शत्रुसंहारकमेकदन्तस्तोत्रम् अथवा गजवक्त्रस्तुतिः
|| शत्रुसंहारकमेकदन्तस्तोत्रम् अथवा गजवक्त्रस्तुतिः || श्रीगणेशाय नमः । सनत्कुमार उवाच । शृणु शम्भ्वादयो देवा मदासुरविनाशने । उपायं कथयिष्यामि तत्कुरुध्वं मुनीश्वराः ॥ १॥ गणेशं पूजयध्वं वै यूयं सर्वे समावृताः । स बाह्यान्तरसंस्थो वै हनिष्यति मदासुरम् ॥ २॥ सनत्कुमारवाक्यं तच्छ्रुत्वा देवर्षिसत्तमाः । ऊचुस्तं प्रणिपत्यादौ भक्तिनम्रात्मकन्धराः ॥ ३॥ देवर्षय ऊचुः । केनोपायेन देवेशं गणेशं मुनिसत्तमम् । पूजयामो विशेषेण…