|| श्रीरामसौन्दर्यलहरी ||
यद्दीनेषु धरासुतारमण ते नेत्रद्वयं जात्वपि
प्रान्तेक्षाकनिताखिलार्त्यपगमद्ध्यानाद्यकुर्वत्स्वपि ।
नित्यं प्रेमदयोर्जितं निविशते तत्सन्ततं भक्तितः
त्वत्सेवैकहृदः कथं न विषयीकुर्यात्तथा नः कृशान् ॥ १॥
मुग्धं राम तवाननं सहृदयं लोकस्य सम्पश्यतो
नेत्रं विस्तृतपक्ष्मविभ्रममितो नापैति लक्ष्म्या यया ।
शीतांशुं विमलं न सा बहुशरद्राकोद्भवास्वेकदा
श्रीष्वप्यार्य गतासु तादृशि मनाग्लक्ष्येत भिन्ने किमु ॥ २॥
चन्द्रं तवाननसमं द्रुहिणो विधातु-
मेकैकया प्रतिदिनं कलया युनक्ति ।
पर्वण्यवेक्ष्य स तयोर्विषमत्वमुच्चै-
रादर्शमाक्षिपति ता हि तथाधुनापि ॥ ३॥
रामाह्नि ते सदृशतां कमलानि दृग्भ्यां
गन्तुं जलेषु वरदं समुपासतेऽर्कम् ।
तत्कान्तिलेशमनवाप्य ततोऽपि रात्र्यां
शुष्यन्ति मीलनमिषादतिदुःखितानि ॥ ४॥
रम्यं दृशौ जगति राघव ते सिसृक्षु-
र्धाताब्जकोटिमसृजत्करपाटवाय ।
सृष्ट्वाथ ते स तु तयोरनुरूपमेकं
लब्धुं पुनः सृजति पद्मकुलं न लेभे ॥ ५॥
स्निग्धानि राम नव सान्द्रतराणि भान्ति
पक्ष्माणि नीलनिबिडानि दरोन्नतानि ।
प्रायेण लग्ननयनाम्बुरुहप्रवेक-
नीलान्यनुक्षणनिमेषकुलैरिव स्वैः ॥ ६॥
नीलोत्पलादहनि पद्मकुलाद्रजन्यां
लक्ष्मीरपैति कुत इत्यवधार्य वेधाः ।
त्वन्नेत्रयोर्विरचितामनपायिनीं तां
कर्तुं चकार नृप पक्ष्ममिषेण वप्राम् ॥ ७॥
आप्रान्तमायतनते रघुवंशचन्द्र
देव भ्रुवौ नयनयोर्जितमार भातः ।
सञ्जातरक्तनलिनज्वलदग्रभागे
वल्ल्याविवाद्भुततरे जगतीह केऽपि ॥ ८॥
मुग्धाङ्गनाजयसिसाधयिषोदयेन
स्वप्रार्थितेन मदनः कमलासनेन ।
तं संहितं सुमुख माद्यति नेत्रकोणं
त्वद्भूधनुष्युपरिपक्ष्मगुणेऽधिगत्य ॥ ९॥
दीर्घं विशालमलमुत्तरकोसलेन्द्र
मध्ये विशेषकविशोभ्यलिकं तवाच्छम् ।
त्वद्वर्ष्मनिष्कुटतटेषु सदा चरन्त्या
विश्रान्तिपीठमिव राजति रूपलक्ष्म्याः ॥ १०॥
रेखात्रयेण तव राम लसल्ललाटं
तिर्यग्विभाति ननु सूक्ष्मतरेण मध्ये ।
सम्भावितर्धवदनोज्ज्वलताप्रवाह-
वेगाहितानभिहतायतसत्रिनिम्नम् ॥ ११॥
तीक्ष्णोन्नताग्रमहिमांशुकुलावतंस
घ्राणं मनाक् तव विजृम्भितचम्पकश्रि ।
सौन्दर्यनिर्झरचरद्वनिताक्षिमत्स्या
नादातुमत्र बडिशं निहितं नु भाति ॥ १२॥
काकुत्स्थ ते सुमनसां चयमब्जयोनि-
र्नासां ततान तिलपुष्षसमां गृहीत्वा ।
तन्निर्गतस्य पवनस्य यतः स गन्धो
यः स्यात्तरामुपवने चरतो वसन्ते ॥ १३॥
ओष्ठोपरि स्फुरदनङ्गसमाङ्ग निम्नम्
गाढं तवोल्लसति दाडिमबीजदघ्नम् ।
त्वामेव चेतसि शुचिं सततं दधत्याः
स्वप्नोपभोगदशनक्षतमङ्गनायाः ॥ १४॥
निर्माय ते मृदुतयोत्पलभास्वरोष्ठं
भूयः परीक्षितुमिमं चतुराननेन ।
तस्मिन्नसान्द्रनिहिताग्रकनिष्ठिकाया
विद्योतते पदमिवोष्ठतलोर्ध्वनिम्नम् ॥ १५॥
लक्ष्येत राम तव चेदधरः कवीन्द्रैः
कथ्येत विद्रुमगणेषु कथं तथा श्रीः ।
ज्ञायेत चेत्स मधुरोऽतिशयः सुधायां
स्पृश्येत चेदभिनवे मृदुता शिरीषे ॥ १६॥
बिम्बैः फलैर्जगति यत्कविनाधराणां
रामोपमामधरबिम्बपदं प्रयुक्तम् ।
तत्तेऽधरस्य गुणवाचि कथं न वा स्या-
दत्यन्ततुच्छमिति बिम्बफलं किलातः ॥ १७॥
मुक्ताफलानि भुवि यान्यतिसुन्दराणि
तान्येव चेदवनिचन्द्र नरो दिदृक्षुः ।
स्वच्छं समुज्ज्वल्लमिदं निशताग्रशालि
पश्येत्समं स मसृणं तव द्न्तजालम् ॥ १८॥
ऊर्ध्वं स्थितेषु भरताग्रज तेऽप्यधस्तात्
सत्स्वम्बुजाक्षतनयः सममानसिद्ध्यै ।
चक्रे ध्रुवं तनुशलाकिकयान्तरन्त-
र्लेखाः कृशा विरलसन्धिमिषादनेकाः ॥ १९॥
सौमित्रिपूर्वज तवानिशमास्यभाजः
शुद्धात्वषः सुमुख वागधिदेवतायाः
तेजो बहिः प्रसरदेव शरद्धवाच्छ
ज्योत्स्नाविशोभि तनुहास इतीर्यतेऽन्यैः ॥ २०॥
मन्दस्मितं दशरथात्मज ते यदच्छं
त्वद्वक्त्रपूर्णशशिजा ननु चन्द्रिका सा ।
आलोकतः सरसतां यदमुष्य चन्द्र-
कान्ताननं भजति हि प्रमदाजनस्य ॥ २१॥
सङ्क्षिप्तशब्दमपि दुर्ग्रहमर्थजालैः
यद्रोचते विबुध ते वचनं पशुभ्यः ।
तन्मन्दहासशरदुद्भवचन्द्रिकोष्ठ
पीय्यूषसङ्गजमहो मधुरत्वमस्य ॥ २२॥
आदीयते स्म सुत कोसलराजपुत्र्याः
वाग्भ्योऽनु ते किसलयैर्मृदुता नवीनैः ।
आहोस्विदत्र किमु सुस्मित वैपरीत्यं
वाक्तां तवापुरुत तानि नु यन्न भेदः ॥ २३॥
सम्पश्यतां गुणागणाम्बुनिधे खनीं नः
वृत्तां स्थितां भवति ते चुबुकादधोऽत्र ।
धात्रोन्नमय्य मुखमेतदवेक्षितुं ते
दत्तादिमाङ्गुलितलाग्रखनीति शङ्का ॥ २४॥
आदर्शसाम्यमनुचिन्त्य निषेधयामो
गण्डद्वयस्य तव राम कवीन्द्रबद्धम् ।
अस्मिन्यथाऽभिमुखसंस्थितमच्छमेव-
मन्यत्र न प्रतिफलत्युपमानमात्मा ॥ २५॥
मन्दस्मितस्य विशदैस्तव तैर्महोभी
रामाभितो विततमच्छकपोलयुग्मम् ।
सान्द्रं सरोरुहभुवा परितो विलिप्तं
शुद्धामृतस्य कणिकाभिरिवाद्य भाति ॥ २६॥
ऊर्ध्वस्फुरन्मकरकुण्डलभाविलिप्त-
रन्ध्रश्रुतिद्वययुजी तव राम नेत्रे ।
सौन्दर्यनिर्झरमहृदयुग्मतोऽलं
तीरे झषाविव ततः पतितौ चलन्तौ ॥ २७॥
श्रीराम कामसम वृत्ततया त्वदीयं
कर्णद्वयं प्रतिनिधीकृतशष्कुलीकम् ।
दोर्मूलदेशयुगले विनिहीर्षयाऽऽभा-
मुत्तभ्य कुण्डलयुगस्य शनैरुपैति ॥ २८॥
अन्तर्जनस्य तव योऽस्ति गुणाढ्य रागः
स्थातुं शशाक न मुहुः स समेधृमानः ।
शिष्टस्ततः श्रवणरन्ध्रयुगादुपास्ते
निर्गत्य तत्कनककुण्डलयुग्मरूपात् ॥ २९॥
अङ्गस्य यस्य भुवि या कमनीयभूषा
सा निर्मलापि यदि तच्छ्रियमातनोति ।
गण्डप्रभाव्यतिकरादिव कर्णभूषे
काष्ठामुपेत्य तु विभूषयतस्तवास्यम् ॥ ३०॥
श्रीराम ते सदय लोचनयोरुपान्ते
रागो विनिर्जितनवाङ्कुरकान्तिदर्पः ।
मन्ये तमद्य मनुजेषु निजानुरागं
दृग्भ्यां स्वतः प्रकटितं प्रचुरञ्जनाय ॥ ३१॥
आताम्रकृष्णसितनेत्रयुगात्स्रवन्त्यो
भासो विभान्ति बहुवर्णमनोज्ञरूपाः ।
पृज्याग्रतस्तव मुदे गगनान्तराले
सिद्धेन राम रचिता इव चित्रलेखाः ॥ ३२॥
भूतेषु जन्मसु न यैर्बहु चेदकारि
पुण्यं न तेषु पुरुषोत्तम तं कटाक्षः ।
इष्टार्थदः स तु सुधारसपूरतुल्य-
स्तापं हरन्परम मां विषयीकरोति ॥ ३३॥
पश्चात्कृतस्य पशुना बुध चामरस्य
मूर्ध्नि त्वयाऽद्य विधृतस्य सुकेशराशेः ।
नेहेऽस्मि साम्यमनुवर्णयितुं सुगन्नु
यानञ्जनस्य विमतेरपहास्यतायाः ॥ ३४॥
दृग्भ्यां सरोरुहरुचिक्षतिकृत्सुधाव-
द्बिम्बाधरेण हसितेन सचन्द्रिकं च ।
पद्मेक्षणाननसुधाकरमण्डलं ते
नः पश्यतां शशिसमीक्षणतो विरक्तिः ॥ ३५॥
आस्यं त्रिलोकमपि दाशरथे स्फुटाक्षं
विस्मेरमावहत उज्वलतागुणस्य ।
विश्रामभूरुहमनाप्य न पापकृत्कः
जङ्घालमेणधरदर्पभिदाकृतीदम् ॥ ३६॥
उन्निद्रमर्धमहिमांशुमहोभिरर्ध-
निद्रायितं च कमलं विधुनैकदा चेत् ।
तेनातिसुन्दर तवैव समीक्रियेत
ग्रीवा तु सुन्दरतया रहितो हि कम्बुः ॥ ३७॥
आश्लेषसक्तहृदयेन यदा यदा ते
कण्ठो व्यलोकि सुयशो वनिताजनेन ।
रागस्तदीयमनसोऽत्र तदा तदालं
सक्तस्ततोऽस्ति नु भवानतिरक्तकण्ठः ॥ ३८॥
सत्वेन राम मिलितेन सहातिरिक्तै-
स्तैरामणीयकरसैः स्वकरोपपीडम् ।
ते पिण्डितेन रचितस्य गलस्य तिर्य-
गाकुञ्चनात्त्रिवलि विश्वसृजोदगात्किम् ॥ ३९॥
लोकत्रयस्य विजये मदनेन साक्षा-
द्यः पूर्यते मुस्वमरुद्भिरनन्यसाध्ये ।
शङ्खः स एव तव कण्ठमिषेण राम
हारैरनर्घतरलैरमलैर्विभाति ॥ ४०॥
स्कन्धौ तवामरनिभाच्छसुवर्णकर्ण
भूषाप्रभारसझरस्य कपोलयुग्मम् ।
आक्रम्य सम्प्रवहतः पूनरप्यधस्तात्
व्यूढत्वमापतुरिवाधरणाय कामम् ॥ ४१॥
सृष्ट्वा विधिस्तव शरण्य विशालमंसं
मेने पुनर्बहुविशालतया विहीनम् ।
जत्र्वङ्गमस्य समवायि चकार सोऽत-
स्तस्मान्न सम्प्रति विभो वयि दृश्यते तत् ॥ ४२॥
सङ्ख्यावतां जगति राम भुजोत्तमाङ्ग-
मंसं वदन्ति निकराः प्रथितोरुकीर्त्या ।
तेनाहमेव भुजतश्च किलोत्तमाङ्ग-
मित्युन्नतिं किमभजन्नु तवांसयुग्मम् ॥ ४३॥
शुद्धा प्रभा बहुगुणैरमलं स्वहार-
माच्छाद्य राम निबिडोपरिसंसरन्ती ।
अत्युन्नतादिव तवांसगिरेर्गलन्ती
सौन्दर्यहृद्यरसजा लहरी विभाति ॥ ४४॥
यत्ते नरेन्द्र सकलाननिवारिताभ्यो
बाहू जनानुपनतानवतो विपद्भ्यः ।
गम्भीरसत्त्वगुणयुक्ततया ततोऽमूं
सद्वृत्ततां नु किमवापतुरेव तौ द्वौ ॥ ४५॥
सङ्ग्राममूर्ध्नि रिपुषु स्वबलेन साकं
प्राणान्विहाय पतितेष्वथवा द्रुतेषु ।
आवेशतस्तव भुजौ विरतिं भजेते
दार्ढ्यं यतः सरलता न तयोः शिलायाः ॥ ४६॥
यावत्प्रभो न भुजयोस्तव सत्त्वमन्तः
प्राप्नोति मानमधुनास्ति तदैव तावत् ।
तस्माद्ध्रुवं दृढतया दरमप्यभिन्नौ
नुन्नौ न तेन शिथिलत्वमिमौ लभन्ते ॥ ४७॥
मध्येऽभिराम तव शैशवसम्प्रयुक्तं
पीनत्वमद्य परिगृह्य च यौवनेन ।
बाहोर्न्यधायि ननु तद्यदनुप्रवेशे
पीने तनुत्वमतनुत्वमपीनयोश्च ॥ ४८॥
सृष्ट्वा मिथस्तव भुजौ सदृशौ विधाता
भूयः परीक्षितुमनुत्तम तत्समत्वम् ।
आकर्षति स्म दृढमेव ततोऽतिदैर्घ्य-
माजानु राम समजन्यनयोस्तु नूनम् ॥ ४९॥
पारावारपयोविशोषणचणैबाणैर्निहत्याशरान्
क्लिष्टान्साधुजनान्ररक्ष कृपया धर्मञ्चयोऽस्थापयत् ।
सोऽयं श्रीजनकात्मजासहचरो निश्श्रेयसाधीश्वरः
क्षेमस्थैर्यजयानभीप्सितमथो भद्रञ्च दद्यात्सताम् ॥
इति श्रीरामसौन्दर्यलहरी समाप्ता ।
॥ शुभमस्तु ॥
- marathiश्री रामरक्षा स्तोत्र
- teluguరామరక్ష స్తోత్రం
- sanskritश्रीअनन्तानन्दाचार्यकृतं श्रीराममन्त्रराजपरम्परा स्तोत्रम्
- sanskritश्रीरामसर्वस्वस्तोत्रम्
- sanskritराम अवतार स्तोत्र
- sanskritश्रीराम भुजंग स्तोत्र
- sanskritश्रीराघवेन्द्रकरुणालहरी
- sanskritश्री राम पञ्च रत्न स्तोत्रम
- sanskritअष्टाक्षर श्रीराम मन्त्र स्तोत्रम
- sanskritश्री राम भुजङ्ग प्रयात स्तोत्रम्
- sanskritजटायु कृत श्री राम स्तोत्र
- hindiश्री राम रक्षा स्तोत्रम्
- malayalamരാമ പഞ്ചരത്ന സ്തോത്രം
- teluguరామ పంచరత్న స్తోత్రం
- tamilஇராம பஞ்சரத்ன ஸ்தோத்திரம்
Found a Mistake or Error? Report it Now