आर्तत्राणपरायणाष्टकम् PDF संस्कृत
Download PDF of Arta Trana Parayana Ashtakam Sanskrit
Misc ✦ Ashtakam (अष्टकम संग्रह) ✦ संस्कृत
आर्तत्राणपरायणाष्टकम् संस्कृत Lyrics
|| आर्तत्राणपरायणाष्टकम् ||
प्रह्लाद प्रभुतास्ति चेत्तव हरे सर्वत्र मे दर्शयन्
स्तम्भे चैव हिरण्यकश्यपुपुरस्तत्राविरासीद्धरिः ।
वक्षस्तस्यविदारयन्निजनखैर्वात्सल्यमावेदय-
न्नार्तत्राणपरायणस्स भगवान्नारायणो मे गतिः ॥ १ ॥
श्रीरामाऽर्त विभीषणोयमनघो रक्षो भयादागतः
सुग्रीवानय पालयैन मधुना पौलस्त्यमेवागतम् ।
इत्युक्त्वाऽभयमस्य सर्वविदितो यो राघवो दत्तवा-
नार्तत्राणपरायणस्स भगवान्नारायणो मे गतिः ॥ २ ॥
नक्रग्रस्तपदं समुद्धृतकरं ब्रह्मादिदेवासुराः
रक्षन्तीत्यनुदीनवाक्यकरुणं देवेषु शक्तेषु यः ।
मा भैषीति ररक्ष नक्रवदनाच्चक्रायुधश्श्रीधरो
आर्तत्राणपरायणस्स भगवान्नारायणो मे गतिः ॥ ३ ॥
हा कृष्णाच्युत हा कृपाजलनिधे हा पाण्डवानां सखे
क्वासि क्वासि सुयोधनादपहृतां हा रक्ष मामातुरां ।
इत्युक्तोऽक्षयवस्त्ररक्षिततनुः योऽपालयद्द्रौपदी-
मार्तत्राणपरायणस्स भगवान्नारायणो मे गतिः ॥ ४ ॥
यत्पादाब्जनखोदकं त्रिजगतां पापौघसम्शोषणं
यन्नामामृतपूरकं च तपतां संसारसन्ताडनम् ।
पाषाणोपि यदङ्घ्रिपद्मरजसा शापादिशर्मोचित-
स्त्वार्तत्राणपरायणस्स भगवान्नारायणो मे गतिः ॥ ५ ॥
यन्नामस्मरणाद्विषादसहितो विप्रः पुराऽजामिलः
प्रागान्मुक्तिमशोषितासु निचयः पापौघदावानलात् ।
एतद्भागवतोत्तमाननृपती प्राप्ताम्बरीषाऽर्जुना-
वार्तत्राणपरायणस्स भगवान्नारायणो मे गतिः ॥ ६ ॥
नाधीत श्रुतयो न सत्यमतयो घोषस्थिता गोपिकाः
जारिण्यः कुलजातधर्मविमुखा अध्यात्मभावं ययुः ।
भक्त्या यस्य तथा विधाश्च सुगमास्तस्याधियस्समता
आर्तत्राणपरायणस्स भगवान्नारायणो मे गतिः ॥ ७ ॥
कावेरीहृदयाभिरामपुलिने पुण्ये जगन्मण्डले
चन्द्रां भोजवती तटी परिसरे धात्रा समाराधिते ।
श्रीरङ्गे भुजगेन्द्रभोगशयने शेते सदा यः पुमा-
नार्तत्राणपरायणस्स भगवान्नारायणो मे गतिः ॥ ८ ॥
यो रक्षद्वसनादिभिर्विरहितं विप्रं कुचेलाधिपं
दासं दीन चकोर पालनविधौ श्रीशङ्खचक्रोज्ज्वलः ।
तज्जीर्णाम्बरमुष्टिमेयपृथुकं योऽऽदाय भुक्त्वा क्षणा-
दार्तत्राणपरायणस्स भगवान्नारायणो मे गतिः ॥ ९ ॥
इति श्रीमद्देशिकाचार्य विरचितं आर्तत्राणपरायणाष्टकम् ॥
Join HinduNidhi WhatsApp Channel
Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!
Join Nowआर्तत्राणपरायणाष्टकम्

READ
आर्तत्राणपरायणाष्टकम्
on HinduNidhi Android App
DOWNLOAD ONCE, READ ANYTIME
Your PDF download will start in 15 seconds
CLOSE THIS
