अच्युताष्टकम् ३

|| अच्युताष्टकम् ३ || अच्युताच्युत हरे परमात्मन् राम कृष्ण पुरुषोत्तम विष्णो । वासुदेव भगवन्ननिरुद्ध श्रीपते शमय दुःखमशेषम् ॥ १॥ विश्वमङ्गल विभो जगदीश नन्दनन्दन नृसिंह नरेन्द्र । मुक्तिदायक मुकुन्द मुरारे श्रीपते शमय दुःखमशेषम् ॥ २॥ रामचन्द्र रघुनायक देव दीननाथ दुरितक्षयकारिन् । यादवेद्र यदुभूषण यज्ञ श्रीपते शमय दुःखमशेषम् ॥ ३॥ देवकीतनय दुःखदवाग्ने राधिकारमण रम्यसुमूर्ते । दुःखमोचन दयार्णवनाथ…

अच्युताष्टकम् १

|| अच्युताष्टकम् १ || अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् । श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे ॥ १॥ अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम् । इन्दिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दनं सन्दधे ॥ २॥ विष्णवे जिष्णवे शङ्खिने चक्रिणे रुक्मिणिऱागिणे जानकीजानये । वल्लवीवल्लभायाऽर्चितायात्मने कंसविध्वंसिने वंशिने ते नमः ॥ ३॥ कृष्ण गोविन्द हे राम नारायण श्रीपते वासुदेवाजित…

अच्युतस्तोत्रम् चक्रधरस्तोत्रं च

|| अच्युतस्तोत्रम् चक्रधरस्तोत्रं च || गरुडपुराणान्तर्गतम् सूत उवाच । वक्ष्येऽहमच्युतस्तोत्रं श‍ृणु शौनक सर्वदम् । ब्रह्मा पृष्टो नारदाय यथोवाच तथापरम् ॥ १॥ नारद उवाच । यथाक्षयोऽव्ययो विष्णुः स्तोतव्यो वरदो मया । प्रत्यहं चार्चनाकाले तथा त्वं वक्तुमर्हसि ॥ २॥ ते धन्यास्ते सुजन्मानस्ते हि सर्वसुखप्रदाः । सफलं जीवितं तेषां ये स्तुवन्ति सदाच्युतम् ॥ ३॥ ब्रह्मोवाच । मुने स्तोत्रं…

देवगन्धर्वादिभिः कृतं श्रीकृष्णस्तोत्रम्

|| देवगन्धर्वादिभिः कृतं श्रीकृष्णस्तोत्रम् || ततो देवाः सगन्धर्वा आकाशेऽधिष्ठितास्तदा । तुष्टुवुः पुण्डरीकाक्षं वाग्भिरिष्टाभिरीश्वरम् ॥ १॥ जय देव जगन्नाथ नय विष्णो जगत्पते । जयाजेय नमो देव भूतभावनभावन ॥ २॥ नमः परमसिंहाय दैत्यदानवनाशन । जयाजेय हरे देव योगिध्येय भयापह ॥ ३॥ नारायण नमो देव कृष्ण कृष्ण हरे हरे । आदिकर्तः पुराणात्मन् ब्रह्मयोने सनातन ॥ ४॥ नमस्ते सकलेशाय…

दुर्वाससा कृतं श्रीकृष्णस्तोत्रम्

|| दुर्वाससा कृतं श्रीकृष्णस्तोत्रम् || स्वस्त्यस्तु भवते कृष्ण जगतां स्वस्ति सर्वदा । किं नु नाम जगन्नाथ दुःसाध्यं तव केशव ॥ १॥ त्रिलोकेश त्रिधामासि सर्गसंहारकारकः । देवानामपि देवेश सर्वत्र समदर्शनः ॥ २॥ विष्णो देव हरे कृष्ण नमस्ते चक्रपाणये । नमः स्वभावशुद्धाय शुद्धाय नियताय च ॥ ३॥ शब्दागोचर देवेश नमस्ते भक्तवत्सल । अज्ञानादथ वा ज्ञानाद्यन्मयोक्तं क्षमस्व तत्…

ज्वरकृतं श्रीकृष्णस्तोत्रम्

|| ज्वरकृतं श्रीकृष्णस्तोत्रम् || ज्वर उवाच । नमः कृष्णाय हरये विष्णवे प्रभविष्णवे । आदिदेवाय देवाय पुराणाय गदाभृते ॥ १॥ नमः सहस्रशिरसे सहस्रचरणाय च । सहस्राक्ष नमो नित्यं लोकानामभयंकर ॥ २॥ उद्गीथाय नमो देव यज्ञाधिपतये नमः । नमस्ते चक्रिणे नित्यमसिहस्ताय ते नमः ॥ ३॥ अनन्ताय विरूपाय नमस्ते मधुसूदन । नमस्ते देवदेवेश तुभ्यं देव कपर्दिने ॥ ४॥…

गोपैः कृतं श्रीकृतं श्रीकृष्णस्तोत्रम्

|| गोपैः कृतं श्रीकृतं श्रीकृष्णस्तोत्रम् || गते शक्रे ततः कृष्णः पूज्यमानो व्रजौकसैः । गोवर्धनधरः श्रीमान् विवेश व्रजमेव ह ॥ १॥ तं स्म वृद्धाभिनन्दन्ति ज्ञातयश्च सहोषिताः । धन्याः स्मोऽनुगृहीताः स्मस्त्वद्धृतेन नगेन ह ॥ २॥ गावो वर्षभयात्तीर्णा वयं तीर्णा महाभयात् । तव प्रसादाद्गोविन्द देवतुल्य महाद्युते ॥ ३॥ अमानुषाणि कर्माणि तव पश्याम गोपते । धारणेनास्य शैलस्य विद्मस्त्वां कृष्णमव्ययम्…

गर्गकृतं श्रीकृष्णस्तोत्रम्

|| गर्गकृतं श्रीकृष्णस्तोत्रम् || गर्ग उवाच । हे कृष्ण जगतां नाथ भक्तानां भयभञ्जन । प्रसन्नो भव मामीश देहि दास्यं पदाम्बुजे ॥ १९३॥ त्वत्पित्रा मे धनं दत्तं तेन मे किं प्रयोजनम् । देहि मे निश्चलां भक्तिं भक्तानामभयप्रद ॥ १९४॥ अणिमादिकसिद्धिषु योगेषु मुक्तिषु प्रभो । ज्ञानतत्त्वेऽमरत्वे वा किञ्चिन्नास्ति स्पृहा मम ॥ १९५॥ इन्द्रत्वे वा मनुत्वे वा स्वर्गलोकफले…

कालियकृतं १ श्रीकृष्णस्तोत्रम्

|| कालियकृतं १ श्रीकृष्णस्तोत्रम् || व्यास उवाच । इत्युक्ते ताभिराश्वास्य क्लान्तदेहोऽपि पन्नगः । प्रसीद देवदेवेति प्राह वाक्यं शनैः शनैः ॥ ४३॥ कालीय उवाच । तवाष्टगुणमैश्वर्यं नाथ स्वाभविकं परम् । निरस्तातिशयं यस्य तस्य स्तोष्यामि किन्वहम् ॥ ४४॥ त्वं परस्त्वं परस्याऽऽद्यः परं त्वं तत्परात्मकम् । परस्मात्परमो यस्त्वं तस्य स्तोष्यामि किं न्वहम् ॥ ४५॥ यथाऽहं भवता सृष्टो जात्या…

कालपुरुषकृतं श्रीकृष्णस्तोत्रम्

|| कालपुरुषकृतं श्रीकृष्णस्तोत्रम् || कालपुरुष उवाच । को वाऽहं को यमः का च मृत्युकन्या च व्याधयः । वयं भ्रमामः सततमीशाज्ञापरिपालकाः ॥ ४३॥ यस्य सृष्टा च प्रकृतिर्ब्रह्मविष्णुशिवादयः । सुरा मुनीन्द्रा मनवो मानवाः सर्वजन्तवः ॥ ४४॥ ध्यायन्ते तत्पदाम्भोजं योगिनश्च विचक्षणाः । जपन्ति शश्वन्नामानि पुण्यानि परमात्मनः ॥ ४५॥ यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात् । स्रष्टा ब्रह्माऽऽज्ञया यस्य पाता विष्णुर्यदाज्ञया…

इन्द्रकृतं श्रीकृष्णस्तोत्रम्

|| इन्द्रकृतं श्रीकृष्णस्तोत्रम् || श्रीगणेशाय नमः ॥ इन्द्र उवाच । अक्षरं परमं ब्रह्म ज्योतीरूपं सनातनम् । गुणातीतं निराकारं स्वेच्छामयमनन्तजम् ॥ १॥ भक्तध्यानाय सेवायै नानारूपधरं वरम् । शुक्लरक्तपीतश्यामं युगानुक्रमणेन च ॥ २॥ शुक्लतेजःस्वरूपं च सत्ये सत्यस्वरूपिणम् । त्रेतायां कुङ्कुमाकारं ज्वलन्तं ब्रह्मतेजसा ॥ ३॥ द्वापरे पीतवर्णं च शोभितं पीतवाससा । कृष्णवर्णं कलौ कृष्णं परिपूर्णतमं प्रभुम् ॥ ४॥…

अनन्तकृतं श्रीकृष्णस्तोत्रम्

|| अनन्तकृतं श्रीकृष्णस्तोत्रम् || अनन्त उवाच । त्वमनन्तो हि भगवन्नाहमेव कलांशकः । विश्वैकस्थे क्षुद्रकूर्मे मशकोऽहं गजे यथा ॥ २४॥ असङ्ख्यशेषाः कूर्माश्च ब्रह्मविष्णुशिवात्मकाः । असङ्ख्यानि च विश्वानि तेषामीशः स्वयं भवान् ॥ २५॥ अस्माकमीदृशं नाथ सुदिनं क्व भविष्यति । स्वप्नादृष्टश्च यश्चेशः स दृष्टः सर्वजीविनाम् ॥ २६॥ नाथ प्रयासि गोलोकं पूतां कृत्वा वसुन्धराम् । तामनाथां रुदन्तीं च निमग्नां…

अष्टावक्रकृतं श्रीकृष्णस्तोत्रम्

|| अष्टावक्रकृतं श्रीकृष्णस्तोत्रम् || अष्टावक्र उवाच । गुणातीत गुणाधार गुणबीज गुणात्मक । गुणीश गुणिनां बीज गुणायन नमोऽस्तु ते ॥ ४०॥ सिद्धिस्वरूप सिद्ध्येश सिद्धिबीज परात्पर । सिद्धिसिद्धिगुणाधीश सिद्धानां गुरवे नमः ॥ ४१॥ हे वेदबीज वेदज्ञ वेदिन्वेदविदां वर । वेदाज्ञाताद्यरूपेश वेदाज्ञेश नमोऽस्तु ते ॥ ४२॥ ब्रह्मानन्तेश शेषेन्द्र धर्मादीनामधीश्वर । सर्व सर्वेश शर्वेश बीजरूप नमोऽस्तु ते ॥ ४३॥…

अदितिकृतं श्रीकृष्णस्तोत्रम्

|| अदितिकृतं श्रीकृष्णस्तोत्रम् || अदितिरुवाच । नमस्ते पुण्डरीकाक्ष भक्तानामभयङ्कर । सनातनात्मन्भूतात्मन्सर्वात्मन्भूतभावन ॥ ६॥ प्रणेतर्मनसो बुद्धेरिन्द्रियाणां गुणात्मक । सितदीर्घादिनिःशेषकल्पनापरिवर्जित ॥ ७॥ जन्मादिभिरसंस्पृष्ट स्वप्नादिपरिवर्जित । सन्ध्यारात्रिरहर्भूमिर्गगनं वायुरम्बु च ॥ ८॥ हुताशनो मनो बुद्धिर्भूतादिस्त्वं तथाऽच्युत । सृष्टिस्थितिविनाशानां कर्ता कर्तृपतिर्भवान् ॥ ९॥ ब्रह्मविष्णुशिवाख्याभिरात्ममूर्तिभिरीश्वरः । मायाभिरेतद्व्याप्तं ते जगत्स्थावरजङ्गमम् ॥ १०॥ अनात्मन्यात्मविज्ञानं सा ते माया जनार्दन । अहं ममेति भावोऽत्र यया…

अक्रूरकृतं श्रीकृष्णस्तोत्रम्

|| अक्रूरकृतं श्रीकृष्णस्तोत्रम् || प्रत्युवाच स तं कृष्णमाश्चर्यं भवता विना । किं भविष्यति लोकेषु चरेषु स्थावरेषु च ॥ १॥ तत्राश्चर्यं मया दृष्टं यत्कृष्ण भुवि दुर्लभम् । तदिहापि यथा तत्र पश्यामि च रमामि च ॥ २॥ संगतश्चास्मि लोकानामश्चर्येणेह रूपिणा । अतः परतरं कृष्ण नाश्चर्यं द्रष्टुमुत्सहे ॥ ३॥ को वायं त्रिषु लोकेषु विस्मयं भवता विना । नमः…

अक्रूरकृतं १ श्रीकृष्णस्तोत्रम्

|| अक्रूरकृतं १ श्रीकृष्णस्तोत्रम् || अक्रूर उवाच । तन्मात्ररूपिणेऽचिन्त्यमहिम्ने परमात्मने । व्यापिने नैकरूपैकस्वरूपाय नमो नमः ॥ ४८॥ शब्दरूपाय तेऽचिन्त्यहविर्भूताय ते नमः । नमो विज्ञानरूपाय पराय प्रकृतेः प्रभो ॥ ४९॥ भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् । आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः ॥ ५०॥ प्रसीद सर्वधर्मात्मन् क्षराक्षर महेश्वर । ब्रह्मविष्णुशिवाद्याभिः कल्पनाभिरुदीरितः ॥ ५१॥ अनाख्येयस्वरूपात्मन्ननाख्येयप्रयोजन…

श्रीकृष्णसहस्रनामस्तोत्रम्

|| श्रीकृष्णसहस्रनामस्तोत्रम् || ॐ श्री कृष्णाय परमात्मने नमः । ध्यानं अनन्तनामकं कृष्णं कृपावर्षं कृपार्णवम् । भक्त्या नामसहस्रेण स्तोतुमिच्छामि सर्वदा ॥ १॥ श्री कृष्णचन्द्र! सर्वेश! स्त्रव्यरूप! स्तुतिप्रिय । वेणुगोपाल! राधेश! स्तोतुं त्वां देहि मे वरम् ॥ २॥ प्रेमार्पितमनोबुद्धिं, देहि मे करुणानिधे! । नीलसुन्दररूपस्य, देहि मे दिव्यदर्शनम् ॥ ३॥ अथ श्रीकृष्णसहस्रनामस्तोत्रं प्रारभ्यते । हरिः ॐ – ॐ…

गोपबालैः कृतं श्रीकृष्णरामस्तोत्रम्

|| गोपबालैः कृतं श्रीकृष्णरामस्तोत्रम् || अवरुह्य तरुभ्यश्च बालका बलशालिनः । फलान्यादाय गच्छन्तो ददृशुर्दैत्यपुङ्गवम् ॥ १८॥ महाबलं महाकायं घोरं गर्दभरूपिणम् । आगच्छन्तं महावेगात्कुर्वन्तं शब्दमुल्बणम् ॥ १९॥ तं दृष्ट्वा रुरुदुः सर्वे फलानि तत्यजुर्भिया । कृष्णकृष्णेति शब्दं च प्रचक्रुर्बहुधा भृशम् ॥ २०॥ (गोपबाला ऊचुः ।) अस्मान् रक्ष समागच्छ हे कृष्ण करुणानिधे । हे सङ्कर्षण नो रक्ष प्राणा नो…

श्रीकृष्णरक्षाकवचम्

|| श्रीकृष्णरक्षाकवचम् || गोप्य ऊचुः श्रीकृष्णस्ते शिरः पातु वैकुण्ठः कण्ठमेव हि । श्वेतद्वीपपतिः कर्णौ नासिकां यज्ञरूपधृक् ॥ १॥ नृसिंहो नेत्रयुग्मं च जिह्वां दशरथात्मजः । अधराववतां ते तु नरनाराणावृषी ॥ २॥ कपोलौ पातु ते साक्षात्सनकाद्याः कला हरेः । भालं ते श्वेतवाराहो नारदो भ्रूलतेऽवतु ॥ ३॥ चिबुकं कपिलः पातु दत्तात्रेय उरोऽवतु । स्कन्धौ द्वावृषभः पातु करौ मत्स्यः…

श्रीकृष्णमङ्गलाष्टकम्

|| श्रीकृष्णमङ्गलाष्टकम् || श्रीनारीवदनाम्बुजस्य तरणिः श्रीवत्सधारी हरिः श्रीवैकुण्ठविलासलोलुपमतिः श्रीकौस्तुभालङ्कृतः । श्रीमद्ब्रह्मपिनाकिपूजितपदः श्रीशङ्खचक्राङ्कितः श्रीव्यासार्यमनोऽम्बुजस्थिररतिः कुर्यात्सदा मङ्गलम् ॥ १॥ कस्तूरीयुतगन्धलेपुततनुः कुन्दाब्जमालाधरः केयूरादिसमस्तभूषणयुतः कञ्जादिचिह्नाङ्कितः । मीनाङ्काद्भुतकोटिसुन्दरतनुर्मायातिगो माधवः श्रीव्यासार्यमनोऽम्बुजस्थिररतिः कुर्यात्सदा मङ्गलम् ॥ २॥ देवानामधिपः पिनाकिसुसखो देवारिदर्पापहः कौण्डिन्यादितपस्विसङ्घविनुतः कौन्तेयसंरक्षकः । वेद्याद्यर्थपदक्रमादिसमितो विश्वाधिनाथो हरिः श्रीव्यासार्यमनोऽम्बुजस्थिररतिः कुर्यात्सदा मङ्गलम् ॥ ३॥ पृथ्वीभारनिवारणी सुनिरतः पृथ्वीपतिः पार्थिवैः मान्धातृप्रमुखैः समर्चितपदो मीनान्ततातो गुरुः । नक्षत्राधिपचण्डभानुनयनो नागेन्द्रशायी हरिः…

श्रीकृष्णभजनाष्टकम्

|| श्रीकृष्णभजनाष्टकम् || कंसदलनमुक्तिमिलनभुक्तिभवनकाशितं दुष्टशकटराहुकपटकालियशठशासितम् । दानवमधुकैटभमुरदारुणवकनाशितं कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ १॥ ब्रह्मकिरणमुग्धवदनमङ्गलमयवीक्षणं सान्द्रललितकुञ्जनिकटकेलितरलकारणम् । धर्मविनतकर्मनिरतभोगनिकरधारितं कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ २॥ पूर्णपुरुषयोगजनकभोगसकलधारकं दुस्तरभवपारकपटुनाविकहरिनामकम् । दुर्जनमुखमर्दनगुणवर्द्धनदरदारितं कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ ३॥ वैभवसुखसागरतटशुद्धसलिलशीतलं स्मितरुचिरफुल्लकमलवेणुनिनदकोमलम् । मन्दमलयचन्दनमुखनन्दितशुभवन्दितं कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ ४॥ शान्तसरलभक्तविधुरमाधवमधुसूदनं देवमदनमोहन-अपवर्गविभवधारिणम् । गोपयुवतिवल्लभचिरसुन्दरतरलायितं कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ ५॥ वल्लवललनासुखमुखचुम्बनरतिविह्वलं चारुहसनपीतवसनमोहनशशिमण्डलम् । वन्यकुसुमनम्रसुषमसज्जितदमधारितं कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ ६॥ प्रेमखचितकुञ्जसदनकेलिकुतुकनर्तनं यामुनतटमण्डलनटपाटवजलखेलनम् । लुब्धललितरासकलितकुङ्कुममृदुवासितं कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ ७॥ प्रेमकरुणमूर्तितरुणपूर्तिसकलकारकं भक्तनयनचित्रितनवनाटकनटनायकम् ।…

देवैः कृतं श्रीकृष्णचैतन्यस्तोत्रम्

|| देवैः कृतं श्रीकृष्णचैतन्यस्तोत्रम् || देवा ऊचुः । कुलिशध्वजपद्मगदाङ्कुशाभं चरणं तव नाथ महाभरणम् । रमणं मुनिभिर्विधिशम्भुयुतं प्रणमाम वयं भवभीतिहरम् ॥ २७॥ दरचक्रगदाम्बुजमानधरः सुरशत्रुकठोरशरीरहरः । सचराचरलोकभरश्चपलः खलनाशकरस्सुरकार्यकरः ॥ २८॥ नमस्ते शचीनन्दनानन्दकारिन्महापापसन्तापदुर्लापहारिन् । सुरारीन्निहत्याशु लोकाधिधारिन्स्वभक्त्याघजाताङ्गकोटिप्रहारिन् ॥ २९॥ त्वयाहं स्वरूपेण सत्यं प्रपाल्य त्वया यज्ञरूपेण वेदः प्ररक्ष्यः । स वै यज्ञरूपो भवाँल्लोकधारी शचीनन्दनः शक्रशर्मप्रसक्तः ॥ ३०॥ अनर्पितचरो चिरात्करुणयावतीर्णः कलौ…

श्रीकृष्णकवचम्

|| श्रीकृष्णकवचम् || प्रणम्य देवं विप्रेशं प्रणम्य च सरस्वतीम् । प्रणम्य च मुनीन् सर्वान् सर्वशास्त्रविशारदान् ॥ १॥ श्रीकृष्णकवचं वक्ष्ये श्रीकीर्तिविजयप्रदम् । कान्तारे पथि दुर्गे च सदा रक्षाकरं नृणाम् ॥ २॥ स्मृत्वा नीलाम्बुदश्यामं नीलकुञ्चितकुन्तलम् । बर्हिपिञ्छलसन्मौलिं शरच्चन्द्रनिभाननम् ॥ ३॥ राजीवलोचनं राजद्वेणुना भूषिताधरम् । दीर्घपीनमहाबाहुं श्रीवत्साङ्कितवक्षसम् ॥ ४॥ भूभारहरणोद्युक्तं कृष्णं गीर्वाणवन्दितम् । निष्कलं देवदेवेशं नारदादिभिरर्चितम् ॥ ५॥…

व्रजराजसुताष्टकम्

|| व्रजराजसुताष्टकम् || नवनीरदनिन्दितकान्तिधरं रससागरनागरभूपवरम् । शुभवङ्किमचारुशिखण्डशिखं भज कृष्णनिधिं व्रजराजसुतम् ॥ १॥ भ्रुविशङ्कितवङ्किमशक्रधनुं मुखचन्द्रविनिन्दितकोटिविधुम् । मृदुमन्दसुहास्यसुभाष्ययुतं भज कृष्णनिधिं व्रजराजसुतम् ॥ २॥ सुविकम्पदनङ्गसदङ्गधरं व्रजवासिमनोहरवेशकरम् । भृशलाञ्छितनीलसरोज दृशं भज कृष्णनिधिं व्रजराजसुतम् ॥ ३॥ अलकावलिमण्डितभालतटं श्रुतिदोलितमाकरकुण्डलकम् । कटिवेष्टितपीतपटं सुधटं भज कृष्णनिधिं व्रजराजसुतम् ॥ ४॥ कलनूपुरराजितचारुपदं मणिरञ्जितगञ्जितभृङ्गमदम् । ध्वजवज्रझषाङ्कितपादयुगं भज कृष्णनिधिं व्रजराजसुतम् ॥ ५॥ भृशचन्दनचर्चितचारुतनुं मणिकौस्तुभगर्हितभानुतनुम् । व्रजबालशिरोमणिरूपधृतं भज…

Brahma Puran PDF Book (ब्रह्म पुराण)

Brahma Puran (ब्रह्म पुराण)

ब्रह्म पुराण हिंदू धर्म के अठारह महापुराणों में से एक महत्वपूर्ण पुराण है। यह पुराण भगवान ब्रह्मा को समर्पित है, जो सृष्टि के रचयिता माने जाते हैं। ब्रह्म पुराण में ब्रह्मा की महिमा, सृष्टि की उत्पत्ति, धर्म, आचार, पूजा विधियाँ, और पौराणिक कथाओं का विस्तृत वर्णन है। इसे वैदिक साहित्य का एक महत्वपूर्ण हिस्सा माना…

Bhavishya Puran PDF Book (भविष्य पुराण)

Bhavishya Puran (भविष्य पुराण)

भविष्य पुराण हिंदू धर्म के अठारह महापुराणों में से एक प्रमुख पुराण है। इस पुराण का नाम “भविष्य” (भविष्यकाल) पर आधारित है, जो इसके विषयवस्तु को दर्शाता है। भविष्य पुराण में आने वाले समय के घटनाओं, भविष्यवाणियों, और विभिन्न युगों का वर्णन मिलता है। यह पुराण विशेषकर धार्मिक और सामाजिक परंपराओं, विधियों, और रीति-रिवाजों का…

श्रीव्रजनवीनयुवद्वन्द्वाष्टकम्

|| श्रीव्रजनवीनयुवद्वन्द्वाष्टकम् || श्रीराधाकृष्णौ जयतः । अदुर्विधविदग्धतास्पदविमुग्धवेशश्रियो- रमन्दशिखिकन्धराकनकनिन्दिवासस्त्विषोः । स्फुरत्पुरटकेतकीकुसुमविभ्रमाभ्रप्रभा निभाङ्गमहसोर्भजे व्रजनवीनयूनोर्युगम् ॥ १॥ समृद्धविधुमाधुरीविधुरताविधानोद्धुरै- र्नवाम्बुरुहरम्यतामदविडम्बनारम्भिभिः । विलिम्पदिव कर्णकावलिसहोदरैर्दिक्तटी मुखद्युतिभरैर्भजे व्रजनवीनयूनोर्युगम् ॥ २॥ विलासकलहोद्धतिस्खलदमन्दसिन्दूरभा- गखर्वमदनाङ्कुशप्रकरविब्र्हमैरङ्कितम् । मदोद्धुरमिवोभयोर्मिथुनमुल्लसद्वल्लरी गृहोत्सवरतं भजे व्रजनवीनयूनोर्युगम् ॥ ३॥ घनप्रणयनिर्झरप्रसरलब्धपूर्तेर्मनो ह्रदस्य परिवाहितामनुसरद्भिरस्रैः प्लुतम् । स्फुरत्तनुरुहाङ्कुरैर्नवकदम्बजृम्भश्रियं व्रजत्तदनिशं भजे व्रजनवीनयूनोर्युगम् ॥ ४॥ अनङ्गरणविभ्रमे किमपि विभ्रदाचार्यकं मिथश्चलदृगञ्चलद्युतिशलाकया कीलितम् । जगत्यतुलधर्मभिर्मधुरनर्मभिस्तन्वतो- र्मिथो विजयितां भजे व्रजनवीनयूनोर्युगम् ॥…

श्रीवेणुगोपालाष्टकम्

|| श्रीवेणुगोपालाष्टकम् || कलित-कनक-चेलं खण्डितापत्-कुचेलं गलधृत-वनमालं गर्विताराति-कालम् । कलिमल-हरशीलं कान्ति-धूतेन्द्रनीलं विनमदवन-शीलं वेणुगोपालमीडे ॥ १॥ व्रजयुवति-विलोलं वन्दनानन्दलोलं करधृत-गुरुशैलं कञ्जगर्भाधिपालम् । अभिमत-फलदान-श्रीजितामर्त्य-सालं विनमदवन-शीलं वेणुगोपालमीडे ॥ २॥ घनतर-करुणाश्री-कल्पवल्यालवालं कलशजलधि-कन्या-मोदक-श्रीकपोलम् । श्वसित-विनत-लोकानन्त-दुष्कर्म-तूलं विनमदवन-शीलं वेणुगोपालमीडे ॥ ३॥ शुभद-सुगुण-जालं सूरि-लोकानुकूलं दितिज-तति-करालं दिव्य-दारायितेलम् । मृदु मधुरवचः श्रीदूरित श्रीरसालं (?) विनमदवन-शीलं वेणुगोपालमीडे ॥ ४॥ मृगमद-तिलक-श्रीमधुर स्वीयफालं (?) जगदुदयलय-स्थित्यात्मकात्मीय-खेलम् । सकल-मुनिजनाली-मानसान्तर्मरालं विनमदवन-शीलं वेणुगोपालमीडे ॥…

वेणुगोपालस्तोत्रम्

|| वेणुगोपालस्तोत्रम् || कारुण्यादेव देव प्रवरयदुकुलाम्भोधिभास्वच्छशाङ्क- लीलाकैवल्यमेतज्जगति विजयते वेणुगानं मनोज्ञम् । पीयूषानन्दनादाश्रवणहृतभवध्वान्ततान्ताः परस्मिन् तत्त्वे विश्रान्तभावाः स्थिरचरनिकराः लिल्यिरे प्राकृताश्च ॥ १॥ गोपा गोप्यश्च गावो जडतरमतयः श्यामधामाभिरामे नानाकामप्रपूरे कलिकृतदुरितश्रेणिकानां विरामे । यन्नादाकृष्टचित्ताः परमसुखमये वेणुगानैकलोले संसारध्वान्तहन्त्रीं यमिजननिवहैर्दुर्लभां भक्तिमापुः ॥ २॥ कर्मव्रातैः प्रजाभिर्धनततिभिरपि प्राप्नुयुर्नैव मोक्षं त्यागेनैके भजन्ते परमपदमिति प्रोच्यते वेदशीर्षैः । त्यागः कामं जनानां भवविकलधियं दुष्करोऽप्यञ्जसैव त्यक्त्वा पादं भजन्ते…

श्रीवेणुगोपालस्वामिनः मङ्गलाष्टकम्

|| श्रीवेणुगोपालस्वामिनः मङ्गलाष्टकम् || ॐ गं गणपतये नमः । ॐ श्री वागीश्वर्यै नमः ॥ अथ श्रीमद्धर्मपुरीवासिनः श्री वेणुगोपालस्वामिनः मङ्गळाष्टकम् । दक्षिणे सत्यभामा च वामे ते रुक्मिणी विभो! धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ १॥ वेणुभूषितहस्ताय वेणुगानप्रियात्मने । धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ २॥ पीताम्बराञ्चितायास्मै प्रणतः क्लेशनशिने । धर्मपूर्वेणुगोपाल ! तुभ्यं कृष्णाय मङ्गलम् ॥ ३॥…

श्रीमुरलीधरगोपालाष्टकम्

|| श्रीमुरलीधरगोपालाष्टकम् || नमामि गोपिकाकान्तं द्विभुजं मुरलीधरम् । शोणाधरं गिरिधरं भक्तदुःखहरं हरिम् ॥ १॥ सतोयमेघद्युतिगर्वहारिस्फुरद्युतिः स्मर्तृभयापहारि । कृष्णाय भूम्ने कमलावराय नमोऽस्तु तस्मै मुरलीधराय ॥ २॥ यो भूमिभारव्यपनुत्तयेऽत्र ब्रह्मादिदेवार्थित एव पुत्रः । बभूव भुव्यानकदुन्दुभेर्यो नमोऽस्तु तस्मै मुरलीधराय ॥ ३॥ अपाययत्स्तन्यमिषाद्विषं या तस्यै ददौ मात्रुचितां गतिं यः । कारुण्यसिन्धुर्निहितासुराय नमोऽस्तु तस्मै मुरलीधराय ॥ ४॥ गाश्चारयन्गोपकुमारयुक्तः सुरद्विषोऽहन्निजकार्यसक्तः ।…

मुचुकुन्दस्तुतिः

|| मुचुकुन्दस्तुतिः || मुचकुन्द उवाच कृष्णाय वासुदेवाय देवकीनन्दनाय च । नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ १॥ नमः पङ्कजनभाय नमः पङ्कजमालिने । नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ २॥ नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने । प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥ ३॥ नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे । सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः ॥ ४॥ हरे मत्समः पातकी नास्ति भूमौ…

श्रीमुकुन्दस्मरणाष्टकम्

|| श्रीमुकुन्दस्मरणाष्टकम् || जगद्गुरु श्रीनिम्बार्काचार्यपीठाधीश्वर श्रीराधासर्वेश्वरशरणदेवाचार्य महाराज विरचित कदम्बकुञ्जावलिशोभमानं, वेणुं क्वणन्तं यमुनाप्रतीरे । श्रीराधया सार्द्धमुपासनीयं, श्रीमन्मुकुन्दं मनसा स्मरामि ॥ १॥ वृन्दावने नित्यनिकुञ्जमध्ये, हिरण्यसिंहासनराजमानम् । सखीकदम्बैः सह सेव्यमानं श्रीमन्मुकुन्दं मनसा स्मरामि ॥ २॥ लावण्य-कारुण्यगुणैकधाम, वीधीशदेवेन्द्रसुमृग्यमाणम् । वेदैः पुराणै-र्नितरां प्रगेयं श्रीमन्मुकुन्दं मनसा स्मरामि ॥ ३॥ गन्धर्वगेयं श्रुतिमन्त्रवर्ण्य, व्रजे वसन्तं व्रजजीवनञ्च । सद्भिः प्रभातेऽनुदिनं प्रगीतं श्रीमन्मुकुन्दं मनसा स्मरामि…

श्रीमुकुन्दस्तोत्रम्

|| श्रीमुकुन्दस्तोत्रम् || श्रीधाम्नि दुग्धोदधिपुण्डरीके यश्चञ्चरीकद्युतिमातनोति । नीलोत्पलश्यामलदेहकान्तिः स वोऽस्तु भूत्यै भगवान्मुकुन्दः ॥ १॥ वृन्दारका यस्य भवन्ति भृङ्गाः मन्दाकिनी यन्मकरन्दबिन्दुः । तवारविन्दाक्ष पदारविन्दं वन्दे चतुर्वर्गचतुष्पदं तत् ॥ २॥ जयत्युपेन्द्रः स चकार दूतो बिभित्सया यः क्षणलब्धलक्ष्यया । दृशेव कोपारुणया रिपोरुरः स्वयं भयाद्भिन्नमिवास्रपाटलम् ॥ ३॥ सकलभुवनबन्धोर्वैरमिन्दोः सरोजैः अनुचितमिति मत्वा यः स्वपादारविन्दम् । घटयितुमिव मायी योजयत्याननेन्दौ वटदलपुटशायी मङ्गलं…

श्रीमुकुन्दवन्दनाष्टकम्

|| श्रीमुकुन्दवन्दनाष्टकम् || देवं प्रपन्नार्तिहरं शरण्यं सत्यं चिदानन्दमयस्वरूपम् ॥ मुक्तोपसृप्यं नवनीरदाभं श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ १॥ सौशील्यवात्सल्यगुणाढ्यमीशं कुञ्जेश्वरं रासविहारशीलम् ॥ सखीसमूहैः परिगीयमानं श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ २॥ माधुर्यभावे मधुरस्वरूपमैश्वर्यभावे भगवत्स्वरूपम् ॥ वात्सल्यभावे च सुबालरूपं श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ ३॥ वृन्दावने नित्य-निकुञ्जमध्ये रसात्मकं रासविहारिरूपम् । ब्रह्मेशवृन्दारकवृन्दवन्द्यं श्रीमन्मुकुन्दं प्रणमामि नित्यम् ॥ ४॥ मोक्षप्रदानाद्धि मुकुन्दसंज्ञं ज्ञानक्रियाशक्तिबलादिपूर्णम् ॥ सञ्चिन्तनीयं…

श्रीमद्भगवद्गीताष्टकम्

|| श्रीमद्भगवद्गीताष्टकम् || ॥ श्रीकृष्णो विजयतेतराम् ॥ नमः श्री राघवानन्द-पदपङ्कजरेणवे । यत्कृपालवमात्रेण अहमज्ञोऽपि तारितः ॥ ॥ अथ श्रीमद्भगवद्गीताष्टकम् ॥ वेदार्थतत्त्वनिपुणैः सादसि प्रगीतां अज्ञानतान्तपटलं परिकर्षयन्तीम् । विज्ञानसूक्तिभिरलङ्कृतगात्रशोभां गीतां भजामि सततं जगदर्कवर्णाम् ॥ १॥ श्रीकृष्णसुन्दरमुखप्रभवां सुशीलां आदौ सुधीररणकर्कशजिष्णुपीताम् । विज्ञानत्त्वनिचयां निगमैकवेद्यां गीतां भजामि सततं सकलार्थसाराम् ॥ २॥ श्रीशङ्करादिकृतभाष्यपवित्रसूक्तिः अद्वैतवादशिशिरीकतमञ्जुवाणी । सुश्लोकसप्तशतनिर्मितपुष्पवल्ली गीता करोतु विमलं कलुषं मनो मे…

श्रीभगवत्स्तुतिः सायङ्कालीन

|| श्रीभगवत्स्तुतिः सायङ्कालीन || श्रीहंसञ्च सनत्कुमारप्रभृतीन् वीणाधरं नारदं निम्बादित्यगुरूंश्च द्वादशगुरून् श्रीश्रीनिवासादिकान् । वन्दे सुन्दरभट्टदेशिकमुखान् वस्विन्दुसङ्ख्यायुतान् श्रीव्यासाद्धरिमध्यगाच्च परतः सर्वान् गुरून्सादरम् ॥ १॥ हे निम्बार्क! दयानिधे! गुणनिधे! हे भक्तचिन्तामणे! हे आचार्यशिरोमणे! मुनिगणैरामृग्यपादाम्बुज! । हे सृष्टिस्थितिपालक! प्रभवन! हे नाथ! मायाधिप! हे गोवर्द्धनकन्दरालय! विभो! मां पाहि सर्वेश्वर! ॥ २॥ कस्तूरीतिलकं ललाटपटले वक्षःस्थले कौस्तुभं नासाग्रे वरमौक्तिकं करतले वेणुः करे कङ्कणम्…

श्रीभक्तिवैजयन्तीस्तोत्रम्

|| श्रीभक्तिवैजयन्तीस्तोत्रम् || श्रीकृष्णाय नमः समस्तहृदयाम्भोजावदातत्विषे भक्तौघस्मयमानमानसवते दैत्यावलीविद्विषे । गोपीवल्लविकाय नायकगुणग्रामप्रणालीजुषे लीलावैणविकाय कायसुषमानीलाम्बुजश्रीजुषे ॥ १॥ अव्यक्तं श्रुतिशेखरान्तरवने व्यक्तं च वृन्दावने गूढं वेदविचारचारुवदनैगूढं च गोपीजनैः । अस्पष्टं हृदि योगिनामपिः पुनः स्पष्टं च सेवावतां श्रीकृष्णं कमनीयकान्तिकुहकं ब्रह्माद्भुतं संश्रये ॥ २॥ पद्मापीनपयोधरप्रणिहितं प्राणप्रदं प्राणिनां पिजञ्छाडम्बरपीवरं प्रणायिनीप्रेमाप्रियं भावुकम् । पीतं पद्मविलोचनापरिषदा प्रत्यक्षतः प्रीतया पायाद्वः प्रतिमाभिनापिहितं पीताम्बरं प्राभवम् ॥ ३॥…

बिन्दुमाधवाष्टकम्

|| बिन्दुमाधवाष्टकम् || श्री गणेशाय नमः । कलिन्दजातटाटवीलतानिकेतनान्तर- प्रगल्भवल्लविस्फुरद्रतिप्रसङ्गसङ्गतम् । सुधारसार्द्रवेणुनादमोदमाधुरीमद- प्रमत्तगोपगोव्रजं भजामि बिन्दुमाधवम् ॥ १॥ गदारिशङ्खचक्रशार्ङ्गभृच्चतुष्करं कृपा- कटाक्षवीक्षणामृताक्षितामरेन्द्रनन्दनम् । सनन्दनादिमौनिमानसारविन्दमन्दिरं जगत्पवित्रकीर्तिदं भजामि बिन्दुमाधवम् ॥ २॥ दिगीशमौलिनूत्नरत्ननिःसरत्प्रभावली- विराजितांघ्रिपङ्कजं नवेन्दुशेखराब्जजम् । दयामरन्दतुन्दिलारविन्दपत्रलोचनं विरोधियूथभेदनं भजामि बिन्दुमाधवम् ॥ ३॥ पयः पयोधिवीचिकावलीपयःपृषन्मिलद्भुजङ्ग- पुङ्गवाङ्गकल्पपुष्पतल्पशायिनम् । कटीतटिस्फुटीभवत्प्रतप्तहाटकाम्बरं निशाटकोटिपाटनं भजामि बिन्दुमाधवम् ॥ ४॥ अनुश्रवापहारकावलेपलोपनैपुणी- पयश्चरावतारतोषितारविन्दसम्भवम् । महाभवाब्धिमध्यमग्रदीनलोकतारकं विहङ्गराट्तुरङ्गमं भजामि बिन्दुमाधवम् ॥ ५॥…

श्रीबाललीलाष्टकम्

|| श्रीबाललीलाष्टकम् || (भक्तसुखदमञ्जरी ग्रन्थात्) भज विठ्ठलबालं गोकुलपालं रसिकरसालं देहधरम् । भज रुक्यिणिगोदं परमविनोदं प्रकटप्रमोदं मोहकरम् ॥ १॥ भज सुन्दरवक्त्रं बालचरित्रं परमपवित्रं मनहारि । भज जयरसरूपं गोकुलभूपं परमानूपं सुखकारि ॥ २॥ जय मङ्गल मङ्गल सहज सुमङ्गल दुरित‍अमङ्गल जनत्राता । जय आनन्दकारक बहुसुखदायक ईक्षणसायकरसदाता ॥ ३॥ भज कण्डाभरणं परमसुवरणं अङ्गदधरणं रुचिकर्ता । भज लीलाकरणं बहुरसभरणं आधिसुहरणं…

शचीसुताष्टकम्

|| शचीसुताष्टकम् || नवगौरवरं नवपुष्पशरं नवभावधरं नवलास्यपरम् । नवहास्यकरं नवहेमवरं प्रणमामि शचीसुतगौरवरम् ॥ १॥ नवप्रेमयुतं नवनीतशुचं नववेशकृतं नवप्रेमरसम् । नवधा विलसत् शुभप्रेममयं प्रणमामि शचीसुतगौरवरम् ॥ २॥ हरिभक्तिपरं हरिनामधरं करजप्यकरं हरिनामपरम् । नयने सततं प्रणयाश्रुधरं प्रणमामि शचीसुतगौरवरम् ॥ ३॥ सततं जनताभवतापहरं परमार्थपरायणलोकगतिम् । नवलेहकरं जगत्तापहरं प्रणमामि शचीसुतगौरवरम् ॥ ४॥ निजभक्तिकरं प्रियचारुतरं नटनर्तननागरराजकुलम् । कुलकामिनिमानसलास्यकरं प्रणमामि शचीसुतगौरवरम्…

शास्तुः ध्यानाष्टकम्

|| शास्तुः ध्यानाष्टकम् || श्रीगणेशाय नमः । नमामि धर्मशास्तारं योगपीठस्थितं विभुम् । प्रसन्नं निर्मलं शान्तं सत्यधर्मव्रतं भजे ॥ १॥ आश्यामकोमलविशालतनुं विचित्र- वासो वसानमरुणोत्पलवामहस्तम् । उत्तुङ्गरत्नमुकुटं कुटिलाग्रकेशं शास्तारमिष्टवरदं शरणं प्रपद्ये ॥ २॥ हरिहरशरीरजन्मा मरकतमणिभङ्गमेचकच्छायः । विजयतु देवः शास्ता सकलजगच्चित्तमोहिनीमूर्तिः ॥ ३॥ पार्श्वस्थापत्यदारं वटविटपितलन्यस्तसिंहासनस्थम् । श्यामं कालाम्बरं च श्रितकरयुगलादर्शचिन्तामणिं च । शस्त्री निस्त्रिंशबाणासनविशिखधृतं रक्तमाल्यानुलेपं वन्दे शास्तारमीड्यं घनकुटिलबृहत्कुन्तलोदग्रमौळिम्…

शास्तासूक्तम्

|| शास्तासूक्तम् || धा॒ता वि॑धा॒ता प॑र॒मोतसं॒दृक् प्र॒जाप॑तिः परमे॒ष्ठी वि॒राजा᳚ । स्तोमा॒श्छंदा॑ꣳसि नि॒विदो॑ म आहुरे॒तस्मै॑ रा॒ष्ट्रम॒भि सं न॑माम ॥ अ॒भ्याव॑र्तध्व॒मुप॒ मेत॑ सा॒कम॒यꣳ शा॒स्ताऽधि॑पतिर्वो अस्तु । अ॒स्य वि॒ज्ञान॒मनु॒ सꣳर॑भध्वमि॒मं प॒श्चादनु॑ जीवाथ॒ सर्वे᳚॥ भूत॑ना॒थाय॑ वि॒द्महे॑ भव॑पु॒त्राय॑ धीमही । तन्नः॑ शास्ता प्र॒चो॑द॒या᳚त् । ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ तैत्तिरीय-संहिता ॥ ५। ७। ४॥ धाता विधाता परमोतसंदृक् प्रजापतिः परमेष्ठी विराजा…

श्रीशास्ताकेशादिपादान्त वर्णनस्तोत्रम्

|| श्रीशास्ताकेशादिपादान्त वर्णनस्तोत्रम् || आशानुरूपफलदं चरणारविन्द भाजामपारकरुणार्णवपूर्णचन्द्रम् । नाशाय सर्वविपदामपि नौमि नित्य- मीशानकेशवभवं भुवनैकनाथम् ॥ १॥ पिञ्छावली वलयिताकलितप्रसून- सञ्जातकान्तिभरभासुरकेशभारम् । शिज्ञान मञ्जुमणिभूषण रञ्जिताङ्गं चन्द्रावतंसहरिनन्दनमाश्रयामि ॥ २॥ आलोलनीलललिताळुकहाररम्य माकम्रनासमरुणाधरमायताक्षम् । आलम्बनं त्रिजगतां प्रमथाधिनाथं मानम्रलोक हरिनन्दनमाश्रयामि ॥ ३॥ कर्णावलम्बिमणिकुण्डलभासमान गण्डस्थलं समुदिताननपुण्डरीकम् । अर्णोजनाभहरयोरिव मूर्तिमन्तं पुण्यातिरेकमिव भूतपतिं नमामि ॥ ४॥ उद्दण्डचारुभुजदण्डयुगाग्रसंस्थं कोदण्डबाणमहितान्तमतान्तवीर्यम् । उद्यत्प्रभापटलदीप्रमदभ्रसारं नित्यं प्रभापतिमहं प्रणतो भवामि…

शबरीशाष्टकम्

|| शबरीशाष्टकम् || (मूलमन्त्राक्षरमालास्तोत्रम्) ओङ्कारमृतबिन्दुसुन्दरतनुं मोहान्धकारारुणं दीनानां शरणं भवाब्धितरणं भक्तैकसंरक्षणम् । दिष्ट्या त्वां शबरीश, दिव्यकरुणापीयूषवारान्निधिं दृष्ट्योपोषितया पिबन्नयि विभो धन्योऽस्मि धन्याऽस्म्यहम् ॥ १॥ “घ्रू”ङ्कारात्मकमुग्रभावविलसद्रूपं, कराग्रोल्लसत्- कोदण्डाधिकचण्ड,माशुगमहावेगे तुरङ्गे स्थितम् । दृष्ट्यैवारिविमर्ददक्ष,मभयङ्कारं शरण्यं सतां, शास्तारं मणिकण्ठमद्भुतमहावीरं समाराधये ॥ २॥ “न”भ्राणं हृदयान्तरेषु, महिते पम्पात्रिवेणीजले, प्रौढारण्यपरम्परासु, गिरिकूटेप्वम्बरोल्लङ्घिषु । हंहो किं बहुना? – विभान्तमनिशं सर्वत्र तेजोमयं कारुण्यामृतवर्षिणं हरिहरानन्दाङ्कुरं भावये ॥ ३॥…

श्रीशबरिगिर्यष्टकम्

|| श्रीशबरिगिर्यष्टकम् || शबरिगिरिपते भूतनाथ ते जयतु मङ्गलं मञ्जुलं महः । मम हृदिस्थितं ध्वान्तरं तवः नाशयद्विदं स्कन्द सोदर ॥ १॥ कान्तगिरिपते कामितार्थदं कान्तिमद्तव काङ्क्षितं मया । दर्शयाद्भुतं शान्तिमन्महः पूरयार्थितं शबरिविग्रह ॥ २॥ पम्पयाञ्चिते परममङ्गले दुष्टदुर्गमे गहनकानने । गिरिशिरोवरे तपसिलालसं ध्यायतां मनः हृष्यति स्वयम् ॥ ३॥ त्वद्दिदृक्षय सञ्चितव्रताः तुलसिमालिकः कम्रकन्धरा । शरण भाषिण शङ्घसोजन कीर्तयन्तिते दिव्यवैभवम्…

श्रीशबरिगिरीशाष्टकम्

|| श्रीशबरिगिरीशाष्टकम् || यजनसुपूजितयोगिवरार्चित यादुविनाशक योगतनो यतिवरकल्पितयन्त्रकृतासनयक्षवरार्पितपुष्पतनो । यमनियमासनयोगिहृदासनपापनिवारणकालतनो जय जय हे शबरीगिरिमन्दिरसुन्दर पालय मामनिशम् ॥ १॥ मकरमहोत्सव मङ्गलदायक भूतगणावृत देवतनो मधुरिपुमन्मथमारकमानित दीक्षितमानस मान्यतनो । मदगजसेवित मञ्जुलनादकवाद्यसुघोषितमोदतनो जय जय हे शबरीगिरिमन्दिरसुन्दर पालय मामनिशम् ॥ २॥ जय जय हे शबरीगिरिनायक साधय चिन्तितमिष्टतनो कलिवरदोत्तम कोमलकुन्तल कञ्जसुमावलिकान्ततनो । कलिवरसंस्थित कालभयार्दित भक्तजनावनतुष्टमते जय जय हे शबरीगिरिमन्दिरसुन्दर पालय मामनिशम् ॥…

महाशास्त्रनुग्रहकवचम्

|| महाशास्त्रनुग्रहकवचम् || श्रीगणेशाय नमः । अथ महाशास्त्रनुग्रहकवचं प्रारभ्यते ॥ श्रीदेव्युवाच भगवन् देवदेवेश सर्वज्ञ त्रिपुरान्तक । प्राप्ते कलियुगे घोरे महाभूतैः समावृते ॥ १॥ महाव्याधिमहाव्याळघोरराजैः समावृते । दुःस्वप्नघोरसन्तापैः दुर्विनीतैः समावृते ॥ २॥ स्वधर्मविरते मार्गे प्रवृत्ते हृदि सर्वदा । तेषां सिद्धिं च मुक्तिं च त्वं मे ब्रूहि वृषध्वज ॥ ३॥ ईश्वर इवाच श‍ृणु देवि महाभागे सर्वकल्याणकारणे ।…

Join WhatsApp Channel Download App