Misc

चन्द्रचूडालाष्टकम्

Chandrachudalashtakam Sanskrit

MiscAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| चन्द्रचूडालाष्टकम् ||

श्रीगणेशाय नमः ॥

यमनियमाद्यङ्गयुतैर्योगैर्यत्पादपङ्कजं द्रष्टुम् ।
प्रयतन्ते मुनिवर्यास्तमहं प्रणमामि चन्द्रचूडालम् ॥ १॥

यमगर्वभञ्जनचणं नमतां सर्वेष्टदानधौरेयम् ।
शमदमसाधनसम्पल्लभ्यं ग्रणमामि, चन्द्रचूडालम् ॥ २॥

यं द्रोणबिल्वमुख्यैः पूजयतां द्वारि मत्तमातङ्गाः ।
कण्ठे लसन्ति विद्यास्तमहं प्रणमामि चन्द्रचूडालम् ॥ ३॥

नलिनभवपद्मनेत्रप्रमुखामरसेव्यमानपदपद्मम् ।
नतजनविद्यादानप्रवणं प्रणमामि चन्द्रचूडालम् ॥ ४॥

नुतिभिर्देववराणां मुखरीकृतमन्दिरद्वारम् ।
स्तुतमदिमवाक्ततिभिः सततं प्रणमामि चन्द्रचूडालम् ॥ ५॥

जन्तोस्तव पादपूजनकरणात्करपद्मगाः पुमर्थाः स्युः ।
मुरहरपूजितपादं तमहं प्रणमामि चन्द्रचूडालम् ॥ ६॥

चेतसि चिन्तयतां यत्पदपद्मं सत्वरं वक्त्रात् ।
निःसरति वाक्सुधामा तमहं प्रणमामि चन्द्रचूडालम् ॥ ७॥

नम्राज्ञानतमस्ततिदूरीकरणाय नेत्रलक्ष्माद्यः ।
धत्तेऽग्निचद्रसूर्यांस्तमहं प्रणमामि चन्द्रचूडालम् ॥ ८॥

अष्टकमेतत्पठतां स्पष्टतरं कष्टनाशनं पुंसाम् ।
अष्ट ददाति हि सिद्धिरिष्टसमष्टीश्च चन्द्रचूडालः ॥ ९॥

इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितं श्रीचद्रचूडालाष्टकं सम्पूर्णम् ॥

Found a Mistake or Error? Report it Now

Download चन्द्रचूडालाष्टकम् PDF

चन्द्रचूडालाष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App