श्री महेश्वर पञ्चरत्न स्तोत्रम् PDF संस्कृत
Download PDF of Maheshwara Pancharatna Stotram Sanskrit
Misc ✦ Stotram (स्तोत्र संग्रह) ✦ संस्कृत
|| श्री महेश्वर पञ्चरत्न स्तोत्रम् || प्रातः स्मरामि परमेश्वरवक्त्रपद्मं फालाक्षिकीलपरिशोषितपञ्चबाणम् । भस्मत्रिपुण्ड्ररचितं फणिकुण्डलाढ्यं कुन्देन्दुचन्दनसुधारसमन्दहासम् ॥ १ ॥ प्रातर्भजामि परमेश्वरबाहुदण्डान् खट्वाङ्गशूलहरिणाहिपिनाकयुक्तान् । गौरीकपोलकुचरञ्जितपत्ररेखान् सौवर्णकङ्कणमणिद्युतिभासमानान् ॥ २ ॥ प्रातर्नमामि परमेश्वरपादपद्मं पद्मोद्भवामरमुनीन्द्रमनोनिवासम् । पद्माक्षनेत्रसरसीरुह पूजनीयं पद्माङ्कुशध्वजसरोरुहलाञ्छनाढ्यम् ॥ ३ ॥ प्रातः स्मरामि परमेश्वरपुण्यमूर्तिं कर्पूरकुन्दधवलं गजचर्मचेलम् । गङ्गाधरं घनकपर्दिविभासमानं कात्यायनीतनुविभूषितवामभागम् ॥ ४ ॥ प्रातः स्मरामि परमेश्वरपुण्यनाम श्रेयः प्रदं सकलदुःखविनाशहेतुम् ।...
READ WITHOUT DOWNLOADश्री महेश्वर पञ्चरत्न स्तोत्रम्
READ
श्री महेश्वर पञ्चरत्न स्तोत्रम्
on HinduNidhi Android App