Misc

श्री विष्णोः षोडशनाम स्तोत्रम्

Vishnu Shodasa Nama Stotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री विष्णोः षोडशनाम स्तोत्रम् ||

औषधे चिन्तयेद्विष्णुं भोजने च जनार्दनम् ।
शयने पद्मनाभं च विवाहे च प्रजापतिम् ॥ १ ॥

युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम् ।
नारायणं तनुत्यागे श्रीधरं प्रियसङ्गमे ॥ २ ॥

दुस्स्वप्ने स्मर गोविन्दं सङ्कटे मधुसूदनम् ।
कानने नारसिंहं च पावके जलशायिनम् ॥ ३ ॥

जलमध्ये वराहं च पर्वते रघुनन्दनम् ।
गमने वामनं चैव सर्वकालेषु माधवम् ॥ ४ ॥

षोडशैतानि नामानि प्रातरूत्थाय यः पठेत् ।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ ५ ॥

Found a Mistake or Error? Report it Now

श्री विष्णोः षोडशनाम स्तोत्रम् PDF

Download श्री विष्णोः षोडशनाम स्तोत्रम् PDF

श्री विष्णोः षोडशनाम स्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App