मत्स्यस्तुति

|| मत्स्यस्तुति || मग्ने मेरौ पतति तपने तोयबिन्दाविवेन्दौ अन्तर्लीने जलधिसलिले व्याकुले देवलोके । मात्स्यं रूपं मुखपुटतटाकृष्टनिर्मुक्तवार्धि श्रीकान्तस्य स्थलजलगतं वेत्यलक्ष्यं पुनातु ॥ १॥ वियत्पुच्छातुच्छोच्छलितजलगर्भं निधिरपां अपान्नाथः पाथः पृथुललवदुस्थो वियदभूत् । निधिर्भासामौर्वो दिनपतिरभूदौर्वदहनः चलत्काये यस्मिन्स जयति हरिर्मीनवपुषा ॥ २॥ जीयासुः शकुलाकृतेर्भगवतः पुच्छच्छटाच्छोटनात् उद्यन्तः शतचन्द्रिताम्बरतलं ते बिन्दवः सैन्धवाः । यैर्व्यावृत्य पतद्भिरौर्वशिखिनस्तेजोजटालं वपुः पानाध्मानवशादरोचकरुजां चक्रे चिरायास्पदम् ॥ ३॥ दिश्याद्वः…

पार्वतीकृता ४ शिवस्तुतिः

|| पार्वतीकृता ४ शिवस्तुतिः || (शिवरहस्यान्तर्गते ईशाख्ये) पार्वत्युवाच । प्रभाकरनिशाकरज्वलनलोचनं शङ्करं वतंसितसुधाकरं गरधरं च गङ्गाधरम् । भजामि च मयस्करं वरगुणौधरत्नाकरं यमान्धकहरं हरं फणिगणेशहारं शिवम् ॥ ६१॥ अरुणाभरणं महेश शम्भो शरणं त्वां समुपैमि देव देव । करुणावरुणालयोऽसि शम्भो प्रणमन्तीमभिवीक्ष्य देव पाहि ॥ ६२॥ कुम्भीन्द्रकुम्भस्थितपादपद्मं मत्तेभकृत्त्यम्बरमाशुतोषम् । कुम्भ्यास्यसूनुमथ कुम्भभवादिपूज्यं कुम्भेश्वरं भवभयापहरं प्रपद्ये ॥ ६३॥ केदारेश महेश शङ्कर…

मत्स्यस्तोत्रम्

|| मत्स्यस्तोत्रम् || श्रीगणेशाय नमः । नूनं त्वं भगवान्साक्षाद्धरिर्नारायणोऽव्ययः । अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् ॥ १॥ नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्वर । भक्तानां नः प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो ॥ २॥ सर्वे लीलावतारास्ते भूतानां भूतिहेतवः । ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम् ॥ ३॥ न तेऽरविन्दाक्ष पदोपसर्पणं मृषा भवेत्सर्वसुहृत्प्रियात्मनः । यथेतरेषां पृथगात्मनां सतामदीदृशो यद्वपुरद्भुतं हि नः ॥ ४॥ इति…

श्रीशिवास्तुतिकदम्बम्

|| श्रीशिवास्तुतिकदम्बम् || कमलानि साम्यमाप्तुं तप्यन्त्यद्यापि कण्ठदघ्नजले यत्पादयोरहर्निशमनिशं नौमि तां राजराजेशीम् ॥ १॥ कमलासखकमलोद्भवकामारिप्रमुखनिर्जरैःसेव्याम् । विमलामतिलघुधिषणां ददतीं नौमि नम्राय कामाक्षीम् ॥ २॥ वलमानकदम्बमालिकां ललनामिन्दुशिखामणेः पराम् । तुलनारहितास्यपङ्कजां कलये चेतसि शैलराट्सुताम् ॥ ३॥ तामरसतुल्यचरणां श्यामपयोवाहकान्तिकचलसिताम् । सामनुतदिव्यचरितां सोमसमास्यां नमामि गिरिबालाम् ॥ ४॥ नयनजितपद्मगर्वे नय नतमेनं महापदवीम् । मतिमति महेशमानिनि मतिमन्मनुजार्च्यमानपदपद्मे ॥ ५॥ नारदमुखमुनिचिन्त्यां नीरदगर्वापहारिकेशततिम् । पारदसमानवर्णां…

श्री श्यामलासहस्रनामस्तोत्रम्

|| श्री श्यामलासहस्रनामस्तोत्रम् || नामसारस्तवः सर्वश‍ृङ्गारशोभाढ्यां तुङ्गपीनपयोधराम् । गङ्गाधरप्रियां देवीं मातङ्गीं नौमि सन्ततम् ॥ १॥ श्रीमद्वैकुण्ठनिलयं श्रीपतिं सिद्धसेवितम् । कदाचित्स्वप्रियं लक्ष्मीर्नारायणमपृच्छत ॥ २॥ लक्ष्मीरुवाच किं जप्यं परमं नॄणां भोगमोक्षफलप्रदम् । सर्ववश्यकरं चैव सर्वैश्वर्यप्रदायकम् ॥ ३॥ सर्वरक्षाकरं चैव सर्वत्र विजयप्रदम् । ब्रह्मज्ञानप्रदं पुंसां तन्मे ब्रूहि जनार्दन ॥ ४॥ भगवानुवाच नामसारस्तवं पुण्यं पठेन्नित्यं प्रयत्नतः । तेन प्रीता…

सौख्याष्टकम्

|| सौख्याष्टकम् || निरर्गल-समुन्मिषन्नव-नवानुकम्पामृत- प्रवाह-रस-माधुरी-मसृण-मानसोल्लासिनि । नमज्जन-मनोरथ-प्रणयनैक-दीक्षाव्रते ! निधेहि मम मस्तके चरण-पङ्कजं तावकम् ॥ १॥ नमन्मृड-जटाटवी-गलित-गाङ्ग-तोय-श्रिते ! स्पुरन्मधुर-विग्रह-प्रचुर-कान्ति-सन्दानिते । सुसौरभ-करम्बिते ! त्रिपुरवैरि-सीमन्तिनि ! त्वदीय-पद-पङ्कजे मम मनो मिलिन्दायताम् ॥ २॥ उदञ्चय- दृगञ्चलं, रचय सान्द्रसान्द्रां दयां विकासय निजं पदं, विघटयाशु दुःख-त्रयम् ! अये ! प्रकटयाधुना विधुत-तर्क-जालामल- प्रबोध-रस-माधुरीं विविध-मङ्गलारम्भिणि ! ॥ ३॥ त्वयैव जगदङ्कुरो भवन-विक्रियां नीयते किमित्यपर-कल्पना तदुदरान्तरालम्बिनी…

श्रीस्वयंवरा पार्वती मन्त्रमालास्तोत्रम्

|| श्रीस्वयंवरा पार्वती मन्त्रमालास्तोत्रम् || श्री दुर्वासामुनिविरचितम् श्री स्वयंवरा पार्वति मन्त्रमाला स्तोत्रम् (जपसहितम्) ॐ अस्य श्री स्वयंवर पार्वती महा मन्त्रस्य अज ऋषिः, पंक्तिः छन्दः स्वयंवर पार्वती देवता । ॐ अस्य श्रीस्वयंवरमन्त्रस्य ब्रह्मा ऋषिः देवीगायत्री छन्दः, देवी गिरिपुत्री स्वयंवरा देवता । ममाभीष्टसिध्यर्थे जपे विनियोगः ॥ ह्रां इत्यादिना न्यासः । ॐ अस्य श्रीस्वयंवरापार्वती मन्त्रस्य ब्रह्मा ऋषिः, देवी…

श्रीभूसूक्तम्

|| श्रीभूसूक्तम् || मेदिनीदेवी वसुन्धरा स्याद्वसुधादेवि वासवी । ब्रह्मवर्चसः पितृणां श्रोत्रं चक्षुर्मनः । देवी हिरण्यगर्भिणी, देवी प्रसोवरी । सदने सत्यायने सीद । समुद्रवती सावित्रीह नो देवी मह्यङ्गी । महीधरणी महोव्यथिष्ठा-श्शृङ्गे शृङ्गे यज्ञे यज्ञे विभीषणी । इन्द्रपत्नी व्यापिनी सुरसरिदिह । वायुमती जलशयनी श्रियन्धाराजा सत्यन्तोपरिमेदिनी । श्वोपरिधत्तं परिगाया ॥ विष्णुपत्नीं महीं देवीं माधवीं माधवप्रियाम् । लक्ष्मीप्रियसखीं देवीं…

श्रीयादवाष्टकम्

|| श्रीयादवाष्टकम् || माधवानन्त केशवाच्युत वासुदेव जगत्पते मीन कच्छप नारसिंह श्रीवीरराघव पाहि माम् । निर्जरार्चित मौनिसन्नुत नीरजाक्ष दयानिधे देवनायक देहि मे तव पादभक्तिमचञ्चलाम् ॥ १॥ श्रीकरं करुणाकरं मुनिमानसाम्बुजवासिनं पाकशासनसेवितं फणिराजतल्पसुशायिनम् । शोकमोहविनाशकं सुगुणाकरं शुभदायकं लोकजीवनहेतुकं प्रणमामि यादवकुञ्जरम् ॥ २॥ कृष्ण श्रीधर वासवानुज पद्मनाभ नमोऽस्तु ते किङ्किणीघननाददिव्यसुपादपद्म नमोऽस्तु ते । वृष्णिवंशप्रदीप नायक वेदवेद्य नमोऽस्तु ते विप्रसंस्तुत…

रमापत्यष्टकम्

|| रमापत्यष्टकम् || श्रीगणेशाय नमः ॥ जगदादिमनादिमजं पुरुषं शरदम्बरतुल्यतनुं वितनुम् । धृतकञ्जरथाङ्गगदं विगदं प्रणमामि रमाधिपतिं तमहम् ॥ १॥ कमलाननकञ्जरतं विरतं हृदि योगिजनैः कलितं ललितम् । कुजनैः सुजनैरलभं सुलभं प्रणमामि रमाधिपतिं तमहम् ॥ २॥ मुनिवृन्दहृदिस्थपदं सुपदं निखिलाध्वरभागभुजं सुभुजम् । हृतवासवमुख्यमदं विमदं प्रणमामि रमाधिपतिं तमहम् ॥ ३॥ हृतदानवदृप्तबलं सुबलं स्वजनास्तसमस्तमलं विमलम् । समपास्त गजेन्द्रदरं सुदरं प्रणमामि रमाधिपतिं…

श्रीलक्ष्मीधराष्टकम्

|| श्रीलक्ष्मीधराष्टकम् || मङ्गलं श्यामलं शीतलं कोमलं राधिकावल्लभं निर्मलं माधवम् । मूरलीमोहनं देवकीनन्दनं कृष्णनारायणं वासुदेवं भजे ॥ १॥ श्रीधरं सुन्दरं विष्णुदामोदर- मिन्दिरावल्लभं देवपीताम्बरम् । गोपवृन्दारकं पापसङ्घातकं सौख्यविस्तारकं वासुदेवं भजे ॥ २॥ दारवं भास्वरं गोलनेत्रोज्ज्वलं घोषयात्राकरं चारुलीलाकरम् । नीलशैलेश्वरं श्रीपुरीनागरं देवताशेखरं वासुदेवं भजे ॥ ३॥ भोगदं योगदं मोक्षदं केशवं भक्तपालं जगन्नाथ-पापापहम् । नीलमेघावृतं चेलचामीकृतं शान्तिदं स्वस्तिदं…

श्रीवटपत्यष्टकम्

|| श्री वटपत्यष्टकम् || भवं सृष्ट्वा देवः स्वयमिह निविष्टो भवमुखे सहस्रास्यो भूत्वा फलमनुभवञ्छास्त्यविकृतः । परं देवैः सेव्यं रसमुपनिषद्वेद्यममितं नमामि श्रीनाथं भवभयहरं श्रीवटपतिम् ॥ १॥ चिदानन्दं सत्यं जगदुदयरक्षालयकरं यदज्ञानाच्छुक्तौ रजतमिव विश्वं विलसितम् । पुनर्यद्विज्ञानं भ्रमहरमभेदं तमनघं नमामि श्रीनाथं भवभयहरं श्रीवटपतिम् ॥ २॥ पुराणो यो देवो निवसति वटेशस्तनुभृतां हृदम्भोजे द्रष्टा विदितमहिमा सौख्यसदनम् । तमाराध्यं सिद्धैः सुरमनुजसंसेवितपदं नमामि…

वेणुगोपालस्तोत्रम्

|| वेणुगोपाल स्तोत्रम् || कारुण्यादेव देव प्रवरयदुकुलाम्भोधिभास्वच्छशाङ्क- लीलाकैवल्यमेतज्जगति विजयते वेणुगानं मनोज्ञम् । पीयूषानन्दनादाश्रवणहृतभवध्वान्ततान्ताः परस्मिन् तत्त्वे विश्रान्तभावाः स्थिरचरनिकराः लिल्यिरे प्राकृताश्च ॥ १॥ गोपा गोप्यश्च गावो जडतरमतयः श्यामधामाभिरामे नानाकामप्रपूरे कलिकृतदुरितश्रेणिकानां विरामे । यन्नादाकृष्टचित्ताः परमसुखमये वेणुगानैकलोले संसारध्वान्तहन्त्रीं यमिजननिवहैर्दुर्लभां भक्तिमापुः ॥ २॥ कर्मव्रातैः प्रजाभिर्धनततिभिरपि प्राप्नुयुर्नैव मोक्षं त्यागेनैके भजन्ते परमपदमिति प्रोच्यते वेदशीर्षैः । त्यागः कामं जनानां भवविकलधियं दुष्करोऽप्यञ्जसैव त्यक्त्वा पादं…

रेणुका गीतम्

|| रेणुका गीतम् || श्री गणेशाय नमः । सुर शिरश्चरच्चरण रेणुका । जगदधीश्वरी जयति रेणुका ॥ देवता शिरो देश लालितम् । रेणुका पादं दिशतु मे मुदम् ॥ कुण्डलीपुरी मण्डनं महः । किमपि भासतां मम सदा हृदि ॥ मस्तकैतवं वस्तु शाश्वतम् । अस्ति मे सदा शस्तदं हृदि ॥ आदिनारि ते पादपङ्कजम् । स्फुरतु मे मनः सरसिजे…

शिवगौरीस्तोत्रम्

|| शिवगौरीस्तोत्रम् || ॐ श्रीगणेशाय नमः । सृणिपाशपुष्पशरपुण्ड्रचापकैः करपङ्कजैः कलितभक्तवाञ्छिताम् । तरुणारुणारुणतनुं त्रिलोचनां ललितां भजे ललितचन्द्रचूलिकाम् ॥ १॥ ललिताविभूषितनिजाङ्गमूर्तये ललितेषुचापसृणिपाशपाणये । उदयारुणद्युतिमुषे दयाजुषे मदनेश्वराय महते नमो नमः ॥ २॥ अञ्चत्पञ्चशिखोच्चमञ्चनिकटे चक्रासनाध्यासिनीं सौन्दर्यस्य महीं नवाब्दवयसं गौरीं कुलालापिनीम् । मालापुष्पसृणीगुणाञ्चितकरां पूगप्रमाणस्तनीं बालां श्रीललिताम्बिकादुहितरं लीलासमुद्रां भजे ॥ ३॥ चिन्तामणिग्रहवराञ्चितशक्तिचक्र रक्षाकरं कलितकुङ्कुमरक्तवर्णम् । सौन्दर्यराशिवपुषं दशवर्षदेश्यं वन्दे कुमारमदनेश्वरमिन्दुमौलिम् ॥ ४॥…

सिद्धिलक्ष्मीस्तोत्रम्

|| सिद्धिलक्ष्मीस्तोत्रम् || श्री गणेशाय नमः । ॐ अस्य श्रीसिद्धिलक्ष्मीस्तोत्रस्य हिरण्यगर्भ ऋषिः, अनुष्टुप् छन्दः, सिद्धिलक्ष्मीर्देवता, मम समस्त दुःखक्लेशपीडादारिद्र्यविनाशार्थं सर्वलक्ष्मीप्रसन्नकरणार्थं महाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थं च सिद्धिलक्ष्मीस्तोत्रजपे विनियोगः । ॐ सिद्धिलक्ष्मी अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं विष्णुहृदये तर्जनीभ्यां नमः । ॐ क्लीं अमृतानन्दे मध्यमाभ्यां नमः । ॐ श्रीं दैत्यमालिनी अनामिकाभ्यां नमः । ॐ तं तेजःप्रकाशिनी कनिष्ठिकाभ्यां नमः । ॐ ह्रीं…

सिद्धिलक्ष्मीस्तुति

|| सिद्धि लक्ष्मी स्तुति || आकारब्रह्मरूपेण ओंकारं विष्णुमव्ययम् । सिद्धिलक्ष्मि! परालक्ष्मि! लक्ष्यलक्ष्मि नमोऽस्तु ते ॥ याः श्रीः पद्वने कदम्बशिखरे राजगृहे कुंजरे श्वेते चाश्वयुते वृषे च युगले यज्ञे च यूपस्थिते । शंखे देवकुले नरेन्द्रभवने गंगातटे गोकुले या श्रीस्तिष्ठति सर्वदा मम गृहे भूयात् सदा निश्चला ॥ या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी गम्भीरावर्तनाभिः स्तनभरनमिता शुद्धवस्त्रोत्तरीया । लक्ष्मिर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्नापिता…

ज्ञानतीर्थस्तोत्रषट्पदी

|| ज्ञानतीर्थ स्तोत्र षट्पदी || विशुद्धविज्ञानमहावाक्यार्थालोचनस्त्रुतम् । अन्त्यात्माकारवृत्त्यात्मज्ञानतीर्थं पुनातु माम् ॥ १॥ रागद्वेषमुखामात्मगतदोषान्विधूय यत् । सत्त्वशुदिन्ध विधत्तेन्तर्ज्ञानतीर्थं पुनातु माम् ॥ २॥ यत्केवलं सजातीयात्मप्रवाहोपबृंहितम् । उत्पाटयत्यविद्याद्रून्ज्ञानतीर्थं पुनातु माम् ॥ ३॥ श्रद्धावति विसन्देहे तत्परे विजितेन्द्रिये । उदेति शान्तिदं यत्तज्ज्ञानतीर्थं पुनातु माम् ॥ ४॥ यतस्वयं योगसंसिद्धे कालेनोदेति निर्मलम् । पवित्राणां पवित्रं तज्ज्ञानतीर्थं पुनातु माम् ॥ ५॥ हृदयग्रन्थिभित्सर्वसंशयच्छिच्च कर्महृत्…

हारतीस्तोत्रम्

|| हारतीस्तोत्रम् || श्री हारतीदेव्यैः नमः । कुन्दप्रसूनसदृशीं रुचिराङ्गरागां नानाविभूषणविभूषितवज्रदेहाम् । सव्येन हस्तकमलेन भयार्तिहन्त्रीं यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या ॥ १॥ आलिङ्गितां निजमसव्यभुजेन पुत्रान् नेत्रैस्त्रिभिश्च परिशोभितचारुदेहाम् । नानाविधैर्मणिगणै रचितं किरीटं यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या ॥ २॥ तां वह्निमण्डलगतां वसुपत्रपद्मे श्रीरत्नपीठ उपरिस्थितपादपद्माम् । यक्षादिभिः परिवृतां ललितासनस्थां यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या ॥ ३॥ लोकत्रयार्तिशमनीं शिशुजीवदात्रीं श्रीहारतीं करुणया निजभक्तदक्षाम्…

सुवर्णमुक्तावलीस्तुतिः

|| सुवर्णमुक्तावलीस्तुतिः || अद्वैतमक्षरमनन्तमभक्तलोकै- रज्ञेयतत्त्वमनुमेयमतीन्द्रियज्ञैः । अव्यक्तमर्चयदनुग्रहणात्तरूप- मन्तःपुरं पुररिपोररुणं भजामः ॥ १॥ आताम्रमात्तधनुरङ्कुशपाशबाण- मादर्शनिर्मलकपोलकमायताक्षम् । आनन्दचिन्मयमहः स्तुतमागमान्तै- रार्याख्यमार्तिहरमाशु ममान्तरास्ताम् ॥ २॥ इन्द्रादिदिव्यपददामियतीत्यमेया- मिन्दीवराक्षियुगलीमितिहासवेद्याम् । इन्दुप्रकाशवदनामिभराजयाता- मिष्टार्थदां भगवतीमिह चिन्तयामि ॥ ३॥ ईशित्वमुख्यफलदां जगदीश्वरीं ता- मीशानवामनिलयामियतीदृशीति । ईक्षावतामविषयं महदीहिताङ्घ्रि- मीडे परां सुरगवीमहमीप्सितानाम् ॥ ४॥ उन्निद्रपङ्कजमुखीमुदितारुणाभा- मुद्वृत्तपीवरकुचामुपगीयमानाम् । उच्चैस्तरामुपनिषद्भिरूपासकाना- मुच्चावचेष्टफलहेतुमुमामुपासे ॥ ५॥ ऊरीकृतात्मचरणार्पितचित्तवृत्ति- मूर्धस्थितां निगममौलिभिरूह्यमानाम् । ऊनेतरार्थफलदां परमेश्वरोढा-…

सप्तशतीध्यानात्मकं स्तोत्रम्

|| सप्तशतीध्यानात्मकं स्तोत्रम् || श्रीगणेशाय नमः ॥ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् । हस्तैश्चक्रदरालिखेटविशिखाँश्चापं गुणं तर्जनीं बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥ १॥ मातर्मे मधुकैटभघ्नि महिषप्राणापहारोद्यमे हेलानिर्मितधूम्रलोचनवधे हे चण्डमुण्डार्दिनि । निःशेषीकृतरक्तबीजदनुजे नित्ये निशुम्भापहे शुम्भध्वंसिनि सहराशु दुरितं दुर्गे नमस्तेऽम्बिके ॥ २॥ या देवी मधुकैटभप्रमथिनी या माहिषोन्मूलिनी या धूम्रेक्षणचण्डमुण्डशमनी या रक्तबीजाशिनी । या शुम्भादिनिशुम्भदैत्यदमनी या सिद्धलक्ष्मी परा…

श्रीशूलिनीदुर्गासुमुखीकरणस्तोत्रम्

|| श्रीशूलिनीदुर्गासुमुखीकरणस्तोत्रम् || ॐ अस्य श्रीसुमुखीकरणस्तोत्रमन्त्रस्य दीर्घतमा ऋषिः । ककुप्छन्दः । शूलिनी देवता । तत्प्रासादसिद्ध्यर्थे जपे विनियोगः । श्रीदीर्घतमा ऋषये नमः शिरसि । ककुप्छन्दसे नमः मुखे । शूलिनी देवतायै नमः हृदि । तत्प्रासादसिद्ध्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ॥ ध्यानम् । ॐ ध्यायेद्धेमसहोपलासनपरे कन्याजनालङ्कृते (समुज्ज्वलासनवरे, समोपलासनवरे) पञ्चब्रह्ममुखामरैर्मुनिवरैः सेव्ये जगन्मङ्गले । आसीनां स्मितभाषिणीं शिवसखीं कल्याणवेषोज्ज्वलां (स्मितभाषणां) भक्ताभीष्टवरप्रदाननिरतां…

हाकिनीसहस्रनामस्तोत्र

|| हाकिनीसहस्रनामस्तोत्र || श्रीगणेशाय नमः । श्री आनन्दभैरव उवाच । आनन्दार्णवमध्यभावघटितश्रौतप्रवाहोज्ज्वले कान्ते दत्तसुशान्तिदे यमदमाह्लादैकशक्तिप्रभे । स्नेहानन्दकटाक्षदिव्यकृपया शीघ्रं वदस्वाद्भुतं हाकिन्याः शुभनाम सुन्दरसहस्राष्टोत्तरं श्रीगुरोः ॥ १ ॥ श्री आनन्दभैरवी उवाच साक्षात्ते कथयामि नाथ सकलं पुण्यं पवित्रं गुरो नाम्नां शक्तिसहस्रनाम भाविकं ज्ञानादि चाष्टोत्तरम् । योगीन्द्रैर्जयकाङ्क्षिभिः प्रियकलाप्रेमाभिलाषाचीतैः सेव्यं पाठ्यमतीव गोप्यमखिले शीघ्रं पठस्व प्रभो ॥ २ ॥ अस्य श्रीपरनाथमहाशक्तिहाकिनीपरमेश्वरीदेव्यष्टोत्तरसहस्रनाम्नः स्तोत्रस्य…

श्रीशान्तादुर्गास्तोत्रम्

|| श्रीशान्तादुर्गास्तोत्रम् || शान्तादुर्गे महादेवी मङ्गेशप्राणवल्लभे । सरस्वतीस्वरूपासि विद्याभिक्षां प्रदेहि मे ॥ १॥ आदिमाये महामाये शान्तादुर्गे नमोऽस्तु ते । महालक्ष्मीस्त्वमेवासी सम्पद्भिक्षां प्रदेहि मे ॥ २॥ जननी सर्वलोकानां शान्तादुर्गे नमोऽस्तु ते । मङ्गले सुतवात्सल्ये पुत्रभिक्षां प्रदेहि मे ॥ ३॥ महाकालीस्वरूपासी शान्तादुर्गे नमोऽस्तु ते । सर्वशत्रुविनाशेन यशोभिक्षां प्रदेहि मे ॥ ४॥ विघ्नराजस्वरूपा त्वं शान्तादुर्गे नमोऽस्तु ते ।…

गायत्र्यथर्वशीर्षम्

|| गायत्र्यथर्वशीर्षम् || श्रीगणेशाय नमः ॥ नमस्कृत्य भगवान् याज्ञवल्क्यः स्वयं परिपृच्छति त्वं ब्रूहि भगवन् गायत्र्या उत्पत्तिं श्रोतुमिच्छामि ॥ १॥ ब्रह्मोवाच । प्रणवेन व्याहृतयः प्रवर्तन्ते तमसस्तु परं ज्योतिष्कः पुरुषः स्वयम् । भूर्विष्णुरिति ह ताः साङ्गुल्या मथेत् ॥ २॥ मथ्यमानात्फेनो भवति फेनाद्बुद्बुदो भवति बुद्बुदादण्डं भवति अण्डवानात्मा भवति आत्मन आकाशो भवति आकाशाद्वायुर्भवति वायोरग्निर्भवति अग्नेरोङ्कारो भवति ओङ्काराद्व्याहृतिर्भवति व्याहृत्या गायत्री…

श्रीशान्तादुर्गादेविप्रणतिस्तोत्रम्

|| श्रीशान्तादुर्गादेविप्रणतिस्तोत्रम् || श्रीशान्तादुर्गा महामाये कैवल्यपुरवासिने । नमो भर्गेमहाकाली महिषासुरमर्दिने ॥ १॥ नमो गौरी जगन्माते रत्नमालाविभूषिते । नमो भवानि रुद्राणि विश्वरूपे सुकंधरे ॥ २॥ नमस्ते भगवान्माये जगद्रक्षणकारिणे । नमोऽस्तु पतितोद्धारे नानारूपधरे नमः ॥ ३॥ नमो दाक्षायणी देवी भक्तारिष्टनिवारके । नमस्ते गिरिजे हेमी शिवरूपे महेश्वरी ॥ ४॥ नमः कात्यायनी आर्ये अपर्णे सस्मितानने । नमः खड्गधरे माये…

श्रीसमर्थाथर्वशीर्षम्

|| श्रीसमर्थाथर्वशीर्षम् || अथ श्री अक्कलकोटीस्वामीसमर्थाथर्वशीर्षम् । अथ ध्यानम् । ॐ ध्यायेच्छान्तं प्रशान्तं कमलनयनं योगिराजं दयालुं स्वामी मुद्रासनस्थं विमलतनुयुतं मन्दहास्यं कृपालम् । दृष्टिक्षेपोहि यस्य हरति स्मरणात् पापजालौघ सङ्घं भक्तानां स्मर्तृगामी जयति सविदधत् केवलानन्द कन्दम् ॥ १॥ । हरिः ॐ । नमः श्रीस्वामीसमर्थाय परमहंसाय दिव्यरूपधारिणे । नमः श्रीपाद श्रियावल्लभावतारधारिणे । नमः श्रीमन्नरसिंह सरस्वत्यावतारधारिणे । नमः कर्दलीवनवासिने…

मान्धातृशैलेश्वरीस्तोत्र

|| मान्धातृशैलेश्वरीस्तोत्र || श्री गणेशाय नमः ॥ वन्दे नीलकलेवरां त्रिनयनांदंष्ट्राकरालाननां, घण्टा मर्मशरावमुण्ड भुजगैः खट्वाङ्गशूलासिभिः । आरूढाष्टभुजां किरीटरशनाघोषादिभिर्भूषणै – राशीर्षाङ्घ्रिविटङ्कितां भगवतीम् मान्धातृशैलेश्वरीम् ॥ १॥ मञ्जीरैर्मुखरीकृताङ्घ्रियुगलां सन्ध्याभ्रशोणांबरां चञ्चद्घोरकृपाणपाणिकमला मुज्जृम्भितभ्रूलतां । सारंभप्रसरत्स्फुलिङ्ग नयनामुच्चाट्टहासस्वनैर् निर्धूताखिलसद्भयामनुभजे मान्धातृशैलेश्वरीम् ॥ २॥ वन्दे वक्षसिवृक्णदानवशिरो मालामयं कञ्चुकं, कर्णे कुञ्जरकुण्डलं कटितटे भोगीन्द्रकाञ्चीगुणम् । हस्तेदारिकरक्तपङ्किलमुखं धृत्वा खलानां भयं, शिष्टानामभयं च या दिशति तां मान्धातृशैलेश्वरीम् ॥ ३॥…

महिषमर्दिनी कवचम्

|| महिषमर्दिनी कवचम् || अथ वक्ष्ये महेशानि कवचं सर्वकामदम् । (महादेवी) यस्य प्रसादमासाद्य भवेत् साक्षात् सदाशिवः ॥ १॥ ॐकारं पूर्वमुच्चार्य मन्त्री मन्त्रस्य सिद्धये । प्रपठेत् कवचं नित्यं मन्त्रवर्णस्य सिद्धये ॥ २॥ विनियोगः- ॐ महिषमर्दिन्याः कवचस्य भगवान्महाकालऋषिः अनुष्टुप् छन्दः, आद्याशक्तिः, महिषमर्द्दिनी देवता, चतुर्वर्गफलाप्त्यर्थे विनियोगः ॥ क्लीं पातु मस्तके देवी कामिनी कामदायिनी । मकारे पातु मां देवी…

मन्त्रसिद्धिप्रदमहादुर्गाशतनामस्तोत्रम्

|| मन्त्रसिद्धिप्रदमहादुर्गाशतनामस्तोत्रम् || ॐ दुर्गा भवानी देवेशी विश्वनाथप्रिया शिवा । घोरदंष्ट्राकरालास्या मुण्डमालाविभूषिता ॥ १॥ रुद्राणी तारिणी तारा माहेशी भववल्लभा । नारायणी जगद्धात्री महादेवप्रिया जया ॥ २॥ विजया च जयाराध्या शर्वाणी हरवल्लभा । असिता चाणिमादेवी लघिमा गरिमा तथा ॥ ३॥ महेशशक्तिर्विश्वेशी गौरी पर्वतनन्दिनी । नित्या च निष्कलङ्का च निरीहा नित्यनूतना ॥ ४॥ रक्ता रक्तमुखी वाणी वस्तुयुक्तासमप्रभा…

श्री नवदुर्गास्वरूपानुसन्धानस्तुतिः

|| श्री नवदुर्गास्वरूपानुसन्धानस्तुतिः || वक्ष्येऽहं नव दुर्गायाः स्वरूपाण्यधुना क्रमात् । प्रथमा वन दुर्गा स्यात् शूलिन्याख्या द्वितीयिका ॥ १॥ तृतीया जातवेदास्तु शान्तिदुर्गा चतुर्थिका । पञ्चमी शबरी दुर्गा ज्वलद् दुर्गा च षष्ठिका ॥ २॥ सप्तमी लवणाभिख्या दीपदुर्गा तथाऽष्टमी । नवमी ह्यासुरी दुर्गा प्रोक्ता एता नवाम्बिकाः ॥ ३॥ पुरा भण्डमहायुद्धे ललिताम्बाऽट्टहासतः । आविर्भूता इमा देव्यः मध्वाद्यसुरभीकराः ॥ ४॥…

नवदुर्गास्तुतिः

|| नवदुर्गास्तुतिः || शैले वसन्ती परमेश्वरस्य प्रिया शिवानी गिरिराजपुत्री । विद्या प्रशस्ता जगदम्बिका सा चाद्या नमस्ते खलु शैलपुत्री ॥ १॥ शङ्खेन्दुकुन्दसङ्काशां कमण्डलुधरां शिवाम् । चाक्षमालाधरां वन्दे ब्रह्मचारिणीमातरम् ॥ २॥ तप्तकाञ्चनवर्णाभां पूर्णचन्द्राननत्रयाम् । चन्द्रघण्टामहं वन्दे क्रूरदृष्टिसमन्विताम् ॥ ३॥ सुराकुम्भधरां रौद्रीमष्टबाहुसमन्विताम् । हरसिद्धामहं वन्दे शत्रुसंहारकारिणीम् ॥ ४॥ पद्मपुष्पधरां गौरीं महासिंहोपरिस्थिताम् । स्वाङ्के स्कन्दधरां वन्दे शर्वाणीं स्कन्दमातरम् ॥…

अथ तन्त्रोक्तं देवीसूक्तम्

|| अथ तन्त्रोक्तं देवीसूक्तम् || श्रीगणेशाय नमः । नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ १॥ रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः । ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥ २॥ कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः । नैरृत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः ॥…

श्रीचामुण्डास्तोत्रम्

|| श्रीचामुण्डास्तोत्रम् || श्रीगणेशाय नमः । श्रीभैरवाय नमः । श्रीउमामहेश्वराभ्यां नमः । श्रीमार्कण्डेय उवाच – ततो गच्छेन्महीपाल तीर्थं कनखलोत्तमम् । गरुडेन तपस्तप्तं पूजयित्वा महेश्वरम् ॥ १॥ दिव्यं वर्षशतं यावज्जातमात्रेण भारत । तपोजपैः कृशीभूतो दृष्टो देवेन शम्भुना ॥ २॥ ततस्तुष्टो महादेवो वैनतेयं मनोजवम् । उवाच परमं वाक्यं विनतानन्दवर्धनम् ॥ ३॥ प्रसन्नस्ते महाभाग वरं वरय सुव्रत ।…

श्रीचामुण्डा स्तुतिः

|| श्रीचामुण्डा स्तुतिः || जयस्व देवि चामुण्डे जय भूताऽपहारिणि । जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ॥ १॥ विश्वमूर्तियुते शुद्धे विरूपाक्षी त्रिलोचने । भीमरूपे शिवे विद्ये महामाये महोदरे ॥ २॥ मनोजये मनोदुर्गे भीमाक्षि क्षुभितक्षये । महामारि विचित्राङ्गि गीतनृत्यप्रिये शुभे ॥ ३॥ विकरालि महाकालि कालिके पापहारिणि । पाशहस्ते दण्डहस्ते भीमहस्ते भयानके ॥ ४॥ चामुण्डे ज्वलमानास्ये तीक्ष्णदंष्ट्रे…

श्रीचण्डीध्वजस्तोत्रम्

|| श्रीचण्डीध्वजस्तोत्रम् || अस्य श्री चण्डीध्वज स्त्रोत्र महामन्त्रस्य । मार्कण्डेय ऋशिः । अनुश्तुप् छन्दः । श्रीमहालक्ष्मीर्देवता । श्रां बीजम् । श्रीं शक्तिः । श्रूं कीलकम् । मम वाञ्छितार्थ फलसिद्ध्यर्थं विनियोगः । अङ्गन्यसः । श्रां श्रीं श्रुं श्रैं श्रौं श्रः इति कर हृदयादिन्यासौ । श्यानन् । ॐ श्रीं नमो जगत्प्रतिष्ठायै देव्यै भूत्यै नमो नमः । परमानन्दरूपायै…

चण्डिकाहृदयस्तोत्रम्

|| चण्डिकाहृदयस्तोत्रम् || अस्य श्री चण्डिका हृदय स्तोत्र महामन्त्रस्य । मार्क्कण्डेय ऋषिः, अनुष्टुप्च्छन्दः, श्री चण्डिका देवता । ह्रां बीजं, ह्रीं शक्तिः, ह्रूं कीलकं, अस्य श्री चण्डिका प्रसाद सिद्ध्यर्थे जपे विनियोगः । ह्रां इत्यादि षडंग न्यासः । ध्यानं । सर्वमंगळ मांगल्ये शिवे सर्वार्त्थ साधिके । शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते ॥ ब्रह्मोवाच । अथातस्सं प्रवक्ष्यामि विस्तरेण…

श्रीकिङ्किणीस्तोत्रम्

|| श्रीकिङ्किणीस्तोत्रम् || किं किं दुःखं सकलजननि क्षीयते न स्मृतायाम् । का का कीर्तिः कुलकमलिनी प्राप्यते नार्चितायाम् ॥ १॥ किं किं सौख्यं सुरवर नुते प्राप्यते न स्तुतायाम् । कं कं योगन्त्वयि न तनुते चित्तमालम्बितायाम् ॥ २॥ स्मृता भवभयध्वंसि पूजितासि शुभङ्करि । स्तुता त्वं वाञ्छितां देवि ददासि करुणाकरे ॥ ३॥ परमानन्दबोधाद्विरूपे तेजस्वरूपिणि – देववृन्दशिरोरत्न निघृष्टचरणाम्बुजे ।…

श्रीकुमारीसहस्रनामस्तोत्रम्

|| श्रीकुमारीसहस्रनामस्तोत्रम् || आनन्दभैरव उवाच वद कान्ते सदानन्दस्वरूपानन्दवल्लभे । कुमार्या देवतामुख्याः परमानन्दवर्धनम् ॥ १॥ अष्टोत्तरसहस्राख्यं नाम मङ्गलमद्भुतम् । यदि मे वर्तते विद्ये यदि स्नेहकलामला ॥ २॥ तदा वदस्व कौमारीकृतकर्मफलप्रदम् । महास्तोत्रं कोटिकोटि कन्यादानफलं भवेत् ॥ ३॥ आनन्दभैरवी उवाच महापुण्यप्रदं नाथ श‍ृणु सर्वेश्वरप्रिय । अष्टोत्तरसहस्राख्यं कुमार्याः परमाद्भुतम् ॥ ४॥ पठित्त्वा धारयित्त्वा वा नरो मुच्येत सङ्कटात् ।…

Nilamata Purana (नीलमत पुराण)

Nilamata Purana (नीलमत पुराण)

नीलमत पुराण एक महत्वपूर्ण हिंदू धार्मिक ग्रंथ है जो विशेष रूप से कश्मीर घाटी के इतिहास, संस्कृति, धर्म, और परंपराओं का विस्तृत वर्णन करता है। इसे कश्मीर घाटी का ‘गजेटियर’ भी कहा जाता है क्योंकि इसमें इस क्षेत्र के भूगोल, तीर्थ स्थलों, और त्योहारों का वर्णन मिलता है। नीलमत पुराण में कश्मीर की प्राचीनता, वहां…

श्रीभैरवीहृदयम्

|| श्रीभैरवीहृदयम् || ॥ श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ ॥ अथ श्रीभैरवीहृदय प्रारम्भः ॥ मेरौ गिरिवरेशानी शिवन्ध्यानपरायणम् । पार्वती परिपप्रच्छ परानुग्रहवाञ्छया ॥ १॥ श्रीपार्वत्युवाच भगवंस्त्वन्मुखाम्भोजाच्छ्रुता धर्मा अनेकशः । पुनह्स्श्रोतुं समिच्छामि भैरवीस्तोत्रमुत्तमम् ॥ २॥ श्रीशङ्कर उवाच शृणु देवि प्रवक्ष्यामि भैरवीहृदयाह्वयम् । स्तोत्रन्तु परमम्पुण्यं सर्वकल्याणकारणम् ॥ ३॥ यस्य श्रवणमात्रेण मङ्गलम्भवति ध्रुवम् । विना ध्यानादिना वापि…

श्रीबगलामुखीहृदयम्

|| श्रीबगलामुखीहृदयम् || अथ हृदयम् । ॐ अस्य श्रीबगलामुखीहृदयस्य नारद ऋषिः । अनुष्टुप् छन्दः । श्रीबगलामुखी देवता । ह्लीं बीजम् । क्लीं शक्तिः । ऐं कीलकम् । श्रीबगलामुखीप्रसादसिद्ध्यर्थे श्रीबगलामुखीहृदयम् जपे विनियोगः ॥ ऋष्यादिन्यासः । ॐ नारदऋषये नमः शिरसि । ॐ अनुष्टुप् छन्दसे नमः मुखे । ॐ श्रीबगलामुखी देवतायै नमः हृदये । ॐ ह्लीं बीजाय नमः…

श्रीछिन्नमस्ताहृदयम्

|| श्री छिन्नमस्ता हृदयम् || श्रीगणेशाय नमः । श्रीपार्वत्युवाच । श्रुतं पूजादिकं सम्यग्भवद्वक्त्राब्जनिःसृतम् । हृदयं छिन्नमस्तायाः श्रोतुमिच्छामि साम्प्रतम् ॥ १॥ ॐ महादेव उवाच । नाद्यावधि मया प्रोक्तं कस्यापि प्राणवल्लभे । यत्वया परिपृष्टोऽहं वक्ष्ये प्रीत्यै तव प्रिये ॥ २॥ ॐ अस्य श्रीछिन्नमस्ताहृदयस्तोत्रमन्त्रस्य भैरव ऋषिः , सम्राट् छन्दः , छिन्नमस्ता देवता , हूं बीजम् , ॐ शक्तिः…

चण्डिकाहृदयस्तोत्रम्

|| चण्डिकाहृदयस्तोत्रम् || अस्य श्री चण्डिका हृदय स्तोत्र महामन्त्रस्य । मार्क्कण्डेय ऋषिः, अनुष्टुप्च्छन्दः, श्री चण्डिका देवता । ह्रां बीजं, ह्रीं शक्तिः, ह्रूं कीलकं, अस्य श्री चण्डिका प्रसाद सिद्ध्यर्थे जपे विनियोगः । ह्रां इत्यादि षडंग न्यासः । ध्यानं । सर्वमंगळ मांगल्ये शिवे सर्वार्त्थ साधिके । शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते ॥ ब्रह्मोवाच । अथातस्सं प्रवक्ष्यामि विस्तरेण…

श्रीदत्तात्रेयापराधक्षमापणस्तोत्रम्

|| श्रीदत्तात्रेयापराध क्षमापण स्तोत्रम् || रसज्ञावशातारकं स्वादुलभ्यम् गृहीतं कदाचिन्न ते नाम दत्त । क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ १॥ वियोन्यन्तरे दैवदार्ढ्या विभोप्राग् गृहीतं कदाचिन्न ते नाम दत्त । क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ २॥ मया मातृगर्भस्थितिप्राप्तकष्टात् गृहीतं कदाचिन्न ते नाम दत्त । क्षमस्वापराधं क्षमस्वापराधं क्षमस्वापराधं प्रभो क्लिन्नचित्त ॥ ३॥ मया जातमात्रेण संमोहितेन गृहीतं…

अपराध क्षमापण स्तोत्रम्

|| अपराधक्षमापणस्तोत्रम् || ॐ अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् । यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥ १॥ सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके । इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ॥ २॥ अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् । तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ ३॥ कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे । गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि ॥ ४॥ सर्वरूपमयी देवी सर्वं देवीमयं जगत्…

श्रीगणेशापराधक्षमापण स्तोत्रम्

|| श्रीगणेशापराधक्षमापणस्तोत्रम् || श्रीगणेशाय नमः । सुमुखो मखभुङ्मुखार्चितः सुखवृद्ध्यै निखिलार्तिशान्तये। अखिलश्रुतिशीर्षवर्णितः सकलाद्यः स सदाऽस्तु मे हृदि ॥ १॥ प्रणवाकृतिमस्तके नयः प्रणवो वेदमुखावसानयोः। अयमेव विभाति सुस्फुटं ह्यवतारः प्रथमः परस्य सः ॥ २॥ प्रथमं गुणनायको बभौ त्रिगुणानां सुनियन्त्रणाय यः। जगदुद्भवपालनात्ययेष्वजविष्ण्वीशसुरप्रणोदकः ॥ ३॥ विधिविष्णुहरेन्द्रदेवतादिगणानां परिपालनाद्विभुः। अपि चेन्द्रियपुञ्जचालनाद्गणनाथः प्रथितोऽर्थतः स्फुटम् ॥ ४॥ अणिमामुखसिद्धिनायका भजतः साधयतीष्टकामनाः। अपवर्गमपि प्रभुर्धियो निजदासस्य तमो…

श्रीदत्तापराधक्षमापणस्तोत्रम्

|| श्रीदत्तापराधक्षमापणस्तोत्रम् || दत्तात्रेयं त्वां नमामि प्रसीद त्वं सर्वात्मा सर्वकर्ता न वेद । कोऽप्यन्तं ते सर्वदेवाधिदेव ज्ञाताऽज्ञातान्मेऽपराधान् क्षमस्व ॥ १॥ त्वदुद्भवत्वात्वदधीनधीत्वात्तवमेव मे वन्द्य उपास्य आत्मन् । अथापि मौढ्यात् स्मरणं न ते मे कृतं क्षमस्व प्रियकृन्महात्मन् ॥ २॥ भोगापवर्गप्रदमार्तबंधुं कारुण्यसिन्धुं परिहाय बन्धुम् । हिताय चाऽन्यं परिमार्गयन्ति हा मादृशो नष्टदृशो विमूढाः ॥ ३॥ न मत्समो यद्यपि पापकर्ता…

Join WhatsApp Channel Download App