ईश्वरप्रार्थनास्तोत्रम्
|| ईश्वरप्रार्थनास्तोत्रम् || श्रीगणेशाय नमः ॥ ईश्वरं शरणं यामि क्रोधमोहादिपीडितः । अनाथं पतितं दीनं पाहि मां परमेश्वर ॥ १॥ प्रभुस्त्वं जगतां स्वामिन् वश्यं सर्वं तवास्ति च । अहमज्ञो विमूढोऽस्मि त्वां न जानामि हे प्रभो ॥ २॥ ब्रह्मा त्वं च तथा विष्णुस्त्वमेव च महेश्वरः । तव तत्त्वं न जानामि पाहि मां परमेश्वर ॥ ३॥ त्वं पिता…