|| नाग कवचम् (Naag Kavacham PDF) ||
नागराजस्य देवस्य कवचं सर्वकामदम् ।
ऋषिरस्य महादेवो गायत्री छन्द ईरितः ॥
ताराबीजं शिवाशक्तिः क्रोधबीजस्तु कीलकः ।
देवता नागराजस्तु फणामणिविराजितः ॥
सर्वकामार्थ सिद्ध्यर्थे विनियोगः प्रकीर्तितः ।
अनन्तो मे शिरः पातु कण्ठं सङ्कर्षणस्तथा ॥
कर्कोटको नेत्रयुग्मं कपिलः कर्णयुग्मकम् ।
वक्षःस्थलं नागयक्षः बाहू कालभुजङ्गमः ॥
उदरं धृतराष्ट्रश्च वज्रनागस्तु पृष्ठकम् ।
मर्माङ्गमश्वसेनस्तु पादावश्वतरोऽवतु ॥
वासुकिः पातु मां प्राच्ये आग्नेयां तु धनञ्जयः ।
तक्षको दक्षिणे पातु नैरृत्यां शङ्खपालकः ॥
महापद्मः प्रतीच्यां तु वायव्यां शङ्खनीलकः ।
उत्तरे कम्बलः पातु ईशान्यां नागभैरवः ॥
ऊर्ध्वं चैरावतोऽधस्तात् नागभेतालनायकः ।
सदा सर्वत्र मां पातु नागलोकाधिनायकाः ॥
इति नाग कवचम् ।
Found a Mistake or Error? Report it Now