Shri Vishnu

श्रीविष्णुपूजास्तोत्रम्

Vishnupujastotram Sanskrit Lyrics

Shri Vishnu ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीविष्णुपूजास्तोत्रम् ||

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ १॥

आराधयामि मणिसन्निभमात्मविष्णुं
मायापुरे हृदयपङ्कजसन्निविष्टम् ।
श्रद्धानदीविमलचित्तजलाभिषिक्तं
नित्यं समाधिकुसुमैरपुनर्भवाय ॥ २॥

ज्योतिश्शान्तं सर्वलोकान्तरस्थमोङ्कारारव्यं योगिहृद्ध्यानगम्यम् ।
साङ्गं शक्तिं सायुधं भक्तसेव्यं सर्वाकारं विष्णुमावाहयामि ॥ ३॥

कल्पद्रुमे मणिवेदिमध्ये सिंहासने स्वर्णमयं सरत्नम् ।
विचित्रवस्त्रावृतमच्युत प्रभो गहाण लक्ष्मीधरणीसमन्वित ॥ ४॥

पादोदकं ते परिकल्पयामि पुण्यं सरित्सागरतोयनीतम् ।
पाद्यं प्रदास्ये सुमनस्समेतं गृहाण लक्ष्मीधरणीसमन्वित ॥ ५॥

ब्रह्मेन्द्ररुद्राग्निमुनीन्द्रसेव्यपादारविन्दाम्बुदसन्निभाङ्ग ।
अर्ध्यं गृहाणाश्रितपारिजात श्रिया सहाम्भोजदलायताक्ष ॥ ६॥

तीर्थोदकं गाङ्गमिदं हि विष्णो त्रिविक्रमानन्त मया निवेदितम् ।
दध्याज्ययुक्तं मधुपर्कसंज्ञं गृहाण देवेश यथाक्रमेण ॥ ७॥

आकल्पसंशोभितदिव्यगात्र राकेन्दुनीकाशमुखारविन्द ।
दत्तं मया चाचमनं गृहाण श्रीकेशवानन्त धरारिदारिन् ॥ ८॥

तीर्थोदकैः काञ्चनकुम्भसंस्थैस्सुवासितैर्देव सुमन्त्रपूतैः ।
मयार्पितं स्नानमिदं गृहाण पादाब्जनिष्ठ्यूतनदीप्रवाह ॥ ९॥

मन्दाकिनी जह्नुसुतार्य गौतमी वेण्यादितीर्थेषु च पुण्यवत्सु ।
आनीतमम्भो घनसारयुक्तं श्रीखण्डमिश्रं कुसुमादिसंश्रितम् ॥ १०॥

कामधेनोस्समुद्भूतं देवर्षिपितृतृप्तिदम् ।
पयो ददामि देवेश स्नानार्थं प्रतिगृह्यताम् ॥ ११॥

चन्द्रमण्डलसङ्काशं सर्वदेवप्रियं दधि ।
स्नानार्थं ते मया दत्तं प्रीत्यर्थं प्रतिगृह्यताम् ॥ १२॥

आज्यं सुराणामाहारमाज्यं यज्ञे प्रतिष्ठितम् ।
आज्यं पवित्रं परमं स्नानार्थं प्रतिगृह्यताम् ॥ १३॥

सर्वौषधिसमुत्पन्नं पीयूषममृतं मधु ।
स्नानार्थं ते प्रयच्छामि गृहाण परमेश्वर ॥ १४॥

इक्षुदण्डसमुद्भूत दिव्यशर्करया हरिम् ।
स्नपयामि सदा भक्त्या प्रीतो भव सुरेश्वर ॥ १५॥

स्वर्णाञ्चलं चित्रतरं सुशोभितं कौशेययुग्मं परिकल्पितं मया ।
दामोदर प्रावरणं गृहाण मायाबलप्रावृतदिव्यरूप ॥ १६॥

सुवर्णतन्तूद्भवयज्ञसूत्रं मुक्ताफलस्यूतमनेकरत्नम् ।
गृहाण तद्वत्प्रियमुत्तरीयं स्वकर्मसूत्रान्तरिणे नमोऽस्तु ॥ १७॥

कस्तूरिकाकर्दमचन्दनानि काश्मीरसंयोजितगन्धसारैः ।
विलेपनं स्वीकुरु देवदेव श्रीदेविवक्षोजविलेपनाङ्ग ॥ १८॥

श्रीगन्धं चन्दनोन्मिश्रं कर्पूरेण सुसंयुतम् ।
विलेपनं सुरश्रेष्ठ प्रीत्यर्थं प्रतिगृह्यताम् ॥ १९॥

ष्लोक २० मिस्सिन्ग्।
सेवन्तिकावकुलचम्पकपाटलाब्जैः
पुन्नागजातिकरवीररसालपुष्पैः ।
बिल्वप्रवालतुलसीदलमल्लिकाभिः
त्वां पूजयामि जगदीश्वर मे प्रसीद ॥ २१॥

आरामपुष्पाणि मनोहराणि जलाशयस्थानि सुपल्लवानि ।
सुवर्णपुष्पाणि मयार्पितानि त्वं गृह्यतां देववर प्रसीद ॥ २२॥

केयूरकटके चैव हस्ते चित्राङ्गुलीयकम् ।
माणिक्योल्लासि मकुटं कुण्डले हारशोभितम् ॥ २३॥

नाभौ नायकरत्वं च नूपुरे पादपद्मयोः ।
अङ्गुलीमुद्रिकाश्चैव गृहाण पुरुषोत्तम ॥ २४॥

श्रीखण्ठलाक्षासितकाष्ठदिव्यकर्पूरकालागुरुकर्दमानि ।
स्वचोरकाचन्दनदेवदारुमांसीनखं शैलजपूतिकाश्च ॥ २५॥

कालागुरुप्रचुरगुग्गुलुगन्धधूपै-
र्नानाविधैस्सुरभितैः खलु धूप्यमानैः ।
त्वां धूपयामि रघुपुङ्गव वासुदेव
लक्ष्मीपते मयि दयां कुरु लोकनाथ ॥ २६॥

सूर्येन्दुकोटिप्रभ वासुदेव दीपावलिं गोघृतवर्तियुक्ताम् ।
गृहाण लोकत्रयपूजिताङ्घ्रे धर्मप्रदीपान्कुरु दीप्यमानान् ॥ २७॥

स्वामिन् लक्ष्मीश देवेश भक्तलोकदयानिधे ।
ज्ञानतोऽज्ञानतो वापि भक्त्या शक्त्या समर्पितम् ॥ २८॥

मयोपनीतं नैवेद्यं पञ्चभक्ष्यसुभोजनम् ।
मक्षिका मशकाः केशाः पृथु बीजानि वल्कलाः ॥ २९॥

पाषाणमस्थिकं सर्वं कृमिकीटपिपीलिकाः ।
एतान्सवान्परित्यज्य शुचिपाकानि यानि वै ॥ ३०॥

तानि सर्वाणि गृह्णीष्व मया दत्तानि माधव ।
कदलीपनसाम्राणां सुपक्वानि फलानि च ॥ ३१॥

अन्नं चतुर्विधं सूपं सद्यस्तप्तघृतं दधि ।
मया समर्पितं सर्वं सङ्गृहाण श्रिया सह ॥ ३२॥

सौवर्णस्थालिमध्ये मणिगणखचिते गोघृताक्तागन् सुपक्वान्
भक्ष्यान्भोज्यांश्च लेह्यानपरिमितमहाचोष्यमन्नं निधाय ।
नानाशाकैरुपेतं दधिमधुसुगुडक्षीरपानीययुक्तं
ताम्बूलं चापि विष्णो प्रतिदिवसमहो मानसे कल्पयामि ॥ ३३॥

सुपूगरवण्डैश्च सुशुभ्रपर्णैस्सुशङ्खचूर्णैर्धनसारमिश्रैः ।
मयार्पितं देव दयासमुद्र ताम्बूलमेतत्प्रमुदा गृहाण ॥ ३४॥

नीराजनं स्वीकुरु देवदेव नीलोत्पलश्रीकर नीरजाक्ष ।
गृहाण देवासुरमौलिरत्नमरीचिनीराजितपादपद्म ॥ ३५॥

पुष्पाञ्जलिं स्वीकुरु पुष्कराक्ष प्रसन्नकल्पद्रुमपारिजात ।
इन्द्रादिवृन्दारकवन्द्यपाद नमोऽस्तु ते देववर प्रसीद ॥ ३६॥

यादि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिणपदेपदे ॥ ३७॥

पापोऽहं पापकर्माहं पापात्मा पापसम्भवः ।
त्राहि मां कृपया देव शरणागतवत्सल ॥ ३८॥

अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्यभावेन रक्ष रक्ष जनार्दन ॥ ३९॥

नमोस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः ॥ ४०॥

आवाहनं न जानामि च जानामि विसर्जनम् ।
पूजां चैव न जानामि क्षमस्व परमेश्वर ॥ ४१॥

यस्य स्मृत्या च नामोक्त्या तपः पूजाक्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ ४२॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥ ४३॥

अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वर ॥ ४४॥

मत्समो नास्ति पापिष्ठः त्वत्समो नास्ति पापहा ।
इति सञ्चिन्त्य देवेश यथेच्छसि तथा कुरु ॥ ४५॥

भूमौ स्खलितपदानां भूमिरेवावलम्बनम्
त्वयि जातापराधानां त्वमेव शरणं मम ॥ ४६॥

गतं पापं गतं दुःखं गतं दारिद्र्यमेव च ।
आगता सुखसम्पत्तिः पुण्याच्च तव दर्शनात् ॥ ४७॥

रूपं देहि जयं देहि यशो देहि द्विषो जहि ।
पुत्रान् देहि धनं देहि सर्वान्कामांश्च देहि मे ॥ ४८॥

इति विष्णुपूजास्तोत्रं सम्पूर्णम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download श्रीविष्णुपूजास्तोत्रम् PDF

श्रीविष्णुपूजास्तोत्रम् PDF

Leave a Comment

Join WhatsApp Channel Download App