Misc

श्री विष्णुषट्पदी स्तोत्रम्

Vishnu Shatpadi Stotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री विष्णुषट्पदी स्तोत्रम् ||

अविनयमपनय विष्णो
दमय मनः शमय विषयमृगतृष्णाम् ।
भूतदयां विस्तारय
तारय संसारसागरतः ॥ १ ॥

दिव्यधुनीमकरन्दे
परिमलपरिभोगसच्चिदानन्दे ।
श्रीपतिपदारविन्दे
भवभयखेदच्छिदे वन्दे ॥ २ ॥

सत्यपि भेदापगमे
नाथ तवाऽहं न मामकीनस्त्वम् ।
सामुद्रो हि तरङ्गः
क्वचन समुद्रो न तारङ्गः ॥ ३ ॥

उद्धृतनग नगभिदनुज
दनुजकुलामित्र मित्रशशिदृष्टे ।
दृष्टे भवति प्रभवति
न भवति किं भवतिरस्कारः ॥ ४ ॥

मत्स्यादिभिरवतारै-
-रवतारवतावता सदा वसुधाम् ।
परमेश्वर परिपाल्यो
भवता भवतापभीतोऽहम् ॥ ५ ॥

दामोदर गुणमन्दिर
सुन्दरवदनारविन्द गोविन्द ।
भवजलधिमथनमन्दर
परमं दरमपनय त्वं मे ॥ ६ ॥

नारायण करुणामय
शरणं करवाणि तावकौ चरणौ ।
इति षट्पदी मदीये
वदनसरोजे सदा वसतु ॥ ७ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ षट्पदी स्तोत्रं सम्पूर्णम् ।

Found a Mistake or Error? Report it Now

श्री विष्णुषट्पदी स्तोत्रम् PDF

Download श्री विष्णुषट्पदी स्तोत्रम् PDF

श्री विष्णुषट्पदी स्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App