ऋणहर गणेश स्तोत्र
|| ऋणहर गणेश स्तोत्र || ॐ सिन्दूरवर्णं द्विभुजं गणेशं लम्बोदरं पद्मदले निविष्टम्। ब्रह्मादिदेवैः परिसेव्यमानं सिद्धैर्युतं तं प्रणमामि देवम्।। सृष्ट्यादौ ब्रह्मणा सम्यक् पूजितः फलसिद्धये। सदैव पार्वतीपुत्रो ऋणनाशं करोतु मे।। त्रिपुरस्य वधात् पूर्वं शम्भुना सम्यगर्चितः। सदैव पार्वतीपुत्रो ऋणनाशं करोतु मे।। हिरण्यकश्यप्वादीनां वधार्थे विष्णुनार्चितः। सदैव पार्वतीपुत्रो ऋणनाशं करोतु मे।। महिषस्य वधे देव्या गणनाथः प्रपूजितः। सदैव पार्वतीपुत्रो ऋणनाशं करोतु…