Misc

श्री सुदर्शन स्तोत्रम् (सूर्य कृतम्)

Surya Kruta Sri Sudarshana Stotram Sanskrit Lyrics

MiscStotram (स्तोत्र संग्रह)संस्कृत
Share This

Join HinduNidhi WhatsApp Channel

Stay updated with the latest Hindu Text, updates, and exclusive content. Join our WhatsApp channel now!

Join Now

|| श्री सुदर्शन स्तोत्रम् (सूर्य कृतम्) ||

सुदर्शन महाज्वाल प्रसीद जगतः पते ।
तेजोराशे प्रसीद त्वं कोटिसूर्यामितप्रभ ॥ १ ॥

अज्ञानतिमिरध्वंसिन् प्रसीद परमाद्भुत ।
सुदर्शन नमस्तेऽस्तु देवानां त्वं सुदर्शन ॥ २ ॥

असुराणां सुदुर्दर्श पिशाचानां भयङ्कर ।
भञ्जकाय नमस्तेऽस्तु सर्वेषामपि तेजसाम् ॥ ३ ॥

शान्तानामपि शान्ताय घोराय च दुरात्मनाम् ।
चक्राय चक्ररूपाय परचक्राय मायिने ॥ ४ ॥

हतये हेतिरूपाय हेतीनां पतये नमः ।
कालाय कालरूपाय कालचक्राय ते नमः ॥ ५ ॥

उग्राय चोग्ररूपाय क्रुद्धोल्काय नमो नमः ।
सहस्राराय शूराय सहस्राक्षाय ते नमः ॥ ६ ॥

सहस्राक्षादि पूज्याय सहस्रारशिरसे नमः ।
ज्योतिर्मण्डलरूपाय जगत्त्रितय धारिणे ॥ ७ ॥

त्रिनेत्राय त्रयी धाम्ने नमस्तेऽस्तु त्रिरूपिणे ।
त्वं यज्ञस्त्वं वषट्कारः त्वं ब्रह्मा त्वं प्रजापतिः ॥ ८ ॥

त्वमेव वह्निस्त्वं सूर्यः त्वं वायुस्त्वं विशां पतिः ।
आदिमध्यान्तशून्याय नाभिचक्राय ते नमः ॥ ९ ॥

ज्ञानविज्ञानरूपाय ध्यान ध्येयस्वरूपिणे ।
चिदानन्दस्वरूपाय प्रकृतेः पृथगात्मने ॥ १० ॥

चराचराणां भूतानां सृष्टिस्थित्यन्तकारिणे ।
सर्वेषामपि भूतानां त्वमेव परमागतिः ॥ ११ ॥

त्वयैव सर्वं सर्वेश भासते सकलं जगत् ।
त्वदीयेन प्रसादेन भास्करोऽस्मि सुदर्शन ॥ १२ ॥

त्वत्तेजसां प्रभावेन मम तेजो हतं प्रभो ।
भूयः संहर तेजस्त्वं अविषह्यं सुरासुरैः ॥ १३ ॥

त्वत्प्रसादादहं भूयः भविष्यामि प्रभान्वितः ।
क्षमस्व ते नमस्तेऽस्तु अपराधं कृतं मया ।
भक्तवत्सल सर्वेश प्रणमामि पुनः पुनः ॥ १४ ॥

इति स्तुतो भानुमता सुदर्शनः
हतप्रभेणाद्भुत धाम वैभवः ।
शशाम धाम्नातिशयेन धाम्नां
सहस्रभानौ कृपया प्रसन्नः ॥ १५ ॥

इति भविष्योत्तरपुराणे कुम्भकोणमाहात्म्ये सूर्य कृत श्री सुदर्शन स्तोत्रम् ।

Found a Mistake or Error? Report it Now

श्री सुदर्शन स्तोत्रम् (सूर्य कृतम्) PDF

Download श्री सुदर्शन स्तोत्रम् (सूर्य कृतम्) PDF

श्री सुदर्शन स्तोत्रम् (सूर्य कृतम्) PDF

Leave a Comment

Join WhatsApp Channel Download App