सूर्यग्रहण शान्ति श्लोकाः

|| सूर्यग्रहण शान्ति श्लोकाः || शान्ति श्लोकाः – इन्द्रोऽनलो दण्डधरश्च रक्षः प्राचेतसो वायु कुबेर शर्वाः । मज्जन्म ऋक्षे मम राशि संस्थे सूर्योपरागं शमयन्तु सर्वे ॥ ग्रहण पीडा परिहार श्लोकाः – योऽसौ वज्रधरो देवः आदित्यानां प्रभुर्मतः । सहस्रनयनः शक्रः ग्रहपीडां व्यपोहतु ॥ १ मुखं यः सर्वदेवानां सप्तार्चिरमितद्युतिः । चन्द्रसूर्योपरागोत्थां अग्निः पीडां व्यपोहतु ॥ २ यः कर्मसाक्षी…

ब्रह्म स्तोत्रम् (देव कृतम्)

|| ब्रह्म स्तोत्रम् (देव कृतम्) || देवा ऊचुः । ब्रह्मणे ब्रह्मविज्ञानदुग्धोदधि विधायिने । ब्रह्मतत्त्वदिदृक्षूणां ब्रह्मदाय नमो नमः ॥ १ ॥ कष्टसंसारमग्नानां संसारोत्तारहेतवे । साक्षिणे सर्वभूतानां साक्षिहीनाय ते नमः ॥ २ ॥ सर्वधात्रे विधात्रे च सर्वद्वन्द्वापहारिणे । सर्वावस्थासु सर्वेषां साक्षिणे वै नमो नमः ॥ ३ ॥ परात्परविहीनाय पराय परमेष्ठिने । परिज्ञानवतामात्तस्वरूपाय नमो नमः ॥ ४ ॥…

अग्नि स्तोत्रम्

 || अग्नि स्तोत्रम् || शान्तिरुवाच । ओं नमः सर्वभूतानां साधनाय महात्मने । एकद्विपञ्चधिष्ट्याय राजसूये षडात्मने ॥ १ ॥ नमः समस्तदेवानां वृत्तिदाय सुवर्चसे । शुक्ररूपाय जगतामशेषाणां स्थितिप्रदः ॥ २ ॥ त्वं मुखं सर्वदेवानां त्वयात्तुं भगवन्हविः । प्रीणयत्यखिलान् देवान् त्वत्प्राणाः सर्वदेवताः ॥ ३ ॥ हुतं हविस्त्वय्यमलमेधत्वमुपगच्छति । ततश्च जलरूपेण परिणाममुपैति यत् ॥ ४ ॥ तेनाखिलौषधीजन्म भवत्यनिलसारथे ।…

तुङ्गभद्रा स्तुतिः

|| तुङ्गभद्रा स्तुतिः || श्रीविभाण्डक उवाच । वराहदेहसम्भूते गिरिजे पापभञ्जिनि । दर्शनान्मुक्तिदे देवि महापातकिनामपि ॥ १ ॥ वाग्देवी त्वं महालक्ष्मीः गिरिजासि शची तथा । प्रभा सूर्यस्य देवेशि मरीचिस्त्वं कलानिधेः ॥ २ ॥ पर्जन्यस्य यथा विद्युद्विष्णोर्माया त्वमेव हि । तृणगुल्मलतावृक्षाः सिद्धा देवा उदीरिताः ॥ ३ ॥ दृष्टा स्पृष्टा तथा पीता वन्दिता चावगाहिता । मुक्तिदे पापिनां देवि…

अश्विनी देवता स्तोत्रम्

|| अश्विनी देवता स्तोत्रम् || प्रपूर्वगौ पूर्वजौ चित्रभानू गिरावाशंसामि तपसा ह्यनन्तौ। दिव्यौ सुपर्णौ विरजौ विमाना- -वधिक्षिपन्तौ भुवनानि विश्वा ॥ १ हिरण्मयौ शकुनी साम्परायौ नासत्यदस्रौ सुनसौ वैजयन्तौ। शुक्लं वयन्तौ तरसा सुवेमा- -वधिष्ययन्तावसितं विवस्वतः ॥ २ ग्रस्तां सुपर्णस्य बलेन वर्तिका- -ममुञ्चतामश्विनौ सौभगाय। तावत् सुवृत्तावनमन्त मायया वसत्तमा गा अरुणा उदावहन् ॥ ३ षष्टिश्च गावस्त्रिशताश्च धेनव एकं वत्सं सुवते…

त्रिवेणी स्तोत्रम्

|| त्रिवेणी स्तोत्रम् || मुक्तामयालङ्कृतमुद्रवेणी भक्ताभयत्राणसुबद्धवेणी । मत्तालिगुञ्जन्मकरन्दवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ १ ॥ लोकत्रयैश्वर्यनिदानवेणी तापत्रयोच्चाटनबद्धवेणी । धर्मार्थकामाकलनैकवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ २ ॥ मुक्ताङ्गनामोहनसिद्धवेणी भक्तान्तरानन्दसुबोधवेणी । वृत्त्यन्तरोद्वेगविवेकवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ ३ ॥ दुग्धोदधिस्फूर्जसुभद्रवेणी नीलाभ्रशोभाललिता च वेणी । स्वर्णप्रभाभासुरमध्यवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥ ४ ॥ विश्वेश्वरोत्तुङ्गकपर्दिवेणी विरिञ्चिविष्णुप्रणतैकवेणी । त्रयीपुराणा सुरसार्धवेणी श्रीमत्प्रयागे जयति त्रिवेणी ॥…

धर्मदेवता स्तोत्रम् (वराहपुराणे)

|| धर्मदेवता स्तोत्रम् (वराहपुराणे) || देवा ऊचुः । नमोऽस्तु शशिसङ्काश नमस्ते जगतः पते । नमोऽस्तु देवरूपाय स्वर्गमार्गप्रदर्शक । कर्ममार्गस्वरूपाय सर्वगाय नमो नमः ॥ १ ॥ त्वयेयं पाल्यते पृथ्वी त्रैलोक्यं च त्वयैव हि । जनस्तपस्तथा सत्यं त्वया सर्वं तु पाल्यते ॥ २ ॥ न त्वया रहितं किञ्चिज्जगत्स्थावरजङ्गमम् । विद्यते त्वद्विहीनं तु सद्यो नश्यति वै जगत् ॥…

कार्तवीर्यार्जुन स्तोत्रम्

|| कार्तवीर्यार्जुन स्तोत्रम् || स्मरण – अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् । दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुणः ॥ न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः । यज्ञदानतपोयोगैः श्रुतवीर्यदयादिभिः ॥ पञ्चाशीतिसहस्राणि ह्यव्याहतबलः समाः । अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्वसु ॥ ध्यानम् – सहस्रबाहुं महितं सशरं सचापं रक्ताम्बरं विविध रक्तकिरीटभूषम् । चोरादिदुष्टभयनाशनमिष्टदं तं ध्यायेन्महाबलविजृम्भितकार्तवीर्यम् ॥ मन्त्रं – ओं कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् । तस्य संस्मरणादेव हृतं…

कुण्डलिनी स्तोत्रम्

|| कुण्डलिनी स्तोत्रम् || नमस्ते देवदेवेशि योगीशप्राणवल्लभे । सिद्धिदे वरदे मातः स्वयम्भूलिङ्गवेष्टिते ॥ १ ॥ प्रसुप्त भुजगाकारे सर्वदा कारणप्रिये । कामकलान्विते देवि ममाभीष्टं कुरुष्व च ॥ २ ॥ असारे घोरसंसारे भवरोगात् कुलेश्वरी । सर्वदा रक्ष मां देवि जन्मसंसारसागरात् ॥ ३ ॥ इति कुण्डलिनि स्तोत्रं ध्यात्वा यः प्रपठेत् सुधीः । मुच्यते सर्व पापेभ्यो भवसंसाररूपके ॥ ४…

एकदंत गणेश स्तोत्रम्

|| एकदंत गणेश स्तोत्रम् || श्रीगणेशाय नमः । मदासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखाः सुराः । भृग्वादयश्च मुनय एकदन्तं समाययुः ॥ १॥ प्रणम्य तं प्रपूज्यादौ पुनस्तं नेमुरादरात् । तुष्टुवुर्हर्षसंयुक्ता एकदन्तं गणेश्वरम् ॥ २॥ देवर्षय ऊचुः सदात्मरूपं सकलादि- भूतममायिनं सोऽहमचिन्त्यबोधम् । अनादि-मध्यान्त-विहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ ३॥ अनन्त-चिद्रूप-मयं गणेशं ह्यभेद-भेदादि-विहीनमाद्यम् । हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं…

श्री कुबेर स्तोत्रम्

|| श्री कुबेर स्तोत्रम् || कुबेरो धनद श्रीदः राजराजो धनेश्वरः । धनलक्ष्मीप्रियतमो धनाढ्यो धनिकप्रियः ॥ १ ॥ दाक्षिण्यो धर्मनिरतः दयावन्तो धृढव्रतः । दिव्य लक्षण सम्पन्नो दीनार्ति जनरक्षकः ॥ २ ॥ धान्यलक्ष्मी समाराध्यो धैर्यलक्ष्मी विराजितः । दयारूपो धर्मबुद्धिः धर्म संरक्षणोत्सकः ॥ ३ ॥ निधीश्वरो निरालम्बो निधीनां परिपालकः । नियन्ता निर्गुणाकारः निष्कामो निरुपद्रवः ॥ ४ ॥ नवनाग…

श्री तुलस्यष्टोत्तरशतनाम स्तोत्रम्

|| श्री तुलस्यष्टोत्तरशतनाम स्तोत्रम् || तुलसी पावनी पूज्या बृन्दावननिवासिनी । ज्ञानदात्री ज्ञानमयी निर्मला सर्वपूजिता ॥ १ ॥ सती पतिव्रता बृन्दा क्षीराब्धिमथनोद्भवा । कृष्णवर्णा रोगहन्त्री त्रिवर्णा सर्वकामदा ॥ २ ॥ लक्ष्मीसखी नित्यशुद्धा सुदती भूमिपावनी । हरिद्रान्नैकनिरता हरिपादकृतालया ॥ ३ ॥ पवित्ररूपिणी धन्या सुगन्धिन्यमृतोद्भवा । सुरूपारोग्यदा तुष्टा शक्तित्रितयरूपिणी ॥ ४ ॥ देवी देवर्षिसंस्तुत्या कान्ता विष्णुमनःप्रिया । भूतवेतालभीतिघ्नी…

श्री नृसिंह स्तोत्रम् – ५ (श्रीवासुदेवानन्द सरस्वति कृतम्)

|| श्री नृसिंह स्तोत्रम् – ५ (श्रीवासुदेवानन्द सरस्वति कृतम्) || जय जय भयहारिन् भक्तचित्ताब्जचारिन् जय जय नयचारिन् दृप्तमत्तारिमारिन् । जय जय जयशालिन् पाहि नः शूरसिंह जय जय दययार्द्र त्राहि नः श्रीनृसिंह ॥ १ ॥ असुरसमरधीरस्त्वं महात्मासि जिष्णो अमरविसरवीरस्त्वं परात्मासि विष्णो । सदयहृदय गोप्ता त्वन्न चान्यो विमोह जय जय दययार्द्र त्राहि नः श्रीनृसिंह ॥ २ ॥…

श्री नृसिंह स्तोत्रम् – ४ (ब्रह्म कृतम्)

|| श्री नृसिंह स्तोत्रम् – ४ (ब्रह्म कृतम्) || ब्रह्मोवाच । भवानक्षरमव्यक्तमचिन्त्यं गुह्यमुत्तमम् । कूटस्थमकृतं कर्तृ सनातनमनामयम् ॥ १ ॥ साङ्ख्ययोगे च या बुद्धिस्तत्त्वार्थपरिनिष्ठिता । तां भवान् वेदविद्यात्मा पुरुषः शाश्वतो ध्रुवः ॥ २ ॥ त्वं व्यक्तश्च तथाऽव्यक्तस्त्वत्तः सर्वमिदं जगत् । भवन्मया वयं देव भवानात्मा भवान् प्रभुः ॥ ३ ॥ चतुर्विभक्तमूर्तिस्त्वं सर्वलोकविभुर्गुरुः । चतुर्युगसहस्रेण सर्वलोकान्तकान्तकः ॥…

गणेश कवचम्

|| गणेश कवचम् || एषोति चपलो दैत्यान् बाल्येपि नाशयत्यहो । अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ 1 ॥ दैत्या नानाविधा दुष्टास्साधु देवद्रुमः खलाः । अतोस्य कण्ठे किञ्चित्त्यं रक्षां सम्बद्धुमर्हसि ॥ 2 ॥ ध्यायेत् सिंहगतं विनायकममुं दिग्बाहु माद्ये युगे त्रेतायां तु मयूर वाहनममुं षड्बाहुकं सिद्धिदम् । ई द्वापरेतु गजाननं युगभुजं रक्ताङ्गरागं विभुं तुर्ये तु…

श्री लक्ष्मीनृसिंह दर्शन स्तोत्रम्

|| श्री लक्ष्मीनृसिंह दर्शन स्तोत्रम् || रुद्र उवाच । अथ देवगणाः सर्वे ऋषयश्च तपोधनाः । ब्रह्मरुद्रौ पुरस्कृत्य शनैः स्तोतुं समाययुः ॥ १ ॥ ते प्रसादयितुं भीता ज्वलन्तं सर्वतोमुखम् । मातरं जगतां धात्रीं चिन्तयामासुरीश्वरीम् ॥ २ ॥ हिरण्यवर्णां हरिणीं सर्वोपद्रवनाशिनीम् । विष्णोर्नित्यानवद्याङ्गीं ध्यात्वा नारायणप्रियाम् ॥ ३ ॥ देवीसूक्तं जपैर्भक्त्या नमश्चक्रुः सनातनीम् । तैश्चिन्त्यमाना सा देवी तत्रैवाविरभूत्तदा…

श्री मट्टपल्लि नृसिंहाष्टकम् (पुत्रप्राप्तिकरम्)

|| श्री मट्टपल्लि नृसिंहाष्टकम् (पुत्रप्राप्तिकरम्) || प्रह्लादवरदं श्रेष्ठं राज्यलक्ष्म्या समन्वितम् । पुत्रार्थं प्रार्थये देवं मट्टपल्याधिपं हरिम् ॥ १ ॥ भरद्वाज हृदयान्ते वासिनं वासवानुजम् । पुत्रार्थं प्रार्थये देवं मट्टपल्याधिपं हरिम् ॥ २ ॥ सुश्रोण्या पूजितं नित्यं सर्वकामदुघं हरिम् । पुत्रार्थं प्रार्थये देवं मट्टपल्याधिपं हरिम् ॥ ३ ॥ महायज्ञस्वरूपं तं गुहायां नित्यवासिनम् । पुत्रार्थं प्रार्थये देवं मट्टपल्याधिपं…

श्री मट्टपल्लि नृसिंह मङ्गलाष्टकम्

|| श्री मट्टपल्लि नृसिंह मङ्गलाष्टकम् || मट्टपल्लिनिवासाय मधुरानन्दरूपिणे । महायज्ञस्वरूपाय श्रीनृसिंहाय मङ्गलम् ॥ १ ॥ कृष्णवेणीतटस्थाय सर्वाभीष्टप्रदायिने । प्रह्लादप्रियरूपाय श्रीनृसिंहाय मङ्गलम् ॥ २ ॥ कर्तस्थिताय धीराय गम्भीराय महात्मने । सर्वारिष्टविनाशाय श्रीनृसिंहाय मङ्गलम् ॥ ३ ॥ ऋग्यजुः सामरूपाय मन्त्रारूढाय धीमते । श्रितानां कल्पवृक्षाय श्रीनृसिंहाय मङ्गलम् ॥ ४ ॥ गुहाशयाय गुह्याय गुह्यविद्यास्वरूपिणे । गुहरान्ते विहाराय श्रीनृसिंहाय मङ्गलम्…

श्री नरहर्यष्टकम्

|| श्री नरहर्यष्टकम् || यद्धितं तव भक्तानामस्माकं नृहरे हरे । तदाशु कार्यं कार्यज्ञ प्रलयार्कायुतप्रभ ॥ १ ॥ रटत्सटोग्र भ्रुकुटीकठोरकुटिलेक्षण । नृपञ्चास्य ज्वलज्ज्वालोज्ज्वलास्यारीन् हरे हर ॥ २ ॥ उन्नद्धकर्णविन्यास विवृतानन भीषण । गतदूषण मे शत्रून् हरे नरहरे हर ॥ ३ ॥ हरे शिखिशिखोद्भास्वदुरः क्रूरनखोत्कर । अरीन् संहर दंष्ट्रोग्रस्फुरज्जिह्व नृसिंह मे ॥ ४ ॥ जठरस्थ जगज्जाल करकोट्युद्यतायुध…

श्री नृसिंह संस्तुतिः

|| श्री नृसिंह संस्तुतिः || भैरवाडम्बरं बाहुदंष्ट्रायुधं चण्डकोपं महाज्वालमेकं प्रभुम् । शङ्खचक्राब्जहस्तं स्मरात्सुन्दरं ह्युग्रमत्युष्णकान्तिं भजेऽहं मुहुः ॥ १ ॥ दिव्यसिंहं महाबाहुशौर्यान्वितं रक्तनेत्रं महादेवमाशाम्बरम् । रौद्रमव्यक्तरूपं च दैत्याम्बरं वीरमादित्यभासं भजेऽहं मुहुः ॥ २ ॥ मन्दहासं महेन्द्रेन्द्रमादिस्तुतं हर्षदं श्मश्रुवन्तं स्थिरज्ञप्तिकम् । विश्वपालैर्विवन्द्यं वरेण्याग्रजं नाशिताशेषदुःखं भजेऽहं मुहुः ॥ ३ ॥ सव्यजूटं सुरेशं वनेशायिनं घोरमर्कप्रतापं महाभद्रकम् । दुर्निरीक्ष्यं सहस्राक्षमुग्रप्रभं…

कामासिकाष्टकम्

|| कामासिकाष्टकम् || श्रुतीनामुत्तरं भागं वेगवत्याश्च दक्षिणम् । कामादधिवसन् जीयात् कश्चिदद्भुत केसरी ॥ १ ॥ तपनेन्द्वग्निनयनः तापानपचिनोतु नः । तापनीयरहस्यानां सारः कामासिका हरिः ॥ २ ॥ आकण्ठमादिपुरुषं कण्ठीरवमुपरि कुण्ठितारातिम् । वेगोपकण्ठसङ्गात् विमुक्तवैकुण्ठबहुमतिमुपासे ॥ ३ ॥ बन्धुमखिलस्य जन्तोः बन्धुरपर्यङ्कबन्धरमणीयम् । विषमविलोचनमीडे वेगवतीपुलिनकेलिनरसिंहम् ॥ ४ ॥ स्वस्थानेषु मरुद्गणान् नियमयन् स्वाधीनसर्वेन्द्रियः पर्यङ्कस्थिरधारणा प्रकटितप्रत्यङ्मुखावस्थितिः । प्रायेण प्रणिपेदुषः प्रभुरसौ योगं…

श्री नृसिंह पञ्चामृत स्तोत्रम् (श्रीराम कृतम्)

|| श्री नृसिंह पञ्चामृत स्तोत्रम् (श्रीराम कृतम्) || अहोबिलं नारसिंहं गत्वा रामः प्रतापवान् । नमस्कृत्वा श्रीनृसिंहं अस्तौषीत् कमलापतिम् ॥ १ ॥ गोविन्द केशव जनार्दन वासुदेव विश्वेश विश्व मधुसूदन विश्वरूप । श्रीपद्मनाभ पुरुषोत्तम पुष्कराक्ष नारायणाच्युत नृसिंह नमो नमस्ते ॥ २ ॥ देवाः समस्ताः खलु योगिमुख्याः गन्धर्व विद्याधर किन्नराश्च । यत्पादमूलं सततं नमन्ति तं नारसिंहं शरणं गतोऽस्मि…

श्री नृसिंह मृत्युञ्जय स्तोत्रम्

|| श्री नृसिंह मृत्युञ्जय स्तोत्रम् || मार्कण्डेय उवाच । नारायणं सहस्राक्षं पद्मनाभं पुरातनम् । प्रणतोऽस्मि हृषीकेशं किं मे मृत्युः करिष्यति ॥ १ ॥ गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम् । केशवं च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ २ ॥ वासुदेवं जगद्योनिं भानुवर्णमतीन्द्रियम् । दामोदरं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ ३ ॥ शङ्खचक्रधरं देवं छन्नरूपिणमव्ययम् । अधोक्षजं प्रपन्नोऽस्मि…

श्री नृसिंह द्वात्रिंशद्बीजमाला स्तोत्रम्

|| श्री नृसिंह द्वात्रिंशद्बीजमाला स्तोत्रम् || उद्गीताढ्यं महाभीमं त्रिनेत्रं चोग्रविग्रहम् । उज्ज्वलं तं श्रियाजुष्टं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ १ ॥ ग्रन्थान्त वेद्यं देवेशं गगनाश्रय विग्रहम् । गर्जनात्रस्त विश्वाण्डं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ २ ॥ वीथिहोत्रेक्षणं वीरं विपक्षक्षयदीक्षितम् । विश्वम्बरं विरूपाक्षं श्रीं क्ष्रौं ह्रीं नृहरिं भजे ॥ ३ ॥ रङ्गनाथं दयानाथं दीनबन्धुं…

श्री लक्ष्मीनृसिंहाष्टकम्

|| श्री लक्ष्मीनृसिंहाष्टकम् || यं ध्यायसे स क्व तवास्ति देव इत्युक्त ऊचे पितरं सशस्त्रम् । प्रह्लाद आस्तेखिलगो हरिः स लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ १ ॥ तदा पदाताडयदादिदैत्यः स्तम्भं ततोऽह्नाय घुरूरुशब्दम् । चकार यो लोकभयङ्करं स लक्ष्मीनृसिंहोऽवतु मां समन्तात् ॥ २ ॥ स्तम्भं विनिर्भिद्य विनिर्गतो यो भयङ्कराकार उदस्तमेघः । जटानिपातैः स च तुङ्गकर्णो लक्ष्मीनृसिंहोऽवतु मां समन्तात्…

मन्यु सूक्तं

|| मन्यु सूक्तं || यस्ते म॒न्योऽवि॑धद् वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक् । सा॒ह्याम॒ दास॒मार्यं॒ त्वया यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥ १ ॥ म॒न्युरिंद्रो म॒न्युरे॒वास॑ दे॒वो म॒न्युर् होता॒ वरु॑णो जा॒तवे दाः । म॒न्युं-विँश॑ ईळते॒ मानु॑षी॒र्याः पा॒हि नो मन्यो॒ तप॑सा स॒जोषाः ॥ २ ॥ अ॒भी हि मन्यो त॒वस॒स्तवी या॒न् तप॑सा यु॒जा वि ज॑हि शत्रू न् ।…

श्री नृसिंह कवचम् (त्रैलोक्यविजयम्)

|| श्री नृसिंह कवचम् (त्रैलोक्यविजयम्) || नारद उवाच । इन्द्रादिदेववृन्देश ईड्येश्वर जगत्पते । महाविष्णोर्नृसिंहस्य कवचं ब्रूहि मे प्रभो । यस्य प्रपठनाद्विद्वांस्त्रैलोक्यविजयी भवेत् ॥ १ ॥ ब्रह्मोवाच । शृणु नारद वक्ष्यामि पुत्रश्रेष्ठ तपोधन । कवचं नरसिंहस्य त्रैलोक्यविजयी भवेत् ॥ २ ॥ स्रष्टाऽहं जगतां वत्स पठनाद्धारणाद्यतः । लक्ष्मीर्जगत्त्रयं पाति संहर्ता च महेश्वरः ॥ ३ ॥ पठनाद्धारणाद्देवा बहवश्च…

श्री नृसिंह स्तुतिः (नारायणपण्डित कृतम्)

|| श्री नृसिंह स्तुतिः (नारायणपण्डित कृतम्) || उदयरविसहस्रद्योतितं रूक्षवीक्षं प्रलय जलधिनादं कल्पकृद्वह्निवक्त्रम् । सुरपतिरिपुवक्षश्छेद रक्तोक्षिताङ्गं प्रणतभयहरं तं नारसिंहं नमामि ॥ प्रलयरविकरालाकाररुक्चक्रवालं विरलयदुरुरोचीरोचिताशान्तराल । प्रतिभयतमकोपात्युत्कटोच्चाट्‍टहासिन् दह दह नरसिंहासह्यवीर्याहितं मे ॥ १ ॥ सरसरभसपादापातभाराभिराव प्रचकितचलसप्तद्वन्द्वलोकस्तुतस्त्वम् । रिपुरुधिरनिषेकेणैव शोणाङ्घ्रिशालिन् दह दह नरसिंहासह्यवीर्याहितं मे ॥ २ ॥ तव घनघनघोषो घोरमाघ्राय जङ्घा- -परिघमलघुमूरुव्याजतेजोगिरिं च । घनविघटितमागाद्दैत्यजङ्घालसङ्घो दह दह नरसिंहासह्यवीर्याहितं मे…

श्री नृसिंह नख स्तुतिः

|| श्री नृसिंह नख स्तुतिः || श्री नृसिंह नखस्तुतिः पान्त्वस्मान् पुरुहूतवैरिबलवन्मातङ्गमाद्यद्घटा- -कुम्भोच्चाद्रिविपाटनाधिकपटु प्रत्येक वज्रायिताः । श्रीमत्कण्ठीरवास्यप्रततसुनखरा दारितारातिदूर- -प्रध्वस्तध्वान्तशान्तप्रविततमनसा भाविता भूरिभागैः ॥ १ ॥ लक्ष्मीकान्त समन्ततोऽपि कलयन् नैवेशितुस्ते समं पश्याम्युत्तमवस्तु दूरतरतोपास्तं रसो योऽष्टमः । यद्रोषोत्करदक्षनेत्रकुटिलप्रान्तोत्थिताग्नि स्फुरत् खद्योतोपमविस्फुलिङ्गभसिता ब्रह्मेशशक्रोत्कराः ॥ २ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्य विरचिता श्री नरसिंह नखस्तुतिः

श्री नृसिंह स्तुतिः (प्रह्लाद कृतम्) 2

|| श्री नृसिंह स्तुतिः (प्रह्लाद कृतम्) 2 || भगवत् स्तुतिः (प्रह्लाद कृतं) प्रह्लाद उवाच । नमस्ते पुण्डरीकाक्ष नमस्ते पुरुषोत्तम । नमस्ते सर्वलोकात्मन् नमस्ते तिग्मचक्रिणे ॥ १ ॥ नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥ २ ॥ ब्रह्मत्वे सृजते विश्वं स्थितौ पालयते पुनः । रुद्ररूपाय कल्पान्ते नमस्तुभ्यं त्रिमूर्तये ॥ ३ ॥ देवा…

श्री नृसिंह स्तुतिः 2

|| श्री नृसिंह स्तुतिः 2 || सुरासुरशिरोरत्नकान्तिविच्छुरिताङ्घ्रये । नमस्त्रिभुवनेशाय हरये सिंहरूपिणे ॥ १ ॥ शत्रोः प्राणानिलाः पञ्च वयं दश जयोऽत्र कः । इति कोपादिवाताम्राः पान्तु वो नृहरेर्नखाः ॥ २ ॥ प्रोज्ज्वलज्ज्वलनज्वालाविकटोरुसटाच्छटः । श्वासक्षिप्तकुलक्ष्माभृत्पातु वो नरकेसरी ॥ ३ ॥ व्याधूतकेसरसटाविकरालवक्त्रं हस्ताग्रविस्फुरितशङ्खगदासिचक्रम् । आविष्कृतं सपदि येन नृसिंहरूपं नारायणं तमपि विश्वसृजं नमामि ॥ ४ ॥ दैत्यास्थिपञ्जरविदारणलब्धरन्ध्र- -रक्ताम्बुनिर्जरसरिद्धनजातपङ्काः ।…

श्री नृसिंह नमस्कार स्तोत्रम्

|| श्री नृसिंह नमस्कार स्तोत्रम् || वज्रकाय सुरश्रेष्ठ चक्राभयकर प्रभो । वरेण्य श्रीप्रद श्रीमन् नरसिंह नमोऽस्तु ते ॥ १ ॥ कलात्मन् कमलाकान्त कोटिसूर्यसमच्छवे । रक्तजिह्व विशालाक्ष तीक्ष्णदंष्ट्र नमोऽस्तु ते ॥ २ ॥ दीप्तरूप महाज्वाल प्रह्लादवरदायक । ऊर्ध्वकेश द्विजप्रेष्ठ शत्रुञ्जय नमोऽस्तु ते ॥ ३ ॥ विकट व्याप्तभूलोक निजभक्तसुरक्षक । मन्त्रमूर्ते सदाचारिविप्रपूज्य नमोऽस्तु ते ॥ ४ ॥…

श्री दत्तात्रेय हृदयम् २

|| श्री दत्तात्रेय हृदयम् २ || अस्य श्रीदत्तात्रेय हृदयराज महामन्त्रस्य कालाकर्षण ऋषिः जगतीच्छन्दः श्रीदत्तात्रेयो देवता आं बीजं ह्रीं शक्तिः क्रों कीलकं श्रीदत्तात्रेय प्रसादसिद्ध्यर्थे जपे विनियोगः ॥ द्रामित्यादि षडङ्गन्यासः ॥ नमो नमः श्रीमुनिवन्दिताय नमो नमः श्रीगुरुरूपकाय । नमो नमः श्रीभवहरणाय नमो नमः श्रीमनुतल्पकाय ॥ १ ॥ विश्वेश्वरो नीलकण्ठो महादेवो महेश्वरः हरिः कृष्णो वासुदेवो माधवो मधुसूदनः ।…

दकारादि श्री दत्तात्रेयाष्टोत्तरशतनाम स्तोत्रम्

|| दकारादि श्री दत्तात्रेयाष्टोत्तरशतनाम स्तोत्रम् || दत्तं वन्दे दशातीतं दयाब्धि दहनं दमम् । दक्षं दरघ्नं दस्युघ्नं दर्शं दर्पहरं दवम् ॥ १ ॥ दातारं दारुणं दान्तं दास्यादं दानतोषणम् । दानं दानप्रियं दावं दासत्रं दारवर्जितम् ॥ २ ॥ दिक्पं दिवसपं दिक्स्थं दिव्ययोगं दिगम्बरम् । दिव्यं दिष्टं दिनं दिश्यं दिव्याङ्गं दितिजार्चितम् ॥ ३ ॥ दीनपं दीधितिं दीप्तं दीर्घं…

दकारादि श्री दत्त सहस्रनाम स्तोत्रम्

|| दकारादि श्री दत्त सहस्रनाम स्तोत्रम् || ओं दत्तात्रेयो दयापूर्णो दत्तो दत्तकधर्मकृत् । दत्ताभयो दत्तधैर्यो दत्तारामो दरार्दनः ॥ १ ॥ दवो दवघ्नो दकदो दकपो दकदाधिपः । दकवासी दकधरो दकशायी दकप्रियः ॥ २ ॥ दत्तात्मा दत्तसर्वस्वो दत्तभद्रो दयाघनः । दर्पको दर्पकरुचिर्दर्पकातिशयाकृतिः ॥ ३ ॥ दर्पकी दर्पककलाभिज्ञो दर्पकपूजितः । दर्पकोनो दर्पकोक्षवेगहृद्दर्पकार्दनः ॥ ४ ॥ दर्पकाक्षीड् दर्पकाक्षीपूजितो दर्पकाधिभूः…

श्री दत्तात्रेय पञ्जर स्तोत्रम्

|| श्री दत्तात्रेय पञ्जर स्तोत्रम् || अस्य श्रीदत्तात्रेय पञ्जर महामन्त्रस्य शबररूप महारुद्र ऋषिः, अनुष्टुप्छन्दः, श्रीदत्तात्रेयो देवता, आं बीजं, ह्रीं शक्तिः, क्रों कीलकं, श्रीदत्तात्रेय प्रसादसिद्ध्यर्थे जपे विनियोगः । द्रामित्यादि न्यासः कुर्यात् ॥ ध्यानम् – व्याख्यामुद्रां करसरसिजे दक्षिणेसन्दधानो जानुन्यस्तापरकरसरोजात्तवेत्रोन्नतांसः । ध्यानात् सुखपरवशादर्धमामीलिताक्षो दत्तात्रेयो भसित धवलः पातु नः कृत्तिवासाः ॥ अथ मन्त्रः – ओं नमो भगवते दत्तात्रेयाय, महागम्भीराय,…

श्रीपादाष्टकम्

|| श्रीपादाष्टकम् || वेदान्तवेद्यं वरयोगिरुपं जगत्प्रकाशं सुरलोकपूज्यम् । इष्टार्थसिद्धिं करुणाकरेशं श्रीपादराजं शरणं प्रपद्ये ॥ १ ॥ योगीशरुपं परमात्मवेषं सदानुरागं सहकार्यरुपम् । वरप्रसादं विबुधैकसेव्यं श्रीपादराजं शरणं प्रपद्ये ॥ २ ॥ काषायवस्त्रं करदण्डधारिणं कमण्डलुं पद्मकरेण शङ्खम् । चक्रं गदाभूषित भूषणाढ्यं श्रीपादराजं शरणं प्रपद्ये ॥ ३ ॥ भूलोकसारं भुवनैकनाथं नाथादिनाथं नरलोकनाथम् । कृष्णावतारं करुणाकटाक्षं श्रीपादराजं शरणं प्रपद्ये ॥…

श्री दत्तात्रेय द्वादशनाम स्तोत्रम्

|| श्री दत्तात्रेय द्वादशनाम स्तोत्रम् || अस्य श्रीदत्तात्रेय द्वादशनाम स्तोत्रमन्त्रस्य परमहंस ऋषिः श्रीदत्तात्रेय परमात्मा देवता अनुष्टुप्छन्दः सकलकामनासिद्ध्यर्थे जपे विनियोगः । प्रथमस्तु महायोगी द्वितीयः प्रभुरीश्वरः । तृतीयश्च त्रिमूर्तिश्च चतुर्थो ज्ञानसागरः ॥ १ ॥ पञ्चमो ज्ञानविज्ञानं षष्ठस्यात् सर्वमङ्गलम् । सप्तमो पुण्डरीकाक्षो अष्टमो देववल्लभः ॥ २ ॥ नवमो नन्ददेवेशो दशमो नन्ददायकः । एकादशो महारुद्रो द्वादशो करुणाकरः ॥ ३…

श्री दत्ताष्टकम् २

|| श्री दत्ताष्टकम् २ || आदौ ब्रह्ममुनीश्वरं हरिहरं सत्त्वं रजस्तामसं ब्रह्माण्डं च त्रिलोकपावनकरं त्रैमूर्तिरक्षाकरम् । भक्तानामभयार्थरूपसहितं सोऽहं स्वयं भावयन् सोऽहं दत्तदिगम्बरं वसतु मे चित्ते महत्सुन्दरम् ॥ १ ॥ विश्वं विष्णुमयं स्वयं शिवमयं ब्रह्मा मुनीन्द्रामयं ब्रह्मेन्द्रादिसुरोगणार्चितमयं सत्यं समुद्रामयम् । सप्तं लोकमयं स्वयं जनमयं मध्यादिवृक्षामयं सोऽहं दत्तदिगम्बरं वसतु मे चित्ते महत्सुन्दरम् ॥ २ ॥ आदित्यादिग्रहा स्वधा ऋषिगणं…

श्री दत्तात्रेयाष्टोत्तरशतनाम स्तोत्रम् २

|| श्री दत्तात्रेयाष्टोत्तरशतनाम स्तोत्रम् २ || ओंकारतत्त्वरूपाय दिव्यज्ञानात्मने नमः । नभोऽतीतमहाधाम्ने ऐन्द्र्यर्ध्या ओजसे नमः ॥ १ ॥ नष्टमत्सरगम्यायाऽऽगम्याचारात्मवर्त्मने । मोचितामेध्यकृतये ह्रीम्बीजश्राणितश्रितः ॥ २ ॥ मोहादिविभ्रमान्ताय बहुकायधराय च । भक्तदुर्वैभवच्छेत्रे क्लीम्बीजवरजापिने ॥ ३ ॥ भवहेतुविनाशाय राजच्छोणाधराय च । गतिप्रकम्पिताण्डाय चारुव्यायतबाहवे ॥ ४ ॥ गतगर्वप्रियायास्तु यमादियतचेतसे । वशिताजातवश्याय मुण्डिने अनसूयवे ॥ ५ ॥ वदद्वरेण्यवाग्जालाविस्पष्टविविधात्मने । तपोधनप्रसन्नायेडापतिस्तुतकीर्तये ॥…

श्री दत्त नक्षत्रमालिका स्तोत्रम्

|| श्री दत्त नक्षत्रमालिका स्तोत्रम् || गोदावर्या महानद्या उत्तरे सिंहपर्वते । सुपुण्ये माहुरपुरे सर्वतीर्थसमन्विते ॥ १ ॥ जज्ञेऽत्रेरनसूयायां प्रदोषे बुधवासरे । मार्गशीर्ष्यां महायोगी दत्तात्रेयो दिगम्बरः ॥ २ ॥ मालां कुण्डीं च डमरुं शूलं शङ्खं सुदर्शनम् । दधानः षड्भुजैस्त्र्यात्मा योगमार्गप्रवर्तकः ॥ ३ ॥ भस्मोद्धूलितसर्वाङ्गो जटाजूटविराजितः । रुद्राक्षभूषिततनुः शाम्भवीमुद्रया युतः ॥ ४ ॥ भक्तानुग्रहकृन्नित्यं पापतापार्तिभञ्जनः । बालोन्मत्तपिशाचाभः…

श्री दत्तात्रेय सहस्रनाम स्तोत्रम् २

|| श्री दत्तात्रेय सहस्रनाम स्तोत्रम् २ || कदाचिच्छङ्कराचार्यश्चिन्तयित्वा दिवाकरम् । किं साधितं मया लोके पूजया स्तुतिवन्दनैः ॥ १ ॥ बहुकाले गते तस्य दत्तात्रेयात्मको मुनिः । स्वप्ने प्रदर्शयामास सूर्यरूपमनुत्तमम् ॥ २ ॥ उवाच शङ्करं तत्र पतद्रूपमधारयत् । प्राप्यसे त्वं सर्वसिद्धिकारणं स्तोत्रमुत्तमम् ॥ ३ ॥ उपदेक्ष्ये दत्तनामसहस्रं देवपूजितम् । दातुं वक्तुमशक्यं च रहस्यं मोक्षदायकम् ॥ ४ ॥…

श्री दत्तात्रेय प्रार्थना स्तोत्रम्

|| श्री दत्तात्रेय प्रार्थना स्तोत्रम् || समस्तदोषशोषणं स्वभक्तचित्ततोषणं निजाश्रितप्रपोषणं यतीश्वराग्र्यभूषणम् । त्रयीशिरोविभूषणं प्रदर्शितार्थदूषणं भजेऽत्रिजं गतैषणं विभुं विभूतिभूषणम् ॥ १ ॥ समस्तलोककारणं समस्तजीवधारणं समस्तदुष्टमारणं कुबुद्धिशक्तिजारणम् । भजद्भयाद्रिदारणं भजत्कुकर्मवारणं हरिं स्वभक्ततारणं नमामि साधुचारणम् ॥ २ ॥ नमाम्यहं मुदास्पदं निवारिताखिलापदं समस्तदुःखतापदं मुनीन्द्रवन्द्य ते पदम् । यदञ्चितान्तरा मदं विहाय नित्यसम्मदं प्रयान्ति नैव ते भिदं मुहुर्भजन्ति चाविदम् ॥ ३ ॥…

देवी राधा सहस्रनामावली

॥ देवी राधा सहस्रनामावली ॥ ॐ अङ्गपरित्यगायै नमः। ॐ अङ्गारपूर्णायै नमः। ॐ अणिमाद्यष्टसिद्धिदायै नमः। ॐ अण्डपरिपालिन्यै नमः। ॐ अण्डबाह्याण्डसंहर्त्र्यै नमः। ॐ अण्डमध्यस्थायै नमः। ॐ अण्डरूपायै नमः। ॐ अतिसुन्दर्यै नमः। ॐ अतीतगमनायै नमः। ॐ अतीतगुणायै नमः। ॐ अनंशायै नमः। ॐ अनङ्गमोहिनीशक्तिरूपायै नमः। ॐ अनङ्गलतायै नमः। ॐ अनुत्तरायै नमः। ॐ अन्धकारभयध्वस्तायै नमः। ॐ अन्नपूर्णायै नमः। ॐ अपराजितायै…

श्रीराधाष्टकम्

|| श्रीराधाष्टकम् || श्रीश्रीवृन्दावनेश्वर्यै नमः । दिशि दिशि रचयन्ती सञ्चरन्नेत्रलक्ष्मी विलसितखुरलीभिः खञ्जरीटस्य खेलाम् । हृदयमधुपमल्लीं वल्लवाधीशसूनो- रखिलगुणगभीरां राधिकामर्चयामि ॥ पितुरिह वृषभानोरन्ववायप्रशस्तिं जगति किल समस्ते सुष्ठु विस्तारयन्तीम् । व्रजपतिकुमारं खेलयन्तीं सखीभिः सुरभिणि निजकुण्डे राधिकामर्चयामि ॥ शरदुपचितराकाकौमुदीनाथकीर्ति प्रकरदमनदीक्षादक्षिणस्मेरवक्त्राम् । नटदघभिदपाङ्गोत्तुङ्गितानङ्गरङ्गां कलितरुचितरङ्गां राधिकामर्चयामि ॥ विविधकुसुमवृन्दोत्फुल्लधम्मिल्लघाटी विघटितमदघूर्णत्केकिपिच्छप्रशस्तिम् । मधुरिपुमुखबिम्बोद्गीर्णताम्बूलराग स्फुरदमलकपोलां राधिकामर्चयामि ॥ अमलिनललितान्तःस्नेहसिक्तान्तराङ्गां अखिलविधविशाखासख्यविख्यातशीलाम् । स्फुरदघभिदनर्घप्रेममाणिक्यपेटीं धृतमधुरविनोदां राधिकामर्चयामि ॥…

श्री दत्त अपराध क्षमापण स्तोत्रम्

|| श्री दत्त अपराध क्षमापण स्तोत्रम् || दत्तात्रेयं त्वां नमामि प्रसीद त्वं सर्वात्मा सर्वकर्ता न वेद । कोऽप्यन्तं ते सर्वदेवाधिदेव ज्ञाताज्ञातान्मेऽपराधान् क्षमस्व ॥ १ ॥ त्वदुद्भवत्वात्त्वदधीनधीत्वा- -त्त्वमेव मे वन्द्य उपास्य आत्मन् । अथापि मौढ्यात् स्मरणं न ते मे कृतं क्षमस्व प्रियकृन्महात्मन् ॥ २ ॥ भोगापवर्गप्रदमार्तबन्धुं कारुण्यसिन्धुं परिहाय बन्धुम् । हिताय चान्यं परिमार्गयन्ति हा मादृशो नष्टदृशो…

श्री राधिका सहस्रनामावली

।। श्री राधिका सहस्रनामावली ।। श्री राधायै नमः । ॐ राधिकायै नमः ॐ कृष्णवल्लभायै नमः ॐ कृष्णसंयुतायै नमः ॐ वृन्दावनेश्वर्यै नमः ॐ कृष्णप्रियायै नमः ॐ मदनमोहिन्यै नमः ॐ श्रीमत्यै कृष्णकान्तायै नमः ॐ कृष्णनंदप्रदायिन्यै नमः ॐ यशस्विन्यै नमः ॐ यशोगम्यायै नमः ॐ यशोदानंदवल्ल्भायै नमः ॐ दामोदरप्रियायै नमः ॐ गोप्यै नमः ॐ गोपानंदकर्यै नमः ॐ कृष्णाङ्गवासिन्यै नमः…

श्री दत्त वेदपाद स्तुतिः

|| श्री दत्त वेदपाद स्तुतिः || अग्निमीले परं देवं यज्ञस्य त्वां त्र्यधीश्वरम् । स्तोमोऽयमग्रियोऽर्थ्यस्ते हृदिस्पृगस्तु शन्तमः ॥ १ ॥ अयं देवाय दूराय गिरां स्वाध्याय सात्वताम् । स्तोमोऽस्त्वनेन विन्देयं तद्विष्णोः परमं पदम् ॥ २ ॥ एता या लौकिकाः सन्तु हीना वाचोऽपि नः प्रियाः । बालस्येव पितुष्टे त्वं स नो मृल महाँ असि ॥ ३ ॥ अयं…

श्री दत्त स्तोत्रम् (चित्तस्थिरीकर)

|| श्री दत्त स्तोत्रम् (चित्तस्थिरीकर) || अनसूयात्रिसम्भूत दत्तात्रेय महामते । सर्वदेवाधिदेव त्वं मम चित्तं स्थिरीकुरु ॥ १ ॥ शरणागतदीनार्ततारकाखिलकारक । सर्वपालक देव त्वं मम चित्तं स्थिरीकुरु ॥ २ ॥ सर्वमङ्गलमाङ्गल्य सर्वाधिव्याधिभेषज । सर्वसङ्कटहारिंस्त्वं मम चित्तं स्थिरीकुरु ॥ ३ ॥ स्मर्तृगामी स्वभक्तानां कामदो रिपुनाशनः । भुक्तिमुक्तिप्रदः स त्वं मम चित्तं स्थिरीकुरु ॥ ४ ॥ सर्वपापक्षयकरस्तापदैन्यनिवारणः ।…

श्री दत्तात्रेय स्तोत्रम् (भृगु कृतम्)

|| श्री दत्तात्रेय स्तोत्रम् (भृगु कृतम्) || बालार्कप्रभमिन्द्रनीलजटिलं भस्माङ्गरागोज्ज्वलं शान्तं नादविलीनचित्तपवनं शार्दूलचर्माम्बरम् । ब्रह्मज्ञैः सनकादिभिः परिवृतं सिद्धैः समाराधितं आत्रेयं समुपास्महे हृदि मुदा ध्येयं सदा योगिभिः ॥ १ ॥ दिगम्बरं भस्मविलेपिताङ्गं चक्रं त्रिशूलं डमरुं गदां च । पद्मासनस्थं शशिसूर्यनेत्रं दत्तात्रेयं ध्येयमभीष्टसिद्ध्यै ॥ २ ॥ ओं नमः श्रीगुरुं दत्तं दत्तदेवं जगद्गुरुम् । निष्कलं निर्गुणं वन्दे दत्तात्रेयं नमाम्यहम्…