धौम्यकृतं श्रीगणेशस्तोत्रम्
|| धौम्यकृतं श्रीगणेशस्तोत्रम् || ॥ श्रीगणेशाय नमः ॥ धौम्य उवाच । नमाम्यहं गणेशानं सर्वसिद्धिप्रदायिनम् । भक्तानां भवयुक्तानामन्येषां विपरीतगम् ॥ ६॥ धन्योऽहं सर्वभावेष्वधुना दृष्ट्वा गजाननम् । किं स्तौमि त्वां महाभाग योगेशं योगरूपिणम् ॥ ७॥ तव दर्शनमात्रेण ज्ञानयुक्तो वदाम्यहम् । स्तोत्रं ते प्रीतिदं पूर्णं शृणु सर्वज्ञसत्तम ॥ ८॥ गणेशाय नमस्तुभ्यं योगशान्तिप्रदायिने । शान्तीनां शान्तिरूपाय हेरम्बाय नमो नमः…