श्रीशरवणभवमानसपूजास्तोत्रम्
|| श्रीशरवणभवमानसपूजास्तोत्रम् || ॐ श्रीगणेशाय नमः । गुकारो ह्याख्याति प्रबलमनिवार्यं किल तमो हकारो हानिं च प्रथयतितरामेव जगति । अतो मोहान्धत्वं शिथिलयति यन्नाम गुह इ- त्यमुं देवं ध्यायाम्यभिलषितसन्धाननिपुणम् ॥ १॥ समाश्लिष्टं वल्ल्या समुपघटितं बाहुविटपैः स्वमूलायातानां समुचितफलप्रापणचणम् । स्वसेवानिष्ठानां सततमपि सौख्योपगमकं सदा ध्यायाम्येनं कमपि तु गुहाख्यं विटपिनम् ॥ २॥ सुराणां सङ्घातैस्समुपगतैः सान्द्रकुतुकैः समाराध्य स्वामिन् भज विहितमावाहनमिदम् ।…