Shri Vishnu

श्री गदाधर स्तोत्रम् (वराह पुराणे)

Sri Gadadhara Stotram Varaha Puranam Sanskrit Lyrics

Shri VishnuStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री गदाधर स्तोत्रम् (वराह पुराणे) – Gadadhara Stotram PDF ||

रैभ्य उवाच ।

गदाधरं विबुधजनैरभिष्टुतं
धृतक्षमं क्षुधित जनार्तिनाशनम् ।
शिवं विशालाऽसुरसैन्यमर्दनं
नमाम्यहं हतसकलाऽशुभं स्मृतौ ॥ १ ॥

पुराणपूर्वं पुरुषं पुरुष्टुतं
पुरातनं विमलमलं नृणां गतिम् ।a
त्रिविक्रमं हृतधरणिं बलोर्जितं
गदाधरं रहसि नमामि केशवम् ॥ २ ॥

विशुद्धभावं विभवैरुपावृतं
श्रियावृतं विगतमलं विचक्षणम् ।
क्षितीश्वरैरपगतकिल्बिषैः स्तुतं
गदाधरं प्रणमति यः सुखं वसेत् ॥ ३ ॥

सुराऽसुरैरर्चितपादपङ्कजं
केयूरहाराङ्गदमौलिधारिणम् ।
अब्धौ शयानं च रथाङ्गपाणिनं
गदाधरं प्रणमति यः सुखं वसेत् ॥ ४ ॥

सितं कृते त्रेतयुगेऽरुणं विभुं
तथा तृतीये पीतवर्णमच्युतम् ।
कलौ घनालिप्रतिमं महेश्वरं
गदाधरं प्रणमति यः सुखं वसेत् ॥ ५ ॥

बीजोद्भवो यः सृजते चतुर्मुखं
तथैव नारायणरूपतो जगत् ।
प्रपालयेद्रुद्रवपुस्तथान्तकृ-
-द्गदाधरो जयतु षडर्धमूर्तिमान् ॥ ६ ॥

सत्त्वं रजश्चैव तमो गुणास्त्रय-
-स्त्वेतेषु नान्यस्य समुद्भवः किल ।
स चैक एव त्रिविधो गदाधरो
दधातु धैर्यं मम धर्ममोक्षयोः ॥ ७ ॥

संसारतोयार्णवदुःखतन्तुभि-
-र्वियोगनक्रक्रमणैः सुभीषणैः ।
मज्जन्तमुच्चैः सुतरां महाप्लवे
गदाधरो मामुदधौ तु पोतवत् ॥ ८ ॥

स्वयं त्रिमूर्तिः स्वमिवात्मनात्मनि
स्वशक्तितश्चाण्डमिदं ससर्ज ह ।
तस्मिञ्जलोत्थासनमार्य तैजसं
ससर्ज यस्तं प्रणतोऽस्मि भूधरम् ॥ ९ ॥

मत्स्यादिनामानि जगत्सु केवलं
सुरादिसंरक्षणतो वृषाकपिः ।
मुख्यस्वरूपेण समन्ततो विभु-
-र्गदाधरो मे विदधातु सद्गतिम् ॥ १० ॥

इति श्रीवराहपुराणे सप्तमोऽध्याये रभ्यकृत गदाधर स्तोत्रम् ।

Read in More Languages:

Found a Mistake or Error? Report it Now

श्री गदाधर स्तोत्रम् (वराह पुराणे) PDF

Download श्री गदाधर स्तोत्रम् (वराह पुराणे) PDF

श्री गदाधर स्तोत्रम् (वराह पुराणे) PDF

Leave a Comment

Join WhatsApp Channel Download App