॥ श्रीत्रिपुरारिस्तोत्रम् ॥
नमामोऽसुरारेस्सुरारेर्गणाग्र्यं
नमामोऽन्धकारिं मखारिं निजारेः ।
शिरो गाङ्गवारिप्रचारक्षमोऽस्य
नमामः पुरारिम् मुरारेः प्रियं तम् ॥
मुखैः पञ्चभिः पञ्चभिः पञ्चषष्ठं
त्रयीसाङ्ख्ययोगाङ्गमारण्यकानि ।
जगौ भक्तिकाण्डं हरेस्सौख्यभाण्डं
नमामः पुरारिं मुरारेः प्रियं तम् ॥
हरेरङ्घ्रितो गाङ्गवारि प्रसूतं
कपर्दे कपर्दे कपर्द्दीचकार ।
अखर्वं च गर्वं हरन् जह्नुजाया
नमामः पुरारिं मुरारेः प्रियं तम् ॥
गुरूणां गुरुर्यो मतो नारदेन
उपज्ञोऽपि शिष्यः परः पूरुषस्य ।
तृतीयं गुणं यो नियन्तुं नियन्ता ।
नामः पुरारिं मुरारेः प्रियं तम् ॥
समस्तागमा मूलमन्त्राश्च सर्वे
यतः सम्प्रसूता यतः सिद्धिमन्त्राः ।
पुराणार्णमाद्यं दशार्णं जपन्ते
नमामः पुरारिं मुरारेः प्रियं तम् ॥
सदाम्नायमाद्यं जगौ नारदाय
विकुण्ठाधिनाथादवाप्यैव पूर्वम् ।
ततः शेषतः शेषधर्मं दधार
नमामः पुरारिं मुरारेः प्रियं तम् ॥
कृपातो गतो व्यापिवैकुण्ठभाजां
समीपे ददर्श व्रजेशं रसेशम् ।
ततोऽनुगृहीतोऽखिलैभक्तिवर्यैः
नमामः पुरारिं मुरारेः प्रियं तम् ॥
स्थितो यो निदेशाय सिंहासने स्वे
मणिव्रातकीर्णे मुनिव्रातमध्ये ।
उपज्ञो गुरुर्ज्ञानदानाय लोके
नमामः पुरारिं मुरारेः प्रियं तम् ॥
व्यासेन कथितं पुण्यं त्रिपुरारेर्महास्तवम् ।
कीर्तयेच्छृणुयाद्यस्तु स मुरारेः प्रियो भवेत् ॥
- gujaratiશ્રી શિવરક્ષા સ્તોત્રમ્
- punjabiਸ਼੍ਰੀ ਸ਼ਿਵਰਕ੍ਸ਼਼ਾ ਸ੍ਤੋਤ੍ਰਮ੍
- odiaଶ୍ରୀ ଶିବରକ୍ଷା ସ୍ତୋତ୍ରମ୍
- hindiश्री शिवरक्षा स्तोत्रम्
- teluguశ్రీ శివరక్షా స్తోత్రం
- tamilஶ்ரீ ஶிவரக்ஷா ஸ்தோத்ரம்
- kannadaಶ್ರೀ ಶಿವರಕ್ಷಾ ಸ್ತೋತ್ರಂ
- malayalamശ്രീ ശിവരക്ഷാ സ്തോത്രം
- bengaliশ্রী শিবরক্ষা স্তোত্রম্
- bengaliগিরীশ স্তোত্রম্
- punjabiਗਿਰੀਸ਼ ਸ੍ਤੋਤ੍ਰਮ੍
- odiaଗିରୀଶ ସ୍ତୋତ୍ରମ୍
- sanskritगिरीश स्तोत्रम्
- gujaratiગિરીશ સ્તોત્રમ્
- tamilகி³ரீஶ ஸ்தோத்ரம்
Found a Mistake or Error? Report it Now
![Download HinduNidhi App](https://hindunidhi.com/download-hindunidhi-app.png)