मुरलीनादधारास्तोत्रम्
|| मुरलीनादधारास्तोत्रम् || सान्द्राम्भोधरनीलबालवपुषा गोगोपगोपीमनः- कान्तः कान्तकरारविन्दविलसद्वंशीविनोदप्रियः । गोविन्दः कमनीयपीतवसनः गोपालबालावृतः कालिन्दीतटचारिदिव्यचरणः पायाद्यशोदाशिशुः ॥ १॥ देयाच्छ्रेयांसि भूयांस्यखिलजनमनोमोहनानन्दनादः मुग्धस्मेरास्यपद्मारुणशुभकलिकोपात्तमैत्रीविनोदः । नानारत्नप्रदीप्तो मणिमयवलयावीतहस्ताब्जमध्ये भ्राजन्नालोलताम्राङ्गुलिमिलितवपुर्वेणुखण्डो मुरारेः ॥ २॥ पीतं वासो वसानः मणिमयमकुटाबद्धपिञ्छावचूडः वृन्दारण्ये कदम्बद्रुमगहनगतस्सान्द्रनीलाम्बुदाभः । नानारत्नांशुचित्रीकृतधृततपनीयाङ्गभूषासहस्रः स्मेरास्ये संयुयुक्षुर्मधुरसमुरलीं पातु देवो मुकुन्दः ॥ ३॥ आलोलारुणपल्लवाङ्गुलिमिलद्रन्ध्रो मणिप्रोज्ज्वलो मर्त्यामर्त्यसमाजकर्षणकरस्सम्मोहनो देहिनाम् । मन्दं मन्दममन्दमोदसरसप्रेक्षाक्षणोद्भावितो/त्थावितो भूयादस्मदभीष्टपूरणविधौ वेणुर्यदूनां पतेः ॥ ४॥ सम्मूर्छद्वेणुनादामृतसरसि सुखं मज्जता…