॥ श्री गजानन स्तोत्र ॥
|| देवर्षि उवाचुः ||
विदेहरूपं भवबन्धहारं सदा
स्वनिष्ठं स्वसुखप्रद तम्।
अमेयसांख्येन च लक्ष्यमीशं
गजाननं भक्तियुतं भजामः॥
मुनीन्द्रवन्यं विधिबोधहीनं
सुबुद्धिदं बुद्धिधरं प्रशान्तम्।
विकारहीनं सकलाङ्गकं वै
गजाननं भक्तियुतं भजामः॥
अमेयरूपं हृदि संस्थितं तं
ब्रह्माहमेकं भ्रमनाशकारम्।
अनादिमध्यान्तमपाररूपं
गजाननं भक्तियुतं भजामः॥
जगत्प्रमाणं जगदीशमेवमगम्यमाद्यं
जगदादिहीनम्।
अनात्मनां मोहप्रदं पुराणं
गजाननं भक्तियुतं भजामः॥
न पृथ्विरूपं न जलप्रकाशं न
तेजसंस्थं न समीरसंस्थम्।
न खे गतं पञ्चविभूतिहीनं
गजाननं भक्तियुतं भजामः॥
न विश्वगं तैजसगं न प्राज्ञं
समष्टिव्यष्टिस्थमनन्तगं तम्।
गुणैर्विहीनं परमार्थभूतं
गजाननं भक्तियुतं भजामः॥
गुणेशगं नैव च बिन्दुसंस्थं न
देहिनं बोधमयं न दुष्टिम्।
सुयोगहीनं प्रवदन्ति तत्स्थं
गजाननं भक्तियुतं भजामः॥
अनागतं ग्रैवगतं गणेशं कथं
तदाकारमयं वदामः।
तथापि सर्वं प्रतिदेहसंस्थं
गजाननं भक्तियुतं भजामः॥
यदि त्वया नाथ घृतं न किंचित्तदा
कथं सर्वमिदं भजामि।
अतो महात्मानमचिन्त्यमेवं
गजाननं भक्तियुतं भजामः॥
सुसिद्धिदं भक्तजनस्य देवं
सकामिकानामिह सौख्यदं तम्।
अकामिकानां भवबन्धहारं
गजाननं भक्तियुतं भजामः॥
सुरेन्द्रसेव्यं ह्यसुरैः सुसेव्यं
समानभावेन विराजयन्तम्।
अनन्तबाहुं मुषकध्वज तं
गजाननं भक्तियुतं भजामः॥
सदा सुखानन्दमयं जले च
समुद्रजे इक्षुरसे निवासम्।
द्वन्द्वस्य यानेन च नाशरूपं
गजाननं भक्तियुतं भजामः॥
चतुःपदार्था विविद्यप्रकाशास्त
एवं हस्ताः सचतुर्भुजं तम्।
अनाथनाथं च महोदरं वे
गजाननं भक्तियुतं भजामः॥
महाखुमारुढमकालकालं
विदेहयोगेन च लभ्यमानम्।
अमायिनं मायिकमोहदं तं
गजाननं भक्तियुतं भजामः॥
रविस्वरूपं रविभासहीनं
हरिस्वरूपं हरिबोधहीनम्।
शिवस्वरूपं शिवभासनाशं
गजाननं भक्तियुतं भजामः॥
महेश्वरीस्थं च सुशक्तिहीनं
प्रभुं परेशं परवन्द्यमेवम्।
अचालकं चालकबीजरूपं
गजाननं भक्तियुतं भजामः॥
शिवादिदेवैश्च खगैश्च वन्यं
नरैर्लतावृक्षपशुप्रमुख्यैः।
चराचरैर्लोकविहीनमेकं
गजाननं भक्तियुतं भजामः॥
मनोवचोहीनतया सुसंस्थं
निवृत्तिमात्रं ह्मजमव्ययं तम्।
तथापि देवं पुरसंस्थितं तं
गजाननं भक्तियुतं भजामः॥
वयं सुधन्या गणपस्तवेन
तथैव मर्त्यार्चनतस्तथैव।
गणेशरूपाय कृतास्त्वया तं
गजाननं भक्तियुतं भजामः॥
गजास्यबीजं प्रवदन्ति वेदास्तदेव
चिह्नेन च योगिनस्त्वाम्।
गच्छन्ति तेनैव गजानन त्वां
गजाननं भक्तियुतं भजामः॥
पुराणवेदाः शिवविष्णुकाद्याः
शुक्रादयो ये गणपस्तवे वै।
विकुण्ठिताः किं च वयं स्तुवीमो
गजाननं भक्तियुतं भजामः॥
।। इति श्री गजानन स्तोत्रम् ।।
Read in More Languages:- hindiऋणहर्ता श्री गणेश स्तोत्रम्
- marathiश्री गणपति अथर्वशीर्ष स्तोत्रम
- gujaratiશ્રી ગણપતિ અથર્વશીર્ષ સ્તોત્રમ
- hindiश्री गणपति अथर्वशीर्ष स्तोत्रम हिन्दी पाठ अर्थ सहित (विधि – लाभ)
- sanskritश्री भानुविनायक स्तोत्रम्
- hindiसिद्धि विनायक स्तोत्र
- tamilஶ்ரீ பா⁴நுவிநாயக ஸ்தோத்ரம்
- kannadaಶ್ರೀ ಭಾನುವಿನಾಯಕ ಸ್ತೋತ್ರಂ
- teluguశ్రీ భానువినాయక స్తోత్రం
- sanskritश्री अष्टविनायकस्तोत्रम्
- hindiएकदन्त शरणागति स्तोत्रम्
- englishShri Gajanana Stotram
- englishShri Ganeshashtak Stotram
- englishShri Ganadhipat Stotram
- hindiश्री गणाधिपत स्तोत्रम् अर्थ सहित
Found a Mistake or Error? Report it Now


