Shri Krishna

श्रीकृष्णभजनाष्टकम्

Shrikrrishnabhajanashtakam Sanskrit

Shri KrishnaAshtakam (अष्टकम संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्रीकृष्णभजनाष्टकम् ||

कंसदलनमुक्तिमिलनभुक्तिभवनकाशितं
दुष्टशकटराहुकपटकालियशठशासितम् ।
दानवमधुकैटभमुरदारुणवकनाशितं
कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ १॥

ब्रह्मकिरणमुग्धवदनमङ्गलमयवीक्षणं
सान्द्रललितकुञ्जनिकटकेलितरलकारणम् ।
धर्मविनतकर्मनिरतभोगनिकरधारितं
कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ २॥

पूर्णपुरुषयोगजनकभोगसकलधारकं
दुस्तरभवपारकपटुनाविकहरिनामकम् ।
दुर्जनमुखमर्दनगुणवर्द्धनदरदारितं
कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ ३॥

वैभवसुखसागरतटशुद्धसलिलशीतलं
स्मितरुचिरफुल्लकमलवेणुनिनदकोमलम् ।
मन्दमलयचन्दनमुखनन्दितशुभवन्दितं
कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ ४॥

शान्तसरलभक्तविधुरमाधवमधुसूदनं
देवमदनमोहन-अपवर्गविभवधारिणम् ।
गोपयुवतिवल्लभचिरसुन्दरतरलायितं
कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ ५॥

वल्लवललनासुखमुखचुम्बनरतिविह्वलं
चारुहसनपीतवसनमोहनशशिमण्डलम् ।
वन्यकुसुमनम्रसुषमसज्जितदमधारितं
कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ ६॥

प्रेमखचितकुञ्जसदनकेलिकुतुकनर्तनं
यामुनतटमण्डलनटपाटवजलखेलनम् ।
लुब्धललितरासकलितकुङ्कुममृदुवासितं
कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ ७॥

प्रेमकरुणमूर्तितरुणपूर्तिसकलकारकं
भक्तनयनचित्रितनवनाटकनटनायकम् ।
दारुपुरुषनेत्रवलयसर्वभुवनभूषितं
कृष्णचरणपङ्कजसुखदीप्तभजनभासितम् ॥ ८॥

इति नन्दप्रदीप्तकुमारविरचितं श्रीकृष्णभजनाष्टकं सम्पूर्णम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

Download श्रीकृष्णभजनाष्टकम् PDF

श्रीकृष्णभजनाष्टकम् PDF

Leave a Comment

Join WhatsApp Channel Download App