कात्यायनी अष्टकम
|| कात्यायनी अष्टकम (Katyayani Ashtakam PDF) || श्री गणेशाय नमः । अवर्षिसंज्ञं पुरमस्ति लोके कात्यायनी तत्र विराजते या । प्रसाददा या प्रतिभा तदीया सा छत्रपुर्यां जयतीह गेया ॥ १॥ त्वमस्य भिन्नैव विभासि तस्यास्तेजस्विनी दीपजदीपकल्पा । कात्यायनी स्वाश्रितदुःखहर्त्री पवित्रगात्री मतिमानदात्री ॥ २॥ ब्रह्मोरुवेतालकसिंहदाढोसुभैरवैरग्निगणाभिधेन । संसेव्यमाना गणपत्यभिख्या युजा च देवि स्वगणैरिहासि ॥ ३॥ गोत्रेषु जातैर्जमदग्निभारद्वाजाऽत्रिसत्काश्यपकौशिकानाम् । कौण्डिन्यवत्सान्वयजैश्च…