श्रीभगवन्नारायणाचार्याष्टकम्
|| श्रीभगवन्नारायणाचार्याष्टकम् || आनन्दभाष्यवेत्तारं विशिष्टाद्वैतवादिनम् । द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ १॥ दीक्षितं धर्मरक्षायां भक्तिसाधनसंयुतम् । द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ २॥ असन्मार्गान्निवार्याथ सन्मार्गस्य च दर्शकम् । द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ ३॥ भवरोगाकुलानां च राममन्त्रौषधिप्रदम् । द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ ४॥ मुद्रामालोर्ध्वपुण्ड्रादिधारकै सिद्धसेवितम् । द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥ ५॥ रामानन्दमतासक्तं योगीन्द्रं रामचिन्तकम् । द्वाराचार्यमहं वन्दे श्रीभगवन्नारायणम् ॥…