नवनागनामस्तोत्रम्

|| नवनागनामस्तोत्रम् || श्रीगणेशाय नमः । अनन्तं वासुकिं शेषं पद्मनाभं च कम्बलम् । शङ्खपालं धृतराष्ट्रं तक्षकं कालियं तथा ॥ १॥ एतानि नवनामानि नागानां च महात्मनाम् । सायङ्काले पठेन्नित्यं प्रातःकाले विशेषतः ॥ २॥ तस्य विषभयं नास्ति सर्वत्र विजयी भवेत् ॥ ३॥ ॥ इति श्रीनवनागनामस्तोत्रं सम्पूर्णम् ॥

Shri Lingashtakam Stotra

|| Shri Lingashtakam Stotra || Brahma murari surarchita lingam Nirmala bhasita shobhita lingam। Janmaja duhkha vinasha kalinga Tat pranamami sadashiva lingam ॥ Devamuni pravararchita lingam Kamadaham karunakara lingam। Ravanadarpavinashana lingam Tat pranamami sadashiva lingam ॥ Sarvasugandhisulepita lingam Buddhivivardhana karana lingam। Siddhasura’suravandita lingam Tat pranamami sadashiva lingam ॥ Kanaka mahamanibhushita lingam Phanipativeshtitashobhita lingam। Dakshasuyajnavinashana lingam Tat…

ଲିଙ୍ଗଷ୍ଟାକମ୍ ଷ୍ଟ୍ରୋଟମ୍

‖ ଲିଙ୍ଗଷ୍ଟାକମ୍ (Lingashtakam PDF Odia) ‖ ବ୍ରହ୍ମମୁରାରି ସୁରାର୍ଚିତ ଲିଂଗଂ ନିର୍ମଲଭାସିତ ଶୋଭିତ ଲିଂଗମ୍ | ଜନ୍ମଜ ଦୁଃଖ ଵିନାଶକ ଲିଂଗଂ ତତ୍ପ୍ରଣମାମି ସଦାଶିଵ ଲିଂଗମ୍ ‖ ଦେଵମୁନି ପ୍ରଵରାର୍ଚିତ ଲିଂଗଂ କାମଦହନ କରୁଣାକର ଲିଂଗମ୍ | ରାଵଣ ଦର୍ପ ଵିନାଶନ ଲିଂଗଂ ତତ୍ପ୍ରଣମାମି ସଦାଶିଵ ଲିଂଗମ୍ ‖ ସର୍ଵ ସୁଗଂଧ ସୁଲେପିତ ଲିଂଗଂ ବୁଦ୍ଧି ଵିଵର୍ଧନ କାରଣ ଲିଂଗମ୍ | ସିଦ୍ଧ ସୁରାସୁର ଵଂଦିତ ଲିଂଗଂ ତତ୍ପ୍ରଣମାମି ସଦାଶିଵ ଲିଂଗମ୍ ‖ କନକ ମହାମଣି…

नतोपदेशस्तोत्रम्

|| नतोपदेशस्तोत्रम् || मनः समाधौ परमार्थरङ्गं विधाय निष्पन्दमनुत्तरङ्गम् । बुधा विधातुं भवभीतिभङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥ १॥ पाश्यावशेनेव महाविहङ्गं वल्गाबलेनेव महातुरङ्गम् । निरुध्य योगेन मनःप्लवङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥ २॥ मन्त्रौषधादिक्रियया भुजङ्गं यथा तथा वागुरया कुरङ्गम् । मनस्तदायम्य धियास्तसङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥ ३॥ भित्वालिकं सुभ्रुकुटीविभङ्गं यस्याग्निरुद्यद्रभसादनङ्गम् । ददाह तं मोहतमःपतङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥…

देवैः कृतं धर्मस्तोत्रम्

|| देवैः कृतं धर्मस्तोत्रम् || देवा ऊचुः । नमोऽस्तु शशिसङ्काश नमस्ते जगतः पते । नमोऽस्तु देवरूपाय स्वर्गमार्गप्रदर्शक । कर्ममार्गस्वरूपाय सर्वगाय नमो नमः ॥ २०॥ त्वयेयं पाल्यते पृथ्वी त्रैलोक्यं च त्वयैव हि । जनस्तपस्तथा सत्यं त्वया सर्वं तु पाल्यते ॥ २१॥ न त्वया रहितं किञ्चिज्जगत्स्थावरजङ्गमम् । विद्यते त्वद्विहीनं तु सद्यो नश्यति वै जगत् ॥ २२॥ त्वमात्मा…

லிங்காஷ்டகம் ஸ்தோத்திரம்

|| லிங்காஷ்டகம் (Lingashtakam PDF Tamil) || ப்ரஹ்மமுராரி ஸுரார்சித லிங்கம் னிர்மலபாஸித ஶோபித லிங்கம் | ஜன்மஜ துஃக வினாஶக லிங்கம் தத்-ப்ரணமாமி ஸதாஶிவ லிங்கம் || தேவமுனி ப்ரவரார்சித லிங்கம் காமதஹன கருணாகர லிங்கம் | ராவண தர்ப வினாஶன லிங்கம் தத்-ப்ரணமாமி ஸதாஶிவ லிங்கம் || ஸர்வ ஸுகம்த ஸுலேபித லிங்கம் புத்தி விவர்தன காரண லிங்கம் | ஸித்த ஸுராஸுர வம்தித லிங்கம் தத்-ப்ரணமாமி ஸதாஶிவ லிங்கம் || கனக மஹாமணி…

ಲಿಂಗಾಷ್ಟಕಮ್

|| ಲಿಂಗಾಷ್ಟಕಮ್ (Lingashtakam PDF Kannada) || ಬ್ರಹ್ಮಮುರಾರಿ ಸುರಾರ್ಚಿತ ಲಿಂಗಂ ನಿರ್ಮಲಭಾಸಿತ ಶೋಭಿತ ಲಿಂಗಮ್ | ಜನ್ಮಜ ದುಃಖ ವಿನಾಶಕ ಲಿಂಗಂ ತತ್-ಪ್ರಣಮಾಮಿ ಸದಾಶಿವ ಲಿಂಗಮ್ || ದೇವಮುನಿ ಪ್ರವರಾರ್ಚಿತ ಲಿಂಗಂ ಕಾಮದಹನ ಕರುಣಾಕರ ಲಿಂಗಮ್ | ರಾವಣ ದರ್ಪ ವಿನಾಶನ ಲಿಂಗಂ ತತ್-ಪ್ರಣಮಾಮಿ ಸದಾಶಿವ ಲಿಂಗಮ್ || ಸರ್ವ ಸುಗಂಧ ಸುಲೇಪಿತ ಲಿಂಗಂ ಬುದ್ಧಿ ವಿವರ್ಧನ ಕಾರಣ ಲಿಂಗಮ್ | ಸಿದ್ಧ ಸುರಾಸುರ ವಂದಿತ ಲಿಂಗಂ ತತ್-ಪ್ರಣಮಾಮಿ ಸದಾಶಿವ ಲಿಂಗಮ್ || ಕನಕ ಮಹಾಮಣಿ…

శ్రీ కాలభైరవ సహస్రనామ స్తోత్రం

|| శ్రీ కాలభైరవ సహస్రనామ స్తోత్రం (Kalabhairava Sahasranama Stotram Telugu PDF) || శ్రీ గణేశాయ నమః కైలాసశిఖరే రమ్యే దేవదేవం జగద్గురుం పప్రచ్ఛ పార్వతీకాంతం శంకరం లోకనాయకం || 1 || పార్వత్యువాచ దేవదేవ మహాదేవ సర్వజ్ఞ సుఖదాయక ఆపదుఃఖదారిద్ర్యాది పీడితానాం నృణాం విభో || 2 || యద్విత్తం సుఖసంపత్తిధనధాన్యకరం సదా విశేషతో రాజకులే శాంతి పుష్టి ప్రదాయకం || 3 || బాలగ్రహాది శమనం నానా సిద్ధికరం నృణాం నోక్తపూర్వంచయన్నాథ ధ్యానపూజా…

Shri Kalabhairava Ashtakam Stotram

|| Shri Kalabhairava Ashtakam Stotram PDF || Devaraja-sevyamana Pavananghri-pankajam, Vyalayajnasut Ramindusekharam kripakaram। Naradadi-yogivrndavanditam Digambaram, Kasikapuradhinatha Kalabhairavam bhaje॥ Bhanukotibhaskaram Bhavabdhitarakam param, Nilakanthami Psitarthadayakam trilocanam। Kalakalamambu Jaksamaksasulamaksaram, Kasikapuradhinatha Kalabhairavam bhaje॥ Sulatankapasad Andapanimadikaranam, Syamakayamadi Devamaksaram niramayam। Bhimavikramam prabhum Vicitratandavapriyam, Kasikapuradhinatha Kalabhairavam bhaje॥ Bhuktimuktipradayakam Prasastacaru-vigraham, Bhaktavatsalam sthitam Samastalokavigraham। Vinikvananmanojna Hemakinkinilasatkrtim, Kasikapuradhinatha- Kalabhairavam bhaje॥ Dharmasetupalakam Tvadharmamarganasakam, Karmapasamocakam Susarmadayakam vibhum। Svarnavarna…

ସୁବ୍ରହ୍ମଣ୍ୟ ଅପରାଧ କ୍ଷମାପଣ ସ୍ତୋତ୍ରମ୍

|| ସୁବ୍ରହ୍ମଣ୍ୟ ଅପରାଧ କ୍ଷମାପଣ ସ୍ତୋତ୍ରମ୍ || ନମସ୍ତେ ନମସ୍ତେ ଗୁହ ତାରକାରେ ନମସ୍ତେ ନମସ୍ତେ ଗୁହ ଶକ୍ତିପାଣେ । ନମସ୍ତେ ନମସ୍ତେ ଗୁହ ଦିଵ୍ୟମୂର୍ତେ କ୍ଷମସ୍ଵ କ୍ଷମସ୍ଵ ସମସ୍ତାପରାଧମ୍ ॥ 1 ॥ ନମସ୍ତେ ନମସ୍ତେ ଗୁହ ଦାନଵାରେ ନମସ୍ତେ ନମସ୍ତେ ଗୁହ ଚାରୁମୂର୍ତେ । ନମସ୍ତେ ନମସ୍ତେ ଗୁହ ପୁଣ୍ୟମୂର୍ତେ କ୍ଷମସ୍ଵ କ୍ଷମସ୍ଵ ସମସ୍ତାପରାଧମ୍ ॥ 2 ॥ ନମସ୍ତେ ନମସ୍ତେ ମହେଶାତ୍ମପୁତ୍ର ନମସ୍ତେ ନମସ୍ତେ ମୟୂରାସନସ୍ଥ । ନମସ୍ତେ ନମସ୍ତେ ସରୋର୍ଭୂତ ଦେଵ…

सुब्रह्मण्य अपराध क्षमापण स्तोत्रम्

|| सुब्रह्मण्य अपराध क्षमापण स्तोत्रम् || नमस्ते नमस्ते गुह तारकारे नमस्ते नमस्ते गुह शक्तिपाणे । नमस्ते नमस्ते गुह दिव्यमूर्ते क्षमस्व क्षमस्व समस्तापराधम् ॥ 1 ॥ नमस्ते नमस्ते गुह दानवारे नमस्ते नमस्ते गुह चारुमूर्ते । नमस्ते नमस्ते गुह पुण्यमूर्ते क्षमस्व क्षमस्व समस्तापराधम् ॥ 2 ॥ नमस्ते नमस्ते महेशात्मपुत्र नमस्ते नमस्ते मयूरासनस्थ । नमस्ते नमस्ते सरोर्भूत देव…

സുബ്രഹ്മണ്യ അപരാധ ക്ഷമാപണ സ്തോത്രമ്

|| സുബ്രഹ്മണ്യ അപരാധ ക്ഷമാപണ സ്തോത്രമ് || നമസ്തേ നമസ്തേ ഗുഹ താരകാരേ നമസ്തേ നമസ്തേ ഗുഹ ശക്തിപാണേ । നമസ്തേ നമസ്തേ ഗുഹ ദിവ്യമൂര്തേ ക്ഷമസ്വ ക്ഷമസ്വ സമസ്താപരാധമ് ॥ 1 ॥ നമസ്തേ നമസ്തേ ഗുഹ ദാനവാരേ നമസ്തേ നമസ്തേ ഗുഹ ചാരുമൂര്തേ । നമസ്തേ നമസ്തേ ഗുഹ പുണ്യമൂര്തേ ക്ഷമസ്വ ക്ഷമസ്വ സമസ്താപരാധമ് ॥ 2 ॥ നമസ്തേ നമസ്തേ മഹേശാത്മപുത്ര നമസ്തേ നമസ്തേ മയൂരാസനസ്ഥ । നമസ്തേ നമസ്തേ സരോര്ഭൂത ദേവ…

सुब्रह्मण्य अपराध क्षमापण स्तोत्रम्

|| सुब्रह्मण्य अपराध क्षमापण स्तोत्रम् || नमस्ते नमस्ते गुह तारकारे नमस्ते नमस्ते गुह शक्तिपाणे । नमस्ते नमस्ते गुह दिव्यमूर्ते क्षमस्व क्षमस्व समस्तापराधम् ॥ 1 ॥ नमस्ते नमस्ते गुह दानवारे नमस्ते नमस्ते गुह चारुमूर्ते । नमस्ते नमस्ते गुह पुण्यमूर्ते क्षमस्व क्षमस्व समस्तापराधम् ॥ 2 ॥ नमस्ते नमस्ते महेशात्मपुत्र नमस्ते नमस्ते मयूरासनस्थ । नमस्ते नमस्ते सरोर्भूत देव…

ಸುಬ್ರಹ್ಮಣ್ಯ ಅಪರಾಧ ಕ್ಷಮಾಪಣ ಸ್ತೋತ್ರಂ

|| ಸುಬ್ರಹ್ಮಣ್ಯ ಅಪರಾಧ ಕ್ಷಮಾಪಣ ಸ್ತೋತ್ರಂ || ನಮಸ್ತೇ ನಮಸ್ತೇ ಗುಹ ತಾರಕಾರೇ ನಮಸ್ತೇ ನಮಸ್ತೇ ಗುಹ ಶಕ್ತಿಪಾಣೇ । ನಮಸ್ತೇ ನಮಸ್ತೇ ಗುಹ ದಿವ್ಯಮೂರ್ತೇ ಕ್ಷಮಸ್ವ ಕ್ಷಮಸ್ವ ಸಮಸ್ತಾಪರಾಧಮ್ ॥ 1 ॥ ನಮಸ್ತೇ ನಮಸ್ತೇ ಗುಹ ದಾನವಾರೇ ನಮಸ್ತೇ ನಮಸ್ತೇ ಗುಹ ಚಾರುಮೂರ್ತೇ । ನಮಸ್ತೇ ನಮಸ್ತೇ ಗುಹ ಪುಣ್ಯಮೂರ್ತೇ ಕ್ಷಮಸ್ವ ಕ್ಷಮಸ್ವ ಸಮಸ್ತಾಪರಾಧಮ್ ॥ 2 ॥ ನಮಸ್ತೇ ನಮಸ್ತೇ ಮಹೇಶಾತ್ಮಪುತ್ರ ನಮಸ್ತೇ ನಮಸ್ತೇ ಮಯೂರಾಸನಸ್ಥ । ನಮಸ್ತೇ ನಮಸ್ತೇ ಸರೋರ್ಭೂತ ದೇವ…

સુબ્રહ્મણ્ય અપરાધ ક્ષમાપણ સ્તોત્રમ્

|| સુબ્રહ્મણ્ય અપરાધ ક્ષમાપણ સ્તોત્રમ્ || નમસ્તે નમસ્તે ગુહ તારકારે નમસ્તે નમસ્તે ગુહ શક્તિપાણે । નમસ્તે નમસ્તે ગુહ દિવ્યમૂર્તે ક્ષમસ્વ ક્ષમસ્વ સમસ્તાપરાધમ્ ॥ 1 ॥ નમસ્તે નમસ્તે ગુહ દાનવારે નમસ્તે નમસ્તે ગુહ ચારુમૂર્તે । નમસ્તે નમસ્તે ગુહ પુણ્યમૂર્તે ક્ષમસ્વ ક્ષમસ્વ સમસ્તાપરાધમ્ ॥ 2 ॥ નમસ્તે નમસ્તે મહેશાત્મપુત્ર નમસ્તે નમસ્તે મયૂરાસનસ્થ । નમસ્તે નમસ્તે સરોર્ભૂત દેવ…

सुब्रह्मण्य अपराध क्षमापण स्तोत्रम्

|| सुब्रह्मण्य अपराध क्षमापण स्तोत्रम् || नमस्ते नमस्ते गुह तारकारे नमस्ते नमस्ते गुह शक्तिपाणे । नमस्ते नमस्ते गुह दिव्यमूर्ते क्षमस्व क्षमस्व समस्तापराधम् ॥ 1 ॥ नमस्ते नमस्ते गुह दानवारे नमस्ते नमस्ते गुह चारुमूर्ते । नमस्ते नमस्ते गुह पुण्यमूर्ते क्षमस्व क्षमस्व समस्तापराधम् ॥ 2 ॥ नमस्ते नमस्ते महेशात्मपुत्र नमस्ते नमस्ते मयूरासनस्थ । नमस्ते नमस्ते सरोर्भूत देव…

सुब्रह्मण्य स्तोत्रम्

|| सुब्रह्मण्य स्तोत्रम् || युधिष्ठिरौवाच- भगवन्श्रोतुमिच्छामि नामानि च महात्मनः । त्रिषु लोकेषु यान्यस्य विख्यातानि द्विजोत्तम ॥ १॥ वैशम्पायन उवाच- इत्युक्तः पाण्डवेयेन महात्मा ऋषिसन्निधौ । उवाच भगवांस्तत्र मार्कण्डेयो महातपाः ॥ २॥ आग्नेयश्चैव स्कन्दश्च दीप्तकीर्तिरनामयः । मयूरकेतुर्धर्मात्मा भूतेशो महिषार्दनः ॥ ३॥ कामजित्कामदः कान्तः सत्यवाग्भुवनेश्वरः । शिशुः शीघ्रः शुचिश्चण्डो दीप्तवर्णः शुभाननः ॥ ४॥ अमोघस्त्वनघो रौद्रः प्रियश्चन्द्राननस्तथा । दीप्तशक्तिः…

Shri Subrahmanya Karavalamba Stotram

|| Shri Subrahmanya Karavalamba Stotram || Hey Swaminatha! Karunakara Deenabandho, Shri Parvatishamukha Pankajapadmabandho । Shri Shadidevagana Poojitapadapadma, Vallishnatha mama Dehi karavalambam ॥ Devadidevasuta Devaganadhinatha, Devendravandyamru Dupankajamamjupada । Devarshinaradamun Indrasugitakirte, Vallishnatha mama Dehi karavalambam ॥ Nityaannadanirata Akhilarogaharin, Bhagyapradanapari Pooritabhaktakaam । Shrutyagamapranava Vachyanijaswarupa, Vallishnatha mama Dehi karavalambam ॥ Kraunchasurendra Parikhanda shaktishoola, Chaapaadishastra Parimanditadivyapaane । Shrikundalishadhruta Tundashikheendravaaha, Vallishnatha…

Shri Subrahmanya Bhujanga Stotram

|| Shri Subrahmanya Bhujanga Stotram || Sadaa baalaruupaapi Vighnaadrihantri Mahaadantivaktraapi Panchaasyamaanyaa | Vidheendraadimrgyaa Ganeshaabhidhaa me Vidhattaam shriyam Kaapi kalyaanamoortih || Na jaanaami shabdam Na jaanaamichaartham Na jaanaami padyam Na jaanaami gadyam | Chideka shadaasyaa Hridi dyotate me Mukhaannih sarante Girashchaapi chitram || Mayuuradhiroodham Mahaavaakyagoodham Manohaarideham Mahachchittageham | Mahiidevadevam Mahaavedabhaavam Mahaadevabaalam Bhaje lokapaalam || Yadaa sannidhaanam…

दत्तप्रार्थनास्तोत्रम्

|| दत्तप्रार्थनास्तोत्रम् || प्रभो देवदेव प्रभो दत्तदेव । तारकोऽस्माकमकहृत्त्वमेव ॥ प्रभो देव देव प्रभो दत्तदेव ॥ ध्रु ॥ एहि करुणाकरा पाहि परमेश्वरा । त्राहि भवसागरादखिलदेव ॥ एहि लघु सन्मते एहि लघु सत्पते । देहि लघु सद्गते शुद्धभावम् ॥ १॥ त्वमसि दुरितापहा त्वमसि भवतापहा । त्वमसि कुमतापहा सर्वदेव ॥ त्वमसि हितकारकस्त्वमसि भयवारक-। स्त्वमसि भवतारकः साधुदेव ॥…

श्रीराघवेन्द्रसंसारोद्धरणस्तोत्रम्

|| श्रीराघवेन्द्रसंसारोद्धरणस्तोत्रम् || श्रितलोकामरभूरुहसदृशाङ्घ्रे कृपया भोः । गुरुराजोद्धर मां प्रतिपतितं संसृतिकूपे ॥ १॥ रमणी रै सुत मोहित मनसं मोदद भो भोः । गुरुराजोद्धर मां प्रतिपतितं संसृतिकूपे ॥ २॥ घनसच्छित्सुखपूरित करुणासागर भो भोः । गुरुराजोद्धर मां प्रतिपतितं संसृतिकूपे ॥ ३॥ वरदेशामित चित्रचरित भूभासुर भो भोः । गुरुराजोद्धर मां प्रतिपतितं संसृतिकूपे ॥ ४॥ दरचक्राङ्कित कण्ठग तुलसीमालिक भो…

श्रीराघवेन्द्रप्रतिकूलस्वानुकूलीकरणस्तोत्रम्

|| श्रीराघवेन्द्रप्रतिकूलस्वानुकूलीकरणस्तोत्रम् || श्रीभूपे कूपे सुखवारां कृतचित्तं चित्ते त्वां ध्यायामि च भूयोऽहममत्तः । स्वामिन् भूमन् भो गुरुराज प्रतिकूलं दारापत्याद्यं सकलं कुर्वनुकूलम् ॥ १॥ राष्ट्रे राष्ट्रे ख्यातयशस्तोम विभासिन् वासिन् ध्यातुश्चेतसि दातः करुणावान् । स्वामिन् भूमन् भो गुरुराज प्रतिकूलं दारापत्याद्यं सकलं कुर्वनुकूलम् ॥ २॥ घोरे संसारे पतितोऽहं तव पुत्रः कुत्रावेयं त्वामपहाय प्रभुमिष्टम् । स्वामिन् भूमन् भो गुरुराज…

श्रीराघवेन्द्रदुःखहरणस्तोत्रम्

|| श्रीराघवेन्द्रदुःखहरणस्तोत्रम् || श्रीपतिबोधविबोधक बाधकसाधितसाधन भोः । राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ १॥ राजमुखीरतिसम्भ्रमलोलुपचित्ततया व्यचरं बहु भोः । राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ २॥ घटतां मे कथमस्य दुराचरणं चरतो हितकृद्भुवि भोः । राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ ३॥ वेदपुराणविरुद्धकृतो मे नान्यः त्वत्तः पाता भोः । राघवेन्द्रगुरुराज भवोद्भवदुःखमिदं मे परिहर भोः ॥ ४॥…

श्रीराघवेन्द्रदारिद्र्यमोचनस्तोत्रम्

|| श्रीराघवेन्द्रदारिद्र्यमोचनस्तोत्रम् || श्रितानां पादं ते सकलविधया शोकहरणः त्वमेवाम्बा तातस्त्वमसि मम मित्रं सरलहृत् । प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ १॥ रतं वा दुष्टार्ये त्यजति सुतमम्बा किमु पिता कृपां कृत्वा शिश्नोदरकृतमहागस्यपि मयि । प्रदातुं स्वच्छन्दं द्रविणमनृणं वत्सल गुरो कलत्राद्यैः साकं सततमनुभोक्तुं च वितर ॥ २॥ घनाघो वा दीनो वावयवविकलो वाक्षविकलः…

श्रीराघवेन्द्रगुरुकरुणासम्पादनस्तोत्रम्

|| श्रीराघवेन्द्रगुरुकरुणासम्पादनस्तोत्रम् || श्री प्राप्त्यै प्रचुरतृषापिशाचकः स- न्नाजन्मप्रकटिततीर्थकाकभावः । दारिद्र्यप्रियसुहृदं तथापि दात- र्मां पात्रे समितमुपेक्षसे क्व यामि ॥ १॥ राकेन्दुप्रतिममुखीमवेक्ष्य चित्तं लोलन्तीं शुनककुधीस्तदानुकूल्ये । शंयुर्नाभवमनया तथापि भूय- श्चूडालः स्वजनविरोधजापकीर्त्या ॥ २॥ घर्मार्तो दिशि दिशि चारपाशचारं सञ्चर्यक्षणमपि विश्रमं न चापम् । कापेयस्तदपि मलीमसे धनाशा- भारेण प्रतिगृहमेम्यकिञ्चनोऽपि ॥ ३॥ (गृहमाप्तकिञ्चनोऽपि) वेदान्ते न किमपि साहसं मयाऽऽत्तं संसर्तुर्मम धिषणाभवच्छिलाभा…

श्रीराघवेन्द्रऋणमोचनस्तोत्रम्

|| श्रीराघवेन्द्रऋणमोचनस्तोत्रम् || श्रितजनदुरितघ्नं भक्तवर्गस्य निघ्नं सुरतरुसमरूपं सर्वसाम्राज्यभूपम् । भजकजनशरण्यं नौमि कारुण्यपूर्णं कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ १॥ रचितभयविनाश श्रीद सम्पत्समृद्ध । प्रियतमपर दीनाऽनाथबन्धो नमस्ते । निटिलगतकुवर्णश्रेणिवैय्यर्थकारिन् कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ २॥ घनतरहरिसेवोत्कर्षलब्धाष्टसिद्धे वितरणगुणलीलाधिक्कृत स्वर्द्रुकीर्ते । निखिलगुणनिधानश्लाघ्यसौभाग्यमूर्ते कुरु ऋणपरिहारं तात मे राघवेन्द्र ॥ ३॥ विदितविविधवेदव्यासवाक्यार्थमध्व- प्रकटितमतभावव्याकृतिप्रोपकर्तः । कृतकलिकृतदोषोच्चाटन क्षेमकारिन् कुरु ऋणपरिहारं तात…

श्रीराघवेन्द्र आपत्परिहरणस्तोत्रम्

|| श्रीराघवेन्द्र आपत्परिहरणस्तोत्रम् || श्रीकामुकाय बहुशोकाय तत्सुखमभीकाशु यच्छसि हि भो लोकाय तद्दुरितपाकाप्त पङ्गुजडमूकादिभावहरण । श्रीराघवेन्द्रपदवीर्यादिभोगभवघोराघमाशु हर भो दारात्मजादिभववाराशिसम्भवदपारापदः शमय भोः ॥ १॥ राजादि भक्तजन पूजालसत्पदपयोजाम्बुबिन्दुरपि बीजायते सुविधिभुजाय दूननृषु ते जागरूककरुणः । श्रीराघवेन्द्रपदवर्यादिभोगभवघोराघमाशु हर भोः दारात्मजादिभववाराशिसम्भवदपारापदः शमय भोः ॥ २॥ घोटीमदेभवरशाटीविराजिनृपकोटीशिरोविधृत- कोटीररत्नपरिपाटीभृशारुणितपाटीरपादुक विभो । श्रीराघवेन्द्रपदवीर्यादिभोगभवघोराघमाशु हर भोः दारात्मजादिभववाराशिसम्भवदपापापदः शमय भोः ॥ ३॥ वेदादिदूषककुवादादराध्य सुमोदावदाहकमहा- दावदोषविधुरे दानवद्विषि…

रमणसहस्रनामस्तोत्रम्

|| रमणसहस्रनामस्तोत्रम् || ॥ श्रीः ॥ ॥ श्रीरमणसहस्रनामस्तोत्रप्रारम्भः ॥ देव्युवाच । भगवन्सर्वशास्त्रार्थपरिज्ञानवतां वर । अरुणेशस्य माहात्म्यं त्वत्तो विस्तरशः श्रुतम् ॥ १॥ तन्नाम्नामपि साहस्रं सर्वपापहरं नृणाम् । अरुणेशावतारस्य रमणस्य महात्मनः ॥ २॥ इदानीं श्रोतुमिच्छामि तस्य नामसहस्रकम् । यस्य सङ्कीर्तनान्मर्त्यो विमुक्तिं विन्दते ध्रुवम् ॥ ३॥ त्वन्तु सर्वं विजानासि नान्यस्त्वत्तोऽस्य वेदिता । तस्मात्कारुण्यतो मह्यं भक्तिमत्यै विशेषतः ॥ ४॥…

श्रीरमणप्रातस्स्मरणस्तोत्रम्

|| श्रीरमणप्रातस्स्मरणस्तोत्रम् || ॥ श्रीमते रमणाय नमः ॥ प्रातस्स्मराम्यरुणशैलनितम्बदीव्य- त्पुण्याश्रमे रुचिरमञ्चवरे शयानम् । प्रावारकाऽऽवृततनुं मुकुलीकृताक्ष- मन्तर्मुखं रमणमात्मसमाधिलीनम् ॥ १॥ प्रातर्नमाम्यरुणशैलविहारलोल- मस्पर्शयोगसहजात्मसमाधिवश्यम् । आविर्भवन्निजसुखानुभवैकतृप्त- मव्याजभूतकरुणं रमणं शरण्यम् ॥ २॥ प्रातर्भजाम्यपरिलुप्तनिगूढशक्तिं ज्ञानाग्निदग्धसहकारणजन्मबीजम् । लोकं समस्तमपि योजयितुं सुखेन लीलागृहीतवपुषं रमणं मुनीन्द्रम् ॥ ३॥ प्रातस्स्तुवे स्तुतिपथातिगमप्रमेय – मासेविनाममृतभावविधानदक्षम् । आसेचनं नयनयोरनवद्यशील- मह्मोनिवारणचणं रमणं यतीन्द्रम् ॥ ४॥ प्रातर्ब्रुवे रमणपावननामधेयं यद्भागधेयमखिलस्य…

श्रीरघूत्तमगुरुस्तोत्रम्

|| श्रीरघूत्तमगुरुस्तोत्रम् || गम्भीराशयगुम्भसम्भृतवचःसन्दर्भगर्भोल्लसत् टीकाभावविबोधनाय जगतां यस्यावतारोऽजनि । तत्तादृक्षदुरन्तसन्तततपःसन्तानसन्तोषित श्रीकान्तं सुगुणं रघूत्तमगुरुं वन्दे परं देशिकम् ॥ १॥ सच्छास्त्रामलभावबोधकिरणैः संवर्धयन् मध्वसत्- सिद्धान्ताब्धिमनन्तशिष्यकुमुदव्रातं विकासं नयन् । उद्भूतो रघुवर्यतीर्थजलधेस्तापत्रयं त्रासयन् यस्तं नौमि रघूत्तमाख्यशशिनं श्रीविष्णुपादाश्रयम् ॥ २॥ उद्यन्मार्तण्डसङ्काशं दण्डमालाकमण्डलून् । धरं कौपीनसूत्रं च सीताराघवमानसम् ॥ ३॥ श्रीनिवासेन वन्द्याङ्घ्रिं तुलसीदामभूषणम् । ध्यायेद्रघूत्तमगुरुं सर्वसौख्यप्रदं नृणाम् ॥ ४॥ रघूत्तमगुरुं नौमि शान्त्यादिगुणमण्डितम् ।…

श्री सिद्धमंगल स्तोत्र

|| श्री सिद्धमंगल स्तोत्र || श्रीमदनन्त श्रीविभूषित अप्पललक्ष्मीनरसिंहराज । जय विजयी भव दिग्विजयी भव श्रीमदखण्ड श्रीविजयी भव ॥ १॥ श्रीविद्याधरी राधासुरेखा श्रीराखीधर श्रीपाद । जय विजयी भव दिग्विजयी भव श्रीमदखण्ड श्रीविजयी भव ॥ २॥ माता सुमती वात्सल्यामृत परिपोषित जय श्रीपाद । जय विजयी भव दिग्विजयी भव श्रीमदखण्ड श्रीविजयी भव ॥ ३॥ सत्यऋषिश्वर दुहितानन्दन बापनार्यनुत श्रीचरण…

సిద్ధ మంగళ స్తోత్రం

|| సిద్ధమంగళ స్తోత్రం || శ్రీమదనంత శ్రీవిభూషిత అప్పలలక్ష్మీనరసింహరాజా జయ విజయీభవ దిగ్విజయీభవ శ్రీమదఖండ శ్రీవిజయీభావ || శ్రీవిద్యాధరి రాధా సురేఖ శ్రీరాఖీధర శ్రీపాదా జయ విజయీభవ దిగ్విజయీభవ శ్రీమదఖండ శ్రీవిజయీభావ || మాతా సుమతీ వాత్సల్యామృత పరిపోషిత జయ శ్రీపాదా జయ విజయీభవ దిగ్విజయీభవ శ్రీమదఖండ శ్రీవిజయీభావ || సత్య ఋషీశ్వర దుహితానందన బాపనార్యనుత శ్రీచరణా జయ విజయీభవ దిగ్విజయీభవ శ్రీమదఖండ శ్రీవిజయీభావ || సవితృకాఠకచయన పుణ్యఫల భరద్వాజ ఋషి గోత్రసంభవా జయ విజయీభవ దిగ్విజయీభవ…

నవగ్రహ స్తోత్రం

|| నవగ్రహ స్తోత్రం (Navagraha Stotram PDF Telugu) || జపాకుసుమసంకాశం కాశ్యపేయం మహాద్యుతిం . తమోఽరిం సర్వపాపఘ్నం ప్రణతోఽస్మి దివాకరం .. దధిశంఖతుషారాభం క్షీరోదార్ణవసంభవం . నమామి శశినం సోమం శంభోర్ముకుటభూషణం .. ధరణీగర్భసంభూతం విద్యుత్కాంతిసమప్రభం . కుమారం శక్తిహస్తం తం మంగలం ప్రణమామ్యహం .. ప్రియంగుకలికాశ్యామం రూపేణాప్రతిమం బుధం . సౌమ్యం సౌమ్యగుణోపేతం తం బుధం ప్రణమామ్యహం .. దేవానాంచ ఋషీణాంచ గురుం కాంచనసన్నిభం . బుద్ధిభూతం త్రిలోకేశం తం నమామి బృహస్పతిం …..

यतीन्द्राष्टाक्षरस्तोत्रम्

|| यतीन्द्राष्टाक्षरस्तोत्रम् || पुण्यसद्यसुतः पुण्यः सुशीलानन्दवर्धनः । यः श्रीरामावतारः स यतीन्द्रः शरणं मम ॥ १। यः श्रीमद्राघवानन्दाचार्यशिष्यो जगदुरुः । रामब्रह्मोपदेष्टा स यतीन्द्रः शरणं मम ॥ २॥ वेदार्न्ताशेक्षको यः श्रीवैष्णवधर्मरक्षकः । सम्प्रदायाब्धिचन्द्रः स यतीन्द्रः शरणं मम ॥ ३॥ विशिष्टाद्वैतसिद्वान्तरक्षादक्षः सुदेशिकः । बोधायनानुयायी स यतीन्द्रः शरणं मम ॥ ४॥ वादिवारणशार्दूलः सुधीर्दिग्विजयो महान् । आनन्दभाष्यकर्ता स यतीन्द्रः शरणं…

यतिराजस्तोत्रम् २

|| यतिराजस्तोत्रम् २ || धनं यस्य सद्ब्रह्म विद्यानिदानं बुधानन्दरूपं स्वरूपं दधानम् । परप्रापकाङ्घ्रिद्वयीसन्निधानं विधानं विभूतिद्वयेशाभिधानम् । भजे भाष्यकारं भजे लक्ष्मणार्यं भजे सालसद्ग्रामरामानुजार्यम् ॥ १॥ नमोनित्यदिव्यप्रबन्धादिकृद्भ्यो नमः पञ्चरात्रादिविद्भ्यो मुनिभ्यः । नमोमद्गुरुभ्यो नमस्तद्गुरुभ्यो नमः पञ्चसंस्कारविद्यागुरुभ्यः ॥ भजे भाष्य०॥ २॥ नमो वेङ्कटाधीशसत्पादरेणु- स्तवैः पद्यविद्यासहस्रप्रयोक्त्रे । मुमुक्षूञ्जनान्नित्यकल्पान्विधात्रे महाहोबलाचार्यवर्याय पित्रे ॥ भजे भाष्य०॥ ३॥ अहिर्बुध्न्य‍इत्यादि यस्मिन्प्रमाणं कलौ कश्चिदित्यादिशुद्धं पुराणम् ।…

श्रीभूतराजस्तोत्रम्

|| श्रीभूतराजस्तोत्रम् || प्रसादार्थं सदा नारायणभूताख्यमादरात् । वादिराजगुरोर्दूतं भूतराजं नतोऽस्म्यहम् ॥ १॥ स्मरतां नियमेनैव भूतभीत्यादिभञ्जनम् । वादिराजगुरोर्दूतं भूतराजं नतोऽस्म्यहम् ॥ २॥ गुरोर्दक्षिणभागस्थं भजतां भद्रदं द्रुतम् । वादिराजगुरोर्दूतं भूतराजं नतोऽस्म्यहम् ॥ ३॥ भृतैः कर्णविकर्णाख्यैर्युक्तं भूतगणैः सदा । वादिराजगुरोर्दूतं भूतराजं नतोऽस्म्यहम् ॥ ४॥ क्रूरं घोरं तथा शूरं धनुःखड्गादि धारिणम् । वादिराजगुरोर्दूतं भूतराजं नतोऽस्म्यहम् ॥ ५॥ प्रतापवन्तं वीराग्र्यं…

श्रीब्रह्मानन्दस्तोत्रम्

|| श्रीब्रह्मानन्दस्तोत्रम् || ब्रजेन्द्रनन्दाङ्गनभासकारिणः सखेति वित्तं प्रभुपादभावितैः । व्रजस्य राखालमनन्तसौभगं, नमामि शान्तं शिशुभाव सुन्दरम् ॥ १॥ मुहुर्मुहुः श्रीहरिनामविह्वलं सुनिर्मलं योगसुधाब्धि मज्जनात् । दयाघनं नाथमनाथपावनं नमामि दान्तं यतिवृन्दशेखरम् ॥ २॥ न रामकृष्णस्य शरीरसम्भवः स मानसाज्जात इतीह कीर्तितः । यथैव तातः सुरसङ्घपूजितस्तथैव पुत्रो नरपाल सेवितः ॥ ३॥ अनन्तभावालयदिव्यसागरं बहिः सुशान्तापिहितात्मभावम् । गताखिलाध्यात्म्य सुराज्यसम्पदं भजामि देवाद्य मनोजनन्दनम् ॥…

श्रीब्रह्मण्यतीर्थपञ्चरत्नमालिकास्तोत्रम्

|| श्रीब्रह्मण्यतीर्थपञ्चरत्नमालिकास्तोत्रम् || वन्दे ब्रह्मण्यतीर्थं शुभतमचरितं सेवितश्रीसमेतम् शान्तं दान्तं महान्तं गुरुगुणभरितं योगिसङ्घैरुपेतम् । कामक्रोधाद्यतीतं कुमतिभिरजितं कल्मषाम्भोधिपोतम् धीरं भूदेवगीतं शुभजनमहितं धन्यमानं विनीतम् ॥ १॥ माद्यन्मायिगजेन्द्रपञ्चवदनः प्रख्यातकीर्तिर्महान् श्रीमद्विट्ठलपादपद्ममधुपः सर्वेष्टचिन्तामणिः । निर्व्याजोरुदयाकटाक्षलसितो ज्ञानादिभाग्योज्वलः श्रीब्रह्मण्ययतीन्द्र मस्तकमणिः पायादपायात्स माम् ॥ २॥ भिभ्रत्काषायचेलं विलसिततुलसीपङ्कजाक्षादिमालम् धूताज्ञानाघजालं मृदुवचनकलं चारुसौन्दर्यशीलम् । आर्तत्राणैकलोलं प्रणतमुनिकुलं वैष्णवाग्र्यानुकूलम् ब्रह्मण्यार्यं दयालुं स्मितमुखकमलं तं भजेलम् ॥ ३॥ यद्वृन्दावनदर्शनेन नितरां पापानि…

प्रार्थनादशकस्तोत्रम्

|| प्रार्थनादशकस्तोत्रम् || रमारमण मध्वादिदेशिक श्रीहृदब्जग । हयग्रीव कृपालो मे प्रार्थनां श्रुणु सादरम् ॥ १॥ अयोग्यविषये स्वामिन् सर्वथा न मनो भवेत् । चाञ्चल्यं मूलतश्छिन्धि दुराशां हर दूरतः ॥ २॥ दुर्बुद्धिं च न मे देहि दुःशास्त्रावर्तने रतिम् । हापयस्व च दुर्मानं दुर्गुणं मोचय प्रभो ॥ ३॥ दुःसङ्गं दुष्क्रियां छिन्धि हर लोकाटनात्पदौ । न नियोजय चक्षूंषि परदारादिदर्शने…

श्रीमन् न्यायसुधास्तोत्रम्

|| श्रीमन् न्यायसुधास्तोत्रम् || यदु तापसलभ्यमनन्तभवैस्दुतो परतत्त्वमिहैकपदात् । जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ १॥ विहितं क्रियते ननु यस्य कृते स च भक्तिगुणो यदिहैकपदात् । जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ २॥ वनवासमुखं यदवाप्तिफलं तदनारतमत्र हरिस्मरणम् । जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ ३॥ निगमैरविभाव्यमिदं वसु यत् सुगमं पदमेकपदादपि तत् । जयतीर्थकृतौ…

श्रीनृसिंहसरस्वतीस्तोत्रम् २

|| श्रीनृसिंहसरस्वतीस्तोत्रम् २ || प्राग्ब्रह्म त्वमजोऽक्रियोऽपि बहुलं स्यामित्यभूद्धीस्तया सृष्ट्वैवाण्डभुवं ततो जगदिदं सृष्टं सधर्मं गुणैः । स्वैः स्वं भो रमयन्विहंसि सदरीनत्रावतीर्यानिशम् वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥ १॥ कल्याकृष्टहृदुझ्झितक्रतुनर-त्रस्ताध्वराशीर्मुदे प्रातः सूर्य इवोदितोऽस्यज महामोहान्धकारं ग्रसन् । सद्धर्माश्रमसेतुमत्र शिथिलप्रायं सुदार्ढ्यां नयन् वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥ २॥ सर्वानन्दनिधानरूपममलं स त्वं सुखं मूर्तिमत् प्रादुष्कृत्य जनत्रयान्तरमृग-क्रीडावनं पावनम्…

श्रीनृसिंहसरस्वतीस्तोत्रम् १

|| श्रीनृसिंहसरस्वतीस्तोत्रम् १ || कोट्यर्कभं कोटिसुचन्द्रशान्तं विश्वाश्रयं देवगणार्चिताङ्घ्रिम् । भक्तप्रियं त्वात्रिसुतं वरेण्यं वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ १॥ मायातमोऽर्कं विगुणं गुणाढ्य्ं श्रीवल्लभं स्वीकृतभिक्षुवेषम् । सद्भक्तसेव्यं वरदं वरिष्ठं वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ २॥ कामादिषण्मत्तगजाङ्कुशं त्वामानन्दकन्दं परतत्त्वरूपम् । सद्धर्मगुप्त्यै विधृतावतारं वन्दे नृसिंहेश्वर पाहि मां त्वम् ॥ ३॥ सूर्येन्दुगुं सज्जनकामधेनुं मृषोद्यपञ्चात्मकविश्वमस्मात् । उदेति यस्मिन्रमतेऽस्तमेति वन्दे…

श्रीनृसिंहसरस्वतिस्तोत्रम्

|| श्रीनृसिंहसरस्वतिस्तोत्रम् || (शार्दूलविक्रीडितवृत्तम्) सर्वप्राणिशुभात्मकं श्रुतिनुतं दिव्यं पदं पावनं अज्ञानान्धदृगार्तमूढजनताभास्वत्प्रदीपाननम् । भक्तानन्तशुभेप्सितार्थफलदं राराजमानं गुरुं भूमानन्दचिदम्बुधिं यतिवरं वन्दे नृसिंहं शिवम् ॥ १॥ ब्रह्माविष्णुमहेशरूपममलं श्रीदत्तनामाङ्कितं सर्वप्राणिविजीवनं निरवधिं सर्वान्तरज्योतिषम् । स्मृत्यादिश्रुतियुक्तिभिः परिचितं स्वानन्दसूर्यं गुरुं भूमानन्दचिदम्बुधिं यतिवरं वन्दे नृसिंहं शिवम् ॥ २॥ संसाराम्बुधिमज्जनार्दितनरत्राणक्रियातत्परं मायौद्धत्यविलापकामृतगिरं सर्वज्ञमीशं गुरुम् । मायासृष्टिविकारशून्यममलं ब्रह्माभयं शाश्वतं भूमानन्दचिदम्बुधिं यतिवरं वन्दे नृसिंहं शिवम् ॥ ३॥ नानाचित्रचरित्रदिव्यकुसुमामोदान्न्विताङ्गप्रभुं नानाभक्तगणालिसेवितपदद्वन्द्वाम्बुजं…

श्रीनिम्बार्कस्तोत्रम्

|| श्रीनिम्बार्कस्तोत्रम् || श्रीमते सर्वविद्यानां प्रभवाय सुब्रह्मणे । प्राचार्याय मुनीन्द्राय निम्बार्काय नमोनमः ॥ १॥ निम्बादित्याय देवाय जगज्जन्मादिकारिणे । सुदर्शनावताराय नमस्ते चक्ररूपिणे ॥ २॥ नमः कल्याणरूपाय निर्दोषगुणशालिने । प्रज्ञानघनरूपाय शुद्धसत्त्वाय ते नमः ॥ ३॥ सूर्यकोटिप्रकाशाय कोटीन्दुशीतलाय च । शेषानिश्चिततत्त्वाय तत्त्वरूपाय ते नमः ॥ ४॥ विदिताय विचित्राय नियमानन्दरूपिणे । प्रवर्त्तकाय शास्त्राणां नमस्ते शास्त्रयोनये ॥ ५॥ वसतां नैमिषारण्ये…

श्रीनिम्बार्कसहस्रनामस्तोत्रम्

|| श्रीनिम्बार्कसहस्रनामस्तोत्रम् || श्रीसर्वेश्वरो जयति ॥ श्रीभगवन्निम्बार्काचार्याय नमः ॥ उपोद्घातः- अनिरुद्धः सदा त्राता निम्बार्कः पुरुषार्थवृट् । कृपाचारसुधावृष्ट्या निगमौघ-प्रवर्तकः ॥ १॥ त्रेतायुगे गत-प्राये नैमिषारण्य-वासिनः । आराधनाय कृष्णस्य विप्रा गौरमुखादयः ॥ २॥ बहुकालं तपस्तप्त्वा नारायण-परायणाः । ध्रुवमध्वरमाराध्यारेभिरे ते मखान्तरम् ॥ ३॥ नीयमाने मखे तस्मिन् विघ्नदा बहवोऽभवन् । द्वेषिभिर्ध्वंसिते यज्ञे दैत्यैः सत्कदन-प्रियैः ॥ ४॥ तपोयाग-समावृत्या ऋषयः कृष्णयाजिनः ।…

श्री रवि सप्तति रहस्यनाम स्तोत्रम्

|| श्री रवि सप्तति रहस्यनाम स्तोत्रम् PDF || हंसो भानुः सहस्रांशुस्तपनस्तापनो रविः । विकर्तनो विवस्वांश्च विश्वकर्मा विभावसुः ॥ १ ॥ विश्वरूपो विश्वकर्ता मार्तण्डो मिहिरोऽम्शुमान् । आदित्यश्चोष्णगुः सूर्योऽर्यमा ब्रध्नो दिवाकरः ॥ २ ॥ द्वादशात्मा सप्तहयो भास्करो हस्करः खगः । सूरः प्रभाकरः श्रीमान् लोकचक्षुर्ग्रहेश्वरः ॥ ३ ॥ त्रिलोकेशो लोकसाक्षी तमोऽरिः शाश्वतः शुचिः । गभस्तिहस्तस्तीव्रांशुस्तरणिः सुमहोरणिः ॥ ४…

नवनाथस्तोत्रम्

|| नवनाथस्तोत्रम् || ॐ नमो नवनाथेभ्यः । अथ नवनाथस्तोत्रम् । आदेशवस्तुविषयः सुरसिद्धलक्ष्यो यश्चैकनाथ इह सन्नवमूर्ति-पूर्तिः । सर्वोपरि प्रतिपलं वरिवर्ति कुर्वे कायेन तस्य मनसा वचसा प्रणामम् ॥ १॥ मोहान्धकारविचलन्मनसो मनुष्यां, स्वत्त्वोज्झितानपि परम्परयोपदेष्टुम् । तत्त्वं विमुक्तय उताकृत योगशास्त्रमादेश एतु मम तत्र य आदिनाथः ॥ २॥ यो ह्यादिनाथ उत राघवमत्स्यजन्मा मत्स्येन्द्रनाथ इति योगकभोगवृत्तिः । विस्मापयन्नखिलसिद्धसुरांश्च जात आदेश एतु…

तोटकस्तोत्रम्

|| तोटकस्तोत्रम् || श्रीजगद्गुरु श‍ृङ्गेरी श्रीचन्द्रशेखरभारतीस्वामि अनुगृहीता स्मितनिर्जितकुन्दसुमं ह्यसमं मुखधूतसुधांशुमदं शमदम् । सुखरूपपरात्मरतं निरतं श्रितकल्पतरुं प्रणमामि गुरुम् ॥ १॥ जलबुद्बुदवत् क्षणभङ्गयुते मलमूत्रवसासहिते वपुषि । कुरुतेऽभिमतिं हृदयं हि मुधा लघु वारय देशिक तां दयया ॥ २॥ धृतदण्डकमण्डलुजापसरं सततं हृदये शशिखण्डधरम् । दधतं नमतां वृजिनौघहरं ददतं प्रतिभां प्रणमामि गुरुम् ॥ ३॥ करणानि समानि भवन्ति कदा तरणं नु…

Join WhatsApp Channel Download App