकं विभुम् । आधारं सर्वभूतानां कृष्णं वन्दे जगद्गुरुम् ॥ ३॥ गोविन्दमिन्दुवदनं श्रीवन्द्यचरणाम्बुजम् । नवेन्दीवरसङ्काशं कृष्णं वन्दे जगद्गुरुम् ॥ ४॥ विष्णुमुष्णीषभूषाढ्यं जिष्णुं दानवमर्दनम् । तृष्णाभयप्रभेत्तारं कृष्णं वन्दे जगद्गुरुम् ॥ ५॥…

कार्तिक दामोदर स्तोत्रम्

|| कार्तिक दामोदर स्तोत्रम् || । मत्स्यावतार, कूर्मावतार, वराहावतार । मत्स्याकृतिधरजय देवेश वेदविबोधककूर्मस्वरूप । मन्दरगिरिधरसूकररूप भूमिविधारक जय देवेश ॥ १॥ । नृसिंहावतार, वामनावतार, परशुरामावतार । काञ्चनलोचननरहरिरूप दुष्टहिरण्यकभञ्जन जय भोः । जय जय वामन बलिविध्वंसिन् दुष्टकुलान्तकभार्गवरूप ॥ २॥ । रामावतार, कृष्णावतार । जयविश्रवसः सुतविध्वंसिन् जय कंसारे यदुकुलतिलक । जयवृन्दावनचर देवेश देवकीनन्दन नन्दकुमार ॥ ३॥ । कृष्णावतार…

अष्टमहिषीयुतकृष्णस्तोत्रम्

|| अष्टमहिषीयुतकृष्णस्तोत्रम् || हृद्गुहाश्रितपक्षीन्द्रवल्गुवाक्यैः कृतस्तुते । तद्गरुत्कन्धरारूढ रुक्मिणीश नमोऽस्तु ते ॥ १॥ अत्युन्नत्याऽखिलैः स्तुत्य श्रुत्यन्तात्यन्तकीर्तित । सत्ययोजित सत्यात्मन् सत्यभामापते नमः ॥ २॥ जाम्बवत्याः कम्बुकण्ठालम्बिजृम्भिकराम्बुज । शम्भुत्र्यम्बकसम्भाव्यं साम्बतात नमोऽस्तु ते ॥ ३॥ नीलाय विलसद्भूषाजालायोज्ज्वलमालिने । लोलालकोद्यत्फालाय कालिन्दीपतये नमः ॥ ४॥ जैत्रचित्रचरित्राय शात्रवानीकमृत्यवे । मित्रप्रकाशाय नमो मित्रविन्दाप्रियाय ते ॥ ५॥ बालानेत्रोत्सवानन्तलीलालावण्यमूर्तये । नीलाकान्ताय ते भक्तावालायाऽस्तु नमोनमः ॥…

गुह्यौच्छिष्टगणेशगुह्यसहस्रनामस्तोत्रस्य पूर्वपीठिका फलश्रुति च

|| गुह्यौच्छिष्टगणेशगुह्यसहस्रनामस्तोत्रस्य पूर्वपीठिका फलश्रुति च || सनक उवाच देव देव महादेव विद्यानाथ गुरूत्तम । उपासनानि भिन्नानि बुद्धिभेदकृतानि तु ॥ १॥ कलौ हि धैर्यवैकल्यात् साधक भ्रमयन्ति हि । केनोपायेन लघुना लघुकालकृतेन च ॥ २॥ सधकाः सिद्धिजालानि प्राप्नुयुर्हि कलौ युगे । तमहं ज्ञातुमिच्छामि भवन्मुखरसाकुलः ॥ ३॥ यदि मे योग्यतास्तीति मन्यते भवता तदा । आचक्ष्व करुणासिन्धो कौतुकं मे…

दशाक्षरमन्त्रस्तोत्रम्

|| दशाक्षरमन्त्रस्तोत्रम् || श्रीगणेशाय नमः । मुद्गल उवाच । असच्छक्तिश्च सत्सूर्यः समो विष्णुर्महामुने । अव्यक्तः शङ्करस्तेषां संयोगे गणपो भवेत् ॥ १॥ संयोगे मायया युक्तो गणेशो ब्रह्मनायकः । अयोगे मायया हीनो भवति मुनिसत्तमा ॥ २॥ संयोगायोगयोर्योगे योगो गणेशसंज्ञितः । शान्तिभ्यः शान्तिदः प्रोक्तो भजने भक्तिसंयुतः ॥ ३॥ एवमुक्त्वा गणेशस्य ददौ मन्त्रं स मुद्गलः । एकाक्षरं विधियुतं ततः…

तेजोवर्धनस्तोत्रम् अथवा वरमहागणपति मन्त्राक्षरावलिस्तोत्रम्

|| तेजोवर्धनस्तोत्रम् अथवा वरमहागणपति मन्त्राक्षरावलिस्तोत्रम् || श्रीगणेशाय नमः ॥ विना तपो विना ध्यानं विना होमं विना जपम् । अनायासेन विघ्नेशप्रीणनं वद मे प्रभो ॥ १॥ ईश्वर उवाच । मन्त्राक्षरावलिस्तोत्रं सर्वसौभाग्यवर्धनम् । दुर्लभं दुष्टमनसां सुलभं शुद्धचेतसाम् ॥ २॥ महागणपतिप्रीतिप्रतिपादकमञ्जसा । कथयामि घनश्रोणि कर्णाभ्यामवतंसय ॥ ३॥ ओङ्कारवलयाकारमुञ्चत्कल्लोलमालिनम् । ऐक्षवं चेतसा वीक्षे सिन्धुसन्धुक्षितस्वनम् ॥ ४॥ श्रीमतश्चास्य जलधेरन्तरभ्युदितं नुमः…

ढुण्ढिस्वरूपवर्णनस्तोत्रम्

|| ढुण्ढिस्वरूपवर्णनस्तोत्रम् || श्रीगणेशाय नमः । जैमिनिरुवाच । न वक्तुं शक्त्ये राजन् केनापि तत्स्वरूपकम् । नोपाधिना युतं ढुण्ढिं वदामि श‍ृणु तत्त्वतः ॥ १॥ अहं पुरा सुशान्त्यर्थं व्यासस्य शरणं गतः । मह्यं सङ्कथितं तेन साक्षान्नारायणेन च ॥ २॥ तदेव त्वां वदिष्यामि स्वशिष्यं च निबोध मे । यदि तं भजसि ह्यद्य सर्वसिद्धिप्रदायकम् ॥ ३॥ देहदेहिमयं सर्वं गकाराक्षरवाचकम्…

धूम्रमहिमावर्णनस्तोत्रम्

|| धूम्रमहिमावर्णनस्तोत्रम् || ॥ श्रीगणेशाय नमः ॥ सनकाद्या ऊचुः । कुरुक्षेत्रं महादेव धूम्रवर्णस्य सर्वदम् । माहात्म्यं क्षेत्रमुख्यस्य वद सन्तोषदायकम् ॥ १॥ श्रीशिव उवाच । ऐशान्ये हिमवत्प्रान्ते धूम्रवर्णस्य क्षेत्रकम् । विख्यातं तस्य माहात्म्यं वर्णितुं कः क्षमो भवेत् ॥ २॥ सङ्क्षेपेण वदिष्यामि प्रणम्य गणनायकम् । माहात्म्यं क्षेत्रमुख्यस्य श‍ृणुध्वं त्वेकचेतसः ॥ ३॥ देवर्षिभिः प्रहर्षेण स्थापितो धूम्रवर्णकः । शुण्डादण्डमुखः…

श्री मातङ्गी स्तोत्रम्

|| श्री मातङ्गी स्तोत्रम् || नमामि देवीं नवचन्द्रमौलिं मातङ्गिनीं चन्द्रकलावतंसाम् । आम्नायवाक्यैः प्रतिपादनार्थे प्रबोधयन्तीं शुकमादरेण ॥ १ ॥ कृतार्थयन्तीं पदवीं पदाभ्यां आस्फालयन्तीं कलवल्लकीं ताम् । मातङ्गिनीं सद्धृदयान् धिनोमि निलांशुकां शुद्धनितम्बचेलाम् ॥ २ ॥ तालीदलेनार्पित कर्णभूषां माध्वीमदोद्घूर्णित नेत्रपद्माम् । घनस्तनीं शम्भुवधूं नमामि तडिल्लताकान्तिमनर्घ्यभूषाम् ॥ ३ ॥ नमस्ते मातङ्ग्यै मृदुमुदित तन्व्यै तनुमतां परश्रेयोदायै कमलचरणध्यानमनसाम् । सदा संसेव्यायै…

अहंकृतं धूम्रवर्णस्तोत्रम्

|| अहंकृतं धूम्रवर्णस्तोत्रम् || ॥ श्रीगणेशाय नमः ॥ अहमुवाच । धूम्रवर्णाय वै तुभ्यं गणेशाय परात्मने । अव्यक्तायादिबीजाय परेशाय नमो नमः ॥ १४॥ लम्बोदराय देवाय दैत्यनाथाय ते नमः । हेरम्बाय महेशानां पालकाय नमो नमः ॥ १५॥ कर्मणे कर्मरूपाय नानाकर्मप्रचारिणे । ज्ञानाय ज्ञानदात्रे ते ज्ञानज्ञानाय वै नमः ॥ १६॥ चराय चररूपाय जङ्गमस्थाय ते नमः । स्थावराय सदा…

देवमुनिकृतं धूम्रवर्णस्तोत्रम्

|| देवमुनिकृतं धूम्रवर्णस्तोत्रम् || ॥ श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । धूम्रवर्णाय सर्वेभ्यः सर्वदाय कृपालवे । गणेशाय परेशाय परात्पराय ते नमः ॥ ३४॥ लम्बोदराय विघ्नानां पतये ते नमो नमः । विघ्नकर्त्रे च तद्धर्त्रे हेरम्बाय नमो नमः ॥ ३५॥ अनादये विशेषेण ज्येष्ठाय सर्वपूजित । मनोवाणीविहीनाय मनोवाणीमयाय ते ॥ ३६॥ नमस्ते ब्रह्मरूपाय ब्रह्मणे ब्रह्मदायिने । ब्रह्मणां पतये…

श्रीकलिकृतं धूम्रवर्णस्तोत्रम्

|| श्रीकलिकृतं धूम्रवर्णस्तोत्रम् || ॥ श्रीगणेशाय नमः ॥ कलिरुवाच । धूम्रवर्ण नमस्तुभ्यं सर्वेभ्यः सुखदायक । नानारूपधरायैव विघ्नेशाय नमो नमः ॥ ३५॥ अनन्तपादहस्तायानन्तबाहुधराय ते । अनन्तमायया गुप्तप्रचारिणे नमो नमः ॥ ३६॥ हेरम्बाय नमस्तुभ्यं भक्तसंरक्षकाय च । अभक्तभयदात्रे ते गणेशाय नमो नमः ॥ ३७॥ आदिमध्यान्तहीनायादिमध्यान्तभयाय ते । आनन्देभ्यः सदानन्ददायिने वै नमो नमः ॥ ३८॥ मायाहीनाय मायाया आधाराय…

श्रीशिवकृतं धूम्रवर्णस्तोत्रम्

|| श्रीशिवकृतं धूम्रवर्णस्तोत्रम् || ॥ श्रीगणेशाय नमः ॥ नमस्ते धूम्रवर्णाय नानाखेलकराय च । अमेयशक्तये तुभ्यं मायिने धर्मरक्षिणे ॥ ५॥ अनाथानां प्रणाथाय नाथनाथाय ते नमः । सगुणाय नमस्तुभ्यं निर्गुणाय नमो नमः ॥ ६॥ सगुणनिर्गुणाभ्यां च हीनाय योगरूपिणे । योगाकारेण सर्वत्र संस्थिताय नमो नमः ॥ ७॥ नरकुञ्जररूपाय धूम्रवर्णधराय च । द्विभुजायाश्ववाहाय हेरम्बाय नमो नमः ॥ ८॥ खड्गचर्मधरायैव…

सर्वसिद्धिप्रदं पुष्टिपतिस्तोत्रम्

|| सर्वसिद्धिप्रदं पुष्टिपतिस्तोत्रम् || श्रीगणेशाय नमः । राधाकृष्णावूचतुः । नमस्तुभ्यं पुष्टिपते नमः शङ्करसूनवे । ब्रह्मभूताय देवाय सर्वसिद्धिप्रदाय ते ॥ १॥ स्वानन्दवासिने तुभ्यं ब्रह्मपुत्राय ते नमः । सिद्धिबुद्धिपते ते वै गणेशाय नमो नमः ॥ २॥ हेरम्बाय नमस्तुभ्यं नमो योगमयाय च । सर्वादये च सर्वेश सर्वज्ञाय नमो नमः ॥ ३॥ निर्गुणाय नमस्तुभ्यं सगुणाय नमो नमः । गजाननाय…

ब्रह्मकमण्डलुतीर्थस्तोत्रम्

|| ब्रह्मकमण्डलुतीर्थस्तोत्रम् || ॥ श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । सर्वादिभूतं त्रिगुणेषु संस्थं तीर्थेषु यत् सर्वविकारहीनम् । तीर्थं तुरीयं च नमामहे तत्तीर्थात्मकं पापविनाशदक्षम् ॥ ४॥ गङ्गादिनद्यः प्रभवा यतश्च सर्वान्तरस्थं स्थितमात्मरूपम् । नादात्मकं रूपमथो विधाय तच्चालकं यत्तु नमामहे तत् ॥ ५॥ पुराणगीतं विधिपापनाशं कमण्डलुस्थं परमप्रमेयम् । अपारतीर्थेषु तदात्मभावं भविष्यते देहधरं नमामः ॥ ६॥ नाथो विधाता च…

श्रीविघ्नेश्वराष्टोत्तरशतनामस्तोत्रम्

|| श्रीविघ्नेश्वराष्टोत्तरशतनामस्तोत्रम् || विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः । स्कन्दाग्रजोऽव्ययो पूतो दक्षोऽध्यक्षो द्विजप्रियः ॥ १॥ अग्निगर्भच्छिदिन्द्रश्रीप्रदो वाणीबलप्रदः । सर्वसिद्धिप्रदश्शर्वतनयः शर्वरीप्रियः ॥ २॥ सर्वात्मकः सृष्टिकर्ता देवोऽनेकार्चितश्शिवः । शुद्धो बुद्धिप्रियश्शान्तो ब्रह्मचारी गजाननः ॥ ३॥ द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः । एकदन्तश्चतुर्बाहुश्चतुरश्शक्तिसंयुतः ॥ ४॥ लम्बोदरश्शूर्पकर्णो हरिर्ब्रह्म विदुत्तमः । कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ॥ ५॥ पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः । अकल्मषस्स्वयंसिद्धस्सिद्धार्चितपदाम्बुजः ॥ ६॥…

विघ्नेशस्तोत्रम्

|| विघ्नेशस्तोत्रम् || विघ्नेशं प्रणतोऽस्म्यहं शिवसुतं सिद्धीश्वरं दन्तिनं गौरीनिर्मितभासमानवपुषं श्वेतार्कमूलस्थितम् । सर्वारम्भणपूजितं द्विपमुखं दूर्वासमिज्याप्रियं मूलाधारनिवासिनं च फणिना बद्धोदरं बुद्धिदम् ॥ १॥ श्वेताम्भोरुहवासिनीप्रियमनाः वेधाश्च वेदात्मकः श्रीकान्तस्स्थितिकारकः स्मरपिता क्षीराब्धिशय्याहितः । चन्द्रालङ्कृतमस्तको गिरिजया पृक्तात्मदेहश्शिवः ते लोकत्रयवन्दितास्त्रिपुरुषाः कुर्युर्महन्मङ्गलम् ॥ २॥ संसारार्णवतारणोद्यमरताः प्रापञ्चिकानन्दगाः ज्ञानाब्धिं विभुमाश्रयन्ति चरमे नित्यं सदानन्ददम् । आप्रत्यूषविहारिणो गगनगाः नैकाः मनोज्ञाः स्थलीः वीक्ष्यान्ते हि निशामुखे वसतरुं गच्छन्ति चन्द्रद्युतौ…

शत्रुसंहारकमेकदन्तस्तोत्रम् अथवा गजवक्त्रस्तुतिः

|| शत्रुसंहारकमेकदन्तस्तोत्रम् अथवा गजवक्त्रस्तुतिः || श्रीगणेशाय नमः । सनत्कुमार उवाच । श‍ृणु शम्भ्वादयो देवा मदासुरविनाशने । उपायं कथयिष्यामि तत्कुरुध्वं मुनीश्वराः ॥ १॥ गणेशं पूजयध्वं वै यूयं सर्वे समावृताः । स बाह्यान्तरसंस्थो वै हनिष्यति मदासुरम् ॥ २॥ सनत्कुमारवाक्यं तच्छ्रुत्वा देवर्षिसत्तमाः । ऊचुस्तं प्रणिपत्यादौ भक्तिनम्रात्मकन्धराः ॥ ३॥ देवर्षय ऊचुः । केनोपायेन देवेशं गणेशं मुनिसत्तमम् । पूजयामो विशेषेण…

शुक्रस्तोत्रम् ३

|| शुक्रस्तोत्रम् ३ || ॐ कवीश्वर नमस्तुभ्यं हव्यकव्यविदां वर । उपासक सरस्वत्या मृतसञ्जीवनप्रिय ॥ १॥ दैत्यपूज्य नमस्तुभ्यं दैत्येन्द्रशासनाकर । नीतिशास्त्रकलाभिज्ञ बलिजीवप्रभावन ॥ २॥ प्रह्लादपरमाह्लाद विरोचनगुरो सित । आस्फूर्जज्जितशिष्यारे नमस्ते भृगुनन्दन ॥ ३॥ सुराशन सुरारातिचित्तसंस्थितिभावन । उशना सकलप्राणिप्राणाश्रय नमोऽस्तु ते ॥ ४॥ नमस्ते खेचराधीश शुक्र शुक्लयशस्कर । वारुण वारुणीनाथ मुक्तामणिसमप्रभ ॥ ५॥ क्षीबचित्त कचोद्भूतिहेतो जीवरिपो नमः…

शनिमङ्गलस्तोत्रम्

|| शनिमङ्गलस्तोत्रम् || मन्दः कृष्णनिभस्तु पश्चिममुखः सौराष्ट्रकः काश्यपः । स्वामी नक्रभकुम्भयोर्बुधसितौ मित्रे समश्चाऽङ्गिराः ॥ १॥ स्थानं पश्चिमदिक् प्रजापति यमौ देवौ धनुष्यासनः । षट्त्रिस्थः शुभकृच्छनी रविसुतः कुर्यात्सदा मङ्गलम् ॥ २॥ प्रार्थना आवाहनं न जानामि न जानामि विसर्जनम् । पूजां नैव हि जानामि क्षमस्व परमेश्वर ॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर । यत्पूजितं मया देव परिपूर्णं तदस्तु मे…

शनिभार्या एवम् शनिस्तोत्रम्

|| शनिभार्या एवम् शनिस्तोत्रम् || यः पुरा राज्यभ्रष्टाय नलाय प्रददो किल । स्वप्ने शौरिः स्वयं मन्त्रं सर्वकामफलप्रदम् ॥ १॥ क्रोडं नीलाञ्जनप्रख्यं नीलजीमूतसन्निभम् । छायामार्तण्डसम्भूतं नमस्यामि शनैश्चरम् ॥ २॥ ॐ नमोऽर्कपुत्राय शनैश्चराय नीहारवर्णाञ्जननीलकाय । स्मृत्वा रहस्यं भुवि मानुषत्वे फलप्रदो मे भव सूर्यपुत्र ॥ ३॥ नमोऽस्तु प्रेतराजाय कृष्णवर्णाय ते नमः । शनैश्चराय क्रूराय सिद्धिबुद्धिप्रदायिने ॥ ४॥ य…

सोमस्तोत्रम्

|| सोमस्तोत्रम् || अथ सोमस्तोत्रप्रारम्भः । अस्य श्रीसोमस्तोत्रमहामन्त्रस्य गौतम ऋषिः । अनुष्टुप्छन्दः । सोमो देवता । सोमप्रीत्यर्थे जपे विनियोगः । वां अङ्गुष्ठाभ्यां नमः । वीं तर्जनीभ्यां नमः । वूं मध्यमाभ्यां नमः । वैं अनामिकाभ्यां नमः । वौं कनिष्ठिकाभ्यां नमः । वः करतलकरपृष्ठाभ्यां नमः । वां हृदयाय नमः । वीं शिरसे स्वाहा । वूं शिखायै वषट्…

सोमोत्पत्तिस्तोत्रम्

|| सोमोत्पत्तिस्तोत्रम् || याजुर्वैदिकी पारमात्मिकोपनिषदन्तर्गतं ॥ हरिः ॐ ॥ ऋषय ऊचुः कौतूहलं समुत्पन्नं देवता ऋषिभिः सह । संशयं परिपृच्छन्ति व्यासं धर्मार्थकोविदम् ॥ १॥ कथं वा क्षीयते सोमः क्षीणो वा वर्धते कथम् । इमं प्रश्नं महाभाग ब्रूहि सर्वमशेषतः ॥ २॥ व्यास उवच श‍ृण्वन्तु देवताः सर्वे यदर्थमिह आगताः । तमर्थं सम्प्रवक्ष्यामि सोमस्य गतिमुत्तमाम् ॥ ३॥ अग्नौ हुतं…

श्रीघटिकाचलहनुमत्स्तोत्रम् २

|| श्रीघटिकाचलहनुमत्स्तोत्रम् २ || शङ्खचक्रधरं देवं घटिकाचलवासिनम् । योगारूढं ह्याञ्जनेयं वायुपुत्रं नमाम्यहम् ॥ १॥ भक्ताभीष्टप्रदातारं चतुर्बाहुविराजितम् । दिवाकरद्युतिनिभं वन्देऽहं पवनात्मजम् ॥ २॥ कौपीनमेखलासूत्रं स्वर्णकुण्डलमण्डितम् । लङ्घिताब्धिं रामदूतं नमामि सततं हरिम् ॥ ३॥ दैत्यानां नाशनार्थाय महाकायधरं विभुम् । गदाधरकरो यस्तं वन्देऽहं मारुतात्मजम् ॥ ४॥ नृसिंहाभिमुखो भूत्वा पर्वताग्रे च संस्थितम् । वाञ्छन्तं ब्रह्मपदवीं नमामि कपिनायकम् ॥ ५॥…

श्रीहनुमदष्टोत्तरशतनामस्तोत्रम् १

|| श्रीहनुमदष्टोत्तरशतनामस्तोत्रम् १ || (श्रीपद्मोत्तरखण्डतः) नारद उवाच । सर्वशास्त्रार्थतत्त्वज्ञ सर्वदेवनमस्कृत । यत्त्वया कथितं पूर्वं रामचन्द्रेण धीमता ॥ १॥ स्तोत्रं समस्तपापघ्नं श्रुत्वा धन्योऽस्मि पद्मज । इदानीं श्रोतुमिच्छामि लोकानां हितकाम्यया ॥ २॥ वायोरंशावतरणमाहात्म्यं सर्वकामदम् । वद मे विस्तराद्ब्रह्मन् देवगुह्यमनुत्तमम् ॥ ३॥ इति पृष्टो नारदेन ब्रह्मा लोकपितामहः । नमस्कृत्य जगन्नाथं लक्ष्मीकान्तं परात्परम् ॥ ४॥ प्रोवाच वायोर्माहात्म्यं नारदाय महात्मने…

हनुमदष्टाविंशतिनामस्तोत्रम्

|| हनुमदष्टाविंशतिनामस्तोत्रम् || ब्रह्मोवाच सुन्दरं हनुमान्मन्त्रमिदमेव हरीश्वरा । ॐ हनुमान् अञ्जनासूनुः वायुपुत्रो महाबलः । कपीन्द्रो पिङ्गलाक्षश्च लङ्काद्वीपभयङ्करः ॥ १॥ प्रभञ्जनसुतो वीरस्सीताशोकविनाशकः । अक्षहन्ता रामसखा रामकार्यधुरन्धरः ॥ २॥ महौषधगिरेर्हारी वानरप्राणदायकः । वागीशतारकश्चैव मैनाकगिरिभञ्जनः ॥ ३॥ निरञ्जनो जितक्रोधो कदलीवनसंवृतः । ऊर्ध्वरेता महासत्त्वा सर्वमन्त्रप्रवर्तकः ॥ ४॥ महालिङ्गप्रतिष्ठाता भाष्यकृत् जपतांवरः । शिवध्यानपरोनित्यं शिवपूजापरायणः ॥ ५॥ इति हनुमदष्टाविंशतिनामस्तोत्रं सम्पूर्णम् ।

श्रीहनुमद्वडवानलस्तोत्रम्

|| श्रीहनुमद्वडवानलस्तोत्रम् || श्रीगणेशाय नमः । विनियोगः (सङ्कल्पः) ॐ अस्य श्रीहनुमद्वडवानलस्तोत्रमन्त्रस्य श्रीरामचन्द्र ऋषिः, श्रीवडवानलहनुमान् देवता, (श्रीहनुमान् वडवानल देवता) ह्रां बीजं, ह्रीं शक्तिः, सौं कीलकं, मम समस्तविघ्नदोषनिवारणार्थं, सर्वशत्रुक्षयार्थं, सकलराजकुलसंमोहनार्थं, मम समस्तरोगप्रशमनार्थं, आयुरारोग्यैश्वर्याभिवृद्ध्यर्थं, समस्तपापक्षयार्थं, श्रीसीतारामचन्द्रप्रीत्यर्थं च हनुमद्वडवानलस्तोत्रजपमहं करिष्ये ॥ अथ ध्यानम् । मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥ ॐ ह्रां ह्रीं…

श्रीहनुमद्रक्षास्तोत्रम्

|| श्रीहनुमद्रक्षास्तोत्रम् || प्रणम्य श्रीगणेशं च श्रीरामं मारुतिं तथा । रक्षामिमां पठेत्प्राज्ञः श्रद्धाभक्ति समन्वितः ॥ १॥ शिरो मे हनुमान् पातु भालं पवननन्दनः । आञ्जनेयो दृशौ पातु रामचन्द्रप्रियश्रुती ॥ २॥ घ्राणं पातु महावीरो मुखं लक्ष्मणप्राणदः । जिह्वां मनोजवः पातु कण्ठं पातु जितेन्द्रियः ॥ ३॥ स्कन्धौ महाबली पातु भुजौ सङ्कटमोचनः । करौ विश्वम्भरः पातु हृदयं सर्वशक्तिमान् ॥…

श्रीहनूमत्स्तोत्रम् ३

|| श्रीहनूमत्स्तोत्रम् ३ || श‍ृणु देवि प्रवक्ष्यामि स्तोत्रं सर्वसुखावहम् । सर्वकामप्रदं नॄणां हनुमत्स्तोत्रमुत्तमम् ॥ १॥ तप्तहाटकसङ्काशं नानापुष्पविराजितम् । उद्यद्बालार्कवदनं त्रिनेत्रं कुण्डलोज्ज्वलम् ॥ २॥ मौञ्जीकौपीनकं हेममययज्ञोपवीतिनम् । पिङ्गलाक्षं महाकायं टङ्कशैलेन्द्रधारिणम् ॥ ३॥ मूर्तित्रयात्मकं वीरं महाशौर्यं महाहनुम् । हनूमन्तं वायुसूनुं नमामि ब्रह्मचारिणम् ॥ ४॥ त्रिवर्णाक्षरमन्त्रस्थं जपाकुसुमसन्निभम् । नानाभूषणसंयुक्तमाञ्जनेयं नमाम्यहम् ॥ ५॥ पञ्चाक्षरस्थितं देवं नीलनीरदसन्निभम् । पूजितं सर्वदेवैस्तु…

श्रीहनूमत्स्तोत्रम् २

|| श्रीहनूमत्स्तोत्रम् २ || आपन्नाखिललोकार्तिहारिणे श्रीहनूमते । अकस्मादागतोत्पातनाशनाय नमो नमः ॥ १॥ वामे करे वैरिभिदं वहन्तं शैलं परे श‍ृङ्खलहारटङ्कम् । दधानमच्छाच्छसुवर्णवर्णं भजे ज्वलत्कुण्डलमाञ्जनेयम् ॥ २॥ विभीषण उवाच सीतावियुक्ते श्रीरामे शोकदुःखभयापह । तापत्रयाग्निसंहारिन्नाञ्जनेय नमोऽस्तुते ॥ ३॥ आधिव्याधिमहामारिग्रहपीडापहारिणे । प्राणापहर्त्रे दैत्यानां रामप्रियहितात्मने ॥ ४॥ संसारसागरावर्तगतनिश्रान्तचेतसाम् । शरणागतसञ्जीवी सौमित्रिप्राणरक्षकः ॥ ५॥ सुचरित्रः सदानन्दः सर्वदा भक्तवत्सलः । सुरद्विषां सुसंहारी…

श्रीहनूमत्स्तोत्रम् १

|| श्रीहनूमत्स्तोत्रम् १ || अक्षादिराक्षसहरं दशकण्ठदर्प निर्मूलनं रघुवराङ्घ्रिसरोजभक्तम् । सीताऽविषह्यघनदुःखनिवारकं तं वायोः सुतं गिलितभानुमहं नमामि ॥ १॥ मां पश्य पश्य दयया निजदृष्टिपातैः मां रक्ष रक्ष परितो रिपुदुःखपुञ्जात् । वश्यं कुरु त्रिजगतां वसुधाधिपानां मे देहि देहि महतीं वसुधां श्रियं च ॥ २॥ आपद्भ्यो रक्ष सर्वत्र आञ्जनेय नमोऽस्तु ते । बन्धनं छेदयाभुक्तं कपिवर्य नमोऽस्तु ते ॥ ३॥…

हनूमद्भुजङ्गस्तोत्रम्

|| हनूमद्भुजङ्गस्तोत्रम् || उदरान्तरङ्गं सदारामभक्तं समुद्दण्डवृत्तिं द्विषद्दण्डलोलम् । अमोघानुभावं तमोघातदक्षं तनूकृत्प्रतापं हनूमन्तमीडे ॥ १॥ करोद्भासिटङ्कं किरीटिध्वजाङ्कं हृताशेषपङ्कं रणेनिर्विशङ्कम् । त्रिलोकीमृगाङ्कं क्षणाद्भस्मलङ्कं भजे निष्कलङ्कं हनूमन्तमिडे ॥ २॥ प्रसन्नानुरागं प्रभाकाञ्चनाङ्गं (प्रपन्नानुरागं) जगत्क्षेमशौर्यं तुषारादिदैत्यम् । (जगद्भीतशौर्यं तुषाराद्रिधैर्यम्) तृणीभूतहेतिं रणोद्यद्विभूतिं भजे वायुपुत्रं हनूमन्तमीडे ॥ ३॥ रणे भीषणे मेघनादे सनाथे सरोषं समारोप्य सौमित्रिमान्ये । घनानां घनानां सुराणाञ्चमार्गे नटन्तं चलन्तं हनूमन्तमीडे…

श्रीभोगापुरेशहनुमत्स्तोत्रम्

|| श्रीभोगापुरेशहनुमत्स्तोत्रम् || प्रणमतु मम मूर्धा भारती प्राणभार्या भ्रगभुजगपभर्गेन्द्रादिदेवर्षिवन्द्यम् । सकलसुरपतेऽङ्घ्रीन्दीवरद्वन्द्वमुग्रो ग्रतररिपुकुलघ्नं नाथ भोगापुरेशम् ॥ १॥ यत इतरमृते त्वां मामनुग्राहकं द्राग् सुपवनपविजाने नैव जाने न जाने । विधिकरनिकरेतश्चाधमं मां प्रपन्नं ह्यव किल कृपया त्वां नौमि भोगापुरेशम् ॥ २॥ वरसदनुजिघृक्षात्तेन तेऽनल्पशक्ते कपिवरवपुषाऽऽविर्भूय भोगापुरे भोः । विषयविषविशिष्टाशेषदोषान्तकं त्वां निखिलनिजजनानां नौमि भोगापुरेशम् ॥ ३॥ असदसुमदतिव्यामोहनार्थं त्विहादा वनिमिषमधुकेस्वीकर्तुमासप्तघस्रम् ।…

Join WhatsApp Channel Download App