|| श्री शिव स्तवराजः (बाणेश्वर कवच सहित) ||
(ब्रह्मवैवर्त पुराणान्तर्गतम्)
ओं नमो महादेवाय ।
[– कवचं –]
बाणासुर उवाच ।
महेश्वर महाभाग कवचं यत्प्रकाशितम् ।
संसारपावनं नाम कृपया कथय प्रभो ॥ ४३ ॥
महेश्वर उवाच ।
शृणु वक्ष्यामि हे वत्स कवचं परमाद्भुतम् ।
अहं तुभ्यं प्रदास्यामि गोपनीयं सुदुर्लभम् ॥ ४४ ॥
पुरा दुर्वाससे दत्तं त्रैलोक्यविजयाय च ।
ममैवेदं च कवचं भक्त्या यो धारयेत्सुधीः ॥ ४५ ॥
जेतुं शक्नोति त्रैलोक्यं भगवन्नवलीलया ।
संसारपावनस्यास्य कवचस्य प्रजापतिः ॥ ४६ ॥
ऋषिश्छन्दश्च गायत्री देवोऽहं च महेश्वरः ।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ४७ ॥
पञ्चलक्षजपेनैव सिद्धिदं कवचं भवेत् ।
यो भवेत्सिद्धकवचो मम तुल्यो भवेद्भुवि ।
तेजसा सिद्धियोगेन तपसा विक्रमेण च ॥ ४८ ॥
शम्भुर्मे मस्तकं पातु मुखं पातु महेश्वरः ।
दन्तपङ्क्तिं नीलकण्ठोऽप्यधरोष्ठं हरः स्वयम् ॥ ४९ ॥
कण्ठं पातु चन्द्रचूडः स्कन्धौ वृषभवाहनः ।
वक्षःस्थलं नीलकण्ठः पातु पृष्ठं दिगम्बरः ॥ ५० ॥
सर्वाङ्गं पातु विश्वेशः सर्वदिक्षु च सर्वदा ।
स्वप्ने जागरणे चैव स्थाणुर्मे पातु सन्ततम् ॥ ५१ ॥
इति ते कथितं बाण कवचं परमाद्भुतम् ।
यस्मै कस्मै न दातव्यं गोपनीयं प्रयत्नतः ॥ ५२ ॥
यत्फलं सर्वतीर्थानां स्नानेन लभते नरः ।
तत्फलं लभते नूनं कवचस्यैव धारणात् ॥ ५३ ॥
इदं कवचमज्ञात्वा भजेन्मां यः सुमन्दधीः ।
शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥ ५४ ॥
सौतिरुवाच ।
इदं च कवचं प्रोक्तं स्तोत्रम् च शृणु शौनक ।
मन्त्रराजः कल्पतरुर्वसिष्ठो दत्तवान्पुरा ॥ ५५ ॥
ओं नमः शिवाय ।
[– स्तवराजः –]
बाणासुर उवाच ।
वन्दे सुराणां सारं च सुरेशं नीललोहितम् ।
योगीश्वरं योगबीजं योगिनां च गुरोर्गुरुम् ॥ ५६ ॥
ज्ञानानन्दं ज्ञानरूपं ज्ञानबीजं सनातनम् ।
तपसां फलदातारं दातारं सर्वसम्पदाम् ॥ ५७ ॥
तपोरूपं तपोबीजं तपोधनधनं वरम् ।
वरं वरेण्यं वरदमीड्यं सिद्धगणैर्वरैः ॥ ५८ ॥
कारणं भुक्तिमुक्तीनां नरकार्णवतारणम् ।
आशुतोषं प्रसन्नास्यं करुणामयसागरम् ॥ ५९ ॥
हिमचन्दन कुन्देन्दु कुमुदांभोज सन्निभम् ।
ब्रह्मज्योतिः स्वरूपं च भक्तानुग्रहविग्रहम् ॥ ६० ॥
विषयाणां विभेदेन बिभ्रतं बहुरूपकम् ।
जलरूपमग्निरूप-माकाशरूपमीश्वरम् ॥ ६१ ॥
वायुरूपं चन्द्ररूपं सूर्यरूपं महत्प्रभुं ।
आत्मनः स्वपदं दातुं समर्थमवलीलया ॥ ६२ ॥
भक्तजीवनमीशं च भक्तानुग्रहकारकम् ।
वेदा न शक्ता यं स्तोतुं किमहं स्तौमि तं प्रभुम् ॥ ६३ ॥
अपरिच्छिन्नमीशान-महोवाङ्मनसोः परम् ।
व्याघ्रचर्माम्बरधरं वृषभस्थं दिगम्बरम् ।
त्रिशूलपट्टिशधरं सस्मितं चन्द्रशेखरम् ॥ ६४ ॥
इत्युक्त्वा स्तवराजेन नित्यं बाणः सुसम्यतः ।
प्राणमच्छङ्करं भक्त्या दुर्वासाश्च मुनीश्वरः ॥ ६५ ॥
इदं दत्तं वसिष्ठेन गन्धर्वाय पुरा मुने ।
कथितं च महास्तोत्रम् शूलिनः परमाद्भुतम् ॥ ६६ ॥
इदं स्तोत्रम् महापुण्यं पठेद्भक्त्या च यो नरः ।
स्नानस्य सर्वतीर्थानां फलमाप्नोति निश्चितम् ॥ ६७ ॥
अपुत्रो लभते पुत्रं वर्षमेकं शृणोति यः ।
सम्यतश्च हविष्याशी प्रणम्य शङ्करं गुरुम् ॥ ६८ ॥
गलत्कुष्ठी महाशूली वर्षमेकं शृणोति यः ।
अवश्यं मुच्यते रोगाद्व्यासवाक्यमिति श्रुतम् ॥ ६९ ॥
कारागारेऽपि बद्धो यो नैव प्राप्नोति निर्वृतिम् ।
स्तोत्रम् श्रुत्वा मासमेकं मुच्यते बन्धनाद्धृवम् ॥ ७० ॥
भ्रष्टराज्यो लभेद्राज्यं भक्त्यामासं शृणोति यः ।
मासं श्रुत्वा सम्यतश्च लभेद्भ्रष्टधनो धनम् ॥ ७१ ॥
यक्ष्मग्रस्तो वर्षमेकमास्तिको यः शृणोति चेत् ।
निश्चितं मुच्यते रोगाच्छङ्करस्य प्रसादतः ॥ ७२ ॥
यः शृणोति सदा भक्त्या स्तवराजमिमं द्विजः ।
तस्यासाध्यं त्रिभुवने नास्ति किञ्चिच्च शौनक ॥ ७३ ॥
कदाचिद्बन्धुविच्छेदो न भवेत्तस्य भारते ।
अचलं परमैश्वर्यं लभते नात्र सम्शयः ॥ ७४ ॥
सुसम्यतोऽति भक्त्या च मासमेकं शृणोति यः ।
अभार्यो लभते भार्यां सुविनीतां सतीं वराम् ॥ ७५ ॥
महामूर्खश्च दुर्मेधा मासमेकं शृणोति यः ।
बुद्धिं विद्यां च लभते गुरूपदेशमात्रतः ॥ ७६ ॥
कर्मदुःखी दरिद्रश्च मासं भक्त्या शृणोति यः ।
ध्रुवं वित्तं भवेत्तस्य शङ्करस्य प्रसादतः ॥ ७७ ॥
इह लोके सुखं भुक्त्वा कृत्वाकीर्तिं सुदुर्लभाम् ।
नाना प्रकार धर्मं च यात्यन्ते शङ्करालयम् ॥ ७८ ॥
पार्षदप्रवरो भूत्वा सेवते तत्र शङ्करम् ।
यः शृणोति त्रिसन्ध्यं च नित्यं स्तोत्रमनुत्तमम् ॥ ७९ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे ब्रह्मखण्डे सौतिशौनकसंवादे शङ्करस्तोत्र कथनं नाम एकोनविम्शोध्यायः ॥
Found a Mistake or Error? Report it Now