॥ मधुराष्टकम् ॥
अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरं ।
हृदयं मधुरं गमनं मधुरं मधुराधिपते रखिलं मधुरं ॥
वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरं ।
चलितं मधुरं भ्रमितं मधुरं मधुराधिपते रखिलं मधुरं ॥
वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ ।
नृत्यं मधुरं सख्यं मधुरं मधुराधिपते रखिलं मधुरं ॥
गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरं ।
रूपं मधुरं तिलकं मधुरं मधुराधिपते रखिलं मधुरं ॥
करणं मधुरं तरणं मधुरं हरणं मधुरं रमणं मधुरं ।
वमितं मधुरं शमितं मधुरं मधुराधिपते रखिलं मधुरं ॥
गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा ।
सलिलं मधुरं कमलं मधुरं मधुराधिपते रखिलं मधुरं ॥
गोपी मधुरा लीला मधुरा युक्तं मधुरं मुक्तं मधुरं।
दृष्टं मधुरं सृष्टं मधुरं मधुराधिपते रखिलं मधुरं ॥
गोपा मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा ।
दलितं मधुरं फलितं मधुरं मधुराधिपते रखिलं मधुरं ॥
- hindiश्री दामोदर अष्टकम
- malayalamകൃഷ്ണാഷ്ടകം
- punjabiਕ੍ਰੁਰੁਇਸ਼੍ਣਾਸ਼੍ਟਕਮ੍
- gujaratiકૃષ્ણ અષ્ટકમ્
- bengaliকৃষ্ণ অষ্টকম্
- kannadaಕೃಷ್ಣ ಅಷ್ಟಕಮ್
- teluguమధురాష్టకం
- tamilமதுராஷ்டகம்
- hindiश्री कुंजबिहारी अष्टक अर्थ सहित
- hindiश्री कृष्णाष्टकम्
- englishShri Krishnashtakam
- englishShri Achyutashtakam
- englishShri Venu Gopala Ashtakam
- englishShri Bal Mukundashtakam
- englishShri Krishnashtakam
Found a Mistake or Error? Report it Now


