Shri Ganesh

नारदमुनिकृता गजाननस्तुतिः

Gajananastutih Naradamunikrrita Sanskrit

Shri GaneshStuti (स्तुति संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| नारदमुनिकृता गजाननस्तुतिः ||

॥ श्रीगणेशाय नमः ॥

देवर्षय ऊचुः ।
गजानन नमस्तुभ्यं सर्वेषां बीजरूपिणे ।
निर्बीजाय गणेशाय विघ्नानां पतये नमः ॥ ३१॥

अनन्तायैकदन्ताय हेरम्बाय नमो नमः ।
चतुर्भुजाय सर्वेश सर्वपूज्याय ते नमः ॥ ३२॥

सर्वसिद्धिप्रदात्रे च सुरासुरमयाय ते ।
सिद्धिबुद्धिप्रचालाय सिद्धिबुद्धिपते नमः ॥ ३३॥

अगुणाय गुणेशाय गुणरूपाय गौणिने ।
मायामयाय मायायाश्चालकाय परात्मने ॥ ३४॥

सर्वादये महोदार पराक्रमपराय ते ।
स्वानन्दवासिने तेऽस्तु नमः स्वानन्ददायिने ॥ ३५॥

योगाकाराय योगानां स्वामिने शान्तिदायिने ।
ब्रह्मणस्पतये तेऽस्तु ब्रह्मणां ब्रह्मणे नमः ॥ ३६॥

अनाधाराय सर्वेषामाधाराय नमो नमः ।
आदिमध्यान्तहीनायादिमध्यान्ताय ते नमः ॥ ३७॥

परश्वङ्कुशहस्ताय त्रिनेत्राय महोदर ।
नमो मूषकवाहाय मूषकध्वजिने नमः ॥ ३८॥

नमो नमस्ते सकलाय धाम्ने सदा सुखानन्दकराय पात्रे ।
जगत् सुस्रष्ट्रे सकलस्य हन्त्रे गुणैर्विहीनाय गणाधिपाय ॥ ३९॥

विदेहरूपाय पराय भोक्त्रे बोधेन हीनाय सुसाङ्ख्यकाय ।
सदा स्वबुद्धौ परसंस्थिताय गजात्मरूपाय नमो नमस्ते ॥ ४०॥

बोधहीनं च यद्ब्रह्म तदेव गजवाचकम् ।
गजचिह्नेन योगीन्द्राः पश्यन्ति त्वां गजाननम् ॥ ४१॥

यथा मुखस्य चिह्नेन ज्ञायन्ते मानवादयः ।
तथा विदेहचिह्नेन ज्ञायसे त्वं तु योगिभिः ॥ ४२॥

विदेहं गजरूपं यत्तेन ते मुखमुच्यते ।
गणेशस्य प्राप्तिकरं गजानन नमोस्तु ते ॥ ४३॥

किं स्तवाम गणाधीश यत्र वेदादिकास्तथा ।
योगिनः शान्तिमापन्नास्तं वयं शरणं गताः ॥ ४४॥

स्तुत्वा विघ्नेश्वरं ते तु प्रणेमुस्तं पुनः पुनः ।
तानुवाच गणाधीशो हर्षयन् सर्वभाववित् ॥ ४५॥

(फलश्रुतिः)
गजानन उवाच ।
स्तोत्रं भवत्कृतं देवा ईश्वरा मुनयश्च मे ।
सर्वसिद्धिप्रदं पूर्णं भविष्यति निरन्तरम् ॥ ४६॥

यद्यदिच्छति तत्तद्वै दास्यामि भक्तियन्त्रितः ।
पठनाच्छ्रवणादस्य सन्तुष्टोऽहं विशेषतः ॥ ४७॥

वरदोऽहं वृणुत वो दास्यामि वरमीप्सितम् ।
तपसा भक्तिभावेन स्तोत्रेण तुष्टिमागतः ॥ ४८॥

इति नारदमुनिकृता गजाननस्तुतिः सम्पूर्णा ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download नारदमुनिकृता गजाननस्तुतिः PDF

नारदमुनिकृता गजाननस्तुतिः PDF

Leave a Comment

Join WhatsApp Channel Download App