Download HinduNidhi App
Ganga Maa

श्री गंगा स्तोत्रम्

Ganga Stotram Hindi

Ganga MaaStotram (स्तोत्र निधि)हिन्दी
Share This

॥ श्री गंगा स्तोत्रम् ॥

देवि! सुरेश्वरि! भगवति!
गंगे त्रिभुवनतारिणि तरलतरंगे ।
शंकरमौलिविहारिणि विमले मम
मतिरास्तां तव पदकमले ॥

भागीरथिसुखदायिनि मातस्तव
जलमहिमा निगमे ख्यातः ।
नाहं जाने तव महिमानं
पाहि कृपामयि मामज्ञानम् ॥

हरिपदपाद्यतरंगिणि गंगे
हिमविधुमुक्ताधवलतरंगे ।
दूरीकुरु मम दुष्कृतिभारं
कुरु कृपया भवसागरपारम् ॥

तव जलममलं येन निपीतं
परमपदं खलु तेन गृहीतम् ।
मातर्गंगे त्वयि यो भक्तः किल
तं द्रष्टुं न यमः शक्तः ॥

पतितोद्धारिणि जाह्नवि गंगे
खंडित गिरिवरमंडित भंगे ।
भीष्मजननि हे मुनिवरकन्ये
पतितनिवारिणि त्रिभुवन धन्ये ॥

कल्पलतामिव फलदां लोके
प्रणमति यस्त्वां न पतति शोके ।
पारावारविहारिणि गंगे
विमुखयुवति कृततरलापांगे ॥

तव चेन्मातः स्रोतः स्नातः
पुनरपि जठरे सोपि न जातः ।
नरकनिवारिणि जाह्नवि गंगे
कलुषविनाशिनि महिमोत्तुंगे ॥

पुनरसदंगे पुण्यतरंगे जय
जय जाह्नवि करुणापांगे ।
इंद्रमुकुटमणिराजितचरणे
सुखदे शुभदे भृत्यशरण्ये ॥

रोगं शोकं तापं पापं हर
मे भगवति कुमतिकलापम् ।
त्रिभुवनसारे वसुधाहारे त्वमसि
गतिर्मम खलु संसारे ॥

अलकानंदे परमानंदे कुरु
करुणामयि कातरवंद्ये ।
तव तटनिकटे यस्य निवासः
खलु वैकुंठे तस्य निवासः ॥

वरमिह नीरे कमठो मीनः
किं वा तीरे शरटः क्षीणः ।
अथवाश्वपचो मलिनो दीनस्तव
न हि दूरे नृपतिकुलीनः ॥

भो भुवनेश्वरि पुण्ये धन्ये
देवि द्रवमयि मुनिवरकन्ये ।
गंगास्तवमिमममलं नित्यं पठति
नरो यः स जयति सत्यम् ॥

येषां हृदये गंगा भक्तिस्तेषां
भवति सदा सुखमुक्तिः ।
मधुराकंता पंझटिकाभिः
परमानंदकलितललिताभिः ॥

गंगास्तोत्रमिदं भवसारं
वांछितफलदं विमलं सारम् ।
शंकरसेवक शंकर रचितं
पठति सुखीः तव इति च समाप्तः ॥

Read in More Languages:

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download श्री गंगा स्तोत्रम् PDF

श्री गंगा स्तोत्रम् PDF

Leave a Comment