|| विष्णु पंचक स्तोत्र ||
उद्यद्भानुसहस्रभास्वर- परव्योमास्पदं निर्मल-
ज्ञानानन्दघनस्वरूप- ममलज्ञानादिभिः षड्गुणैः।
जुष्टं सूरिजनाधिपं धृतरथाङ्गाब्जं सुभूषोज्ज्वलं
श्रीभूसेव्यमनन्त- भोगिनिलयं श्रीवासुदेवं भजे।
आमोदे भुवने प्रमोद उत सम्मोदे च सङ्कर्षणं
प्रद्युम्नं च तथाऽनिरुद्धमपि तान् सृष्टिस्थिती चाप्ययम्।
कुर्वाणान् मतिमुख्यषड्गुणवरै- र्युक्तांस्त्रियुग्मात्मकै-
र्व्यूहाधिष्ठितवासुदेवमपि तं क्षीराब्धिनाथं भजे।
वेदान्वेषणमन्दराद्रिभरण- क्ष्मोद्धारणस्वाश्रित-
प्रह्लादावनभूमिभिक्षण- जगद्विक्रान्तयो यत्क्रियाः।
दुष्टक्षत्रनिबर्हणं दशमुखाद्युन्मूलनं कर्षणं
कालिन्द्या अतिपापकंसनिधनं यत्क्रीडितं तं नुमः।
यो देवादिचतुर्विधेष्टजनिषु ब्रह्माण्डकोशान्तरे
सम्भक्तेषु चराचरेषु निवसन्नास्ते सदाऽन्तर्बहिः।
विष्णुं तं निखिलेष्वणुष्वणुतरं भूयस्सु भूयस्तरं
स्वाङ्गुष्ठप्रमितं च योगिहृदयेष्वासीनमीशं भजे।
श्रीरङ्गस्थलवेङ्कटाद्रि- करिगिर्यादौ शतेऽष्टोत्तरे
स्थाने ग्रामनिकेतनेषु च सदा सान्निध्यमासेदुषे।
अर्चारूपिणमर्च- काभिमतितः स्वीकुर्वते विग्रहं
पूजां चाखिलवाञ्छितान् वितरते श्रीशाय तस्मै नमः।
प्रातर्विष्णोः परत्वादिपञ्चकस्तुतिमुत्तमाम्।
पठन् प्राप्नोति भगवद्भक्तिं वरदनिर्मिताम्।
- hindiश्री हरि स्तोत्रम्
- hindiबृहस्पति स्तोत्रम् पाठ की विधि और लाभ
- teluguGovinda Namalu Telugu – శ్రీ గోవింద నామాలు
- sanskritश्री गदाधर स्तोत्रम् (वराह पुराणे)
- sanskritश्री अनंत पद्मनाभ मंगल स्तोत्र
- teluguఅపమార్జన స్తోత్రం
- sanskritअम्बरीषकतं विष्णुस्तोत्रम्
- sanskritतीर्थस्नानफलप्रदम् श्रीविष्णुस्तोत्रं नरसिंहपुराणे
- sanskritश्रीविष्णुपूजास्तोत्रम्
- sanskritमत्स्यस्तोत्रम्
- sanskritविष्णुलहरी (करुणालहरी)
- sanskritप्रहलाद कृत नृसिंह स्तोत्र
- sanskritश्री लक्ष्मी नरसिंह करावलंबा स्तोत्रम
- hindiलक्ष्मी नरसिंह करावलंबा स्तोत्रम लाभ सहित
- malayalamവിഷ്ണു പഞ്ചക സ്തോത്രം
Found a Mistake or Error? Report it Now


