Download HinduNidhi App
Misc

केतु कवच

Ketu Kavacham Hindi

MiscKavach (कवच संग्रह)हिन्दी
Share This

|| केतु कवच ||

ध्यानम्

धूम्रवर्णं ध्वजाकारं
द्विभुजं वरदांगदम्
चित्राम्बरधरं केतुं
चित्रगन्धानुलेपनम् ।
वैडूर्याभरणं चैव
वैडूर्य मकुटं फणिम्
चित्रंकफाधिकरसं
मेरुं चैवाप्रदक्षिणम् ॥

केतुं करालवदनं
चित्रवर्णं किरीटिनम् ।
प्रणमामि सदा देवं
ध्वजाकारं ग्रहेश्वरम् ॥ १ ॥

कवच

चित्रवर्णः शिरः पातु
फालं मे धूम्रवर्णकः ।
पातु नेत्रे पिङ्गलाक्षः
श्रुती मे रक्तलोचनः ॥ २ ॥

घ्राणं पातु सुवर्णाभो
द्विभुजं सिंहिकासुतः ।
पातु कण्ठं च मे केतुः
स्कन्धौ पातु ग्रहाधिपः ॥ ३ ॥

बाहू पातु सुरश्रेष्ठः
कुक्षिं पातु महोरगः ।
सिंहासनः कटिं पातु
मध्यं पातु महासुरः ॥ ४ ॥

ऊरू पातु महाशीर्षो
जानुनी च प्रकोपनः ।
पातु पादौ च मे रौद्रः
सर्वाङ्गं रविमर्दकः ॥ ५ ॥

इदं च कवचं
दिव्यं सर्वरोगविनाशनम् ।
सर्वदुःखविनाशं च
सत्यमेतन्नसंशयः ॥ ६ ॥

Found a Mistake or Error? Report it Now

Download HinduNidhi App

Download केतु कवच PDF

केतु कवच PDF

Leave a Comment