|| तक्षकादिनागकृता पाताललिङ्गस्तुतिः ||
(शिवरहस्यान्तर्गते भीमाख्ये)
तक्षकः (उवाच)
शम्भो विरिञ्चिवरमौलिकपालपाणे
चञ्चत्सुधांशुमकुटोज्ज्वलितोत्तमाङ्ग ।
मां मोचयाशु दुरितात्परिवञ्चकेश
देवस्त्वमेव भगवांश्च कुलुञ्चनाथः ॥ ५॥
मृडं दृढतरं हृदा सदयमिन्दुचूडं हृदा
भजामि भसितोज्ज्वलं हृदयपद्मसद्मान्तरे ।
भुजङ्गवरकङ्कणक्वणननिःस्वनाङ्घ्रिप्रभा-
विभासिनटनानतं जगदुदारसत्ताण्डवम् ॥ ६॥
अनन्तः (उवाच)
भस्माङ्गराग धृतबालकुरङ्ग सङ्ग
भालस्फुलिङ्ग हर (कृत) नेत्रपतङ्गलिङ्ग ।
गङ्गान्तरङ्ग महदिन्दुकृतोत्तमाङ्ग
मातङ्गकृत्तिभुजगाङ्गद हार पाहि ॥ १०॥
पापानङ्गमतङ्गभङ्गसुमहालिङ्गस्थ शम्भो सदा
शाङ्गाङ्गस्थमहोक्षसङ्गभरितानन्दाङ्ग गङ्गाधर
मां पाह्यद्य हरान्धकस्मरहारमेयप्रभावेश्वर
विश्वाधीश्वर चन्द्रशेखर विभो कारुण्यदृक्सङ्गतः ॥
कम्बलाश्वतरावूचतुः
भगवन्मदशमनाद्यवैद्य वेद-
प्रतिपाद्येश्वर विद्ययाभिवेद्य ।
त्वं पर्णशद्य सुमहन् च महेशनाद्य
आलाद्य सर्वतनुगोऽपि अभेद्य शम्भो ॥ १४॥
तं कम्बलाश्वतरगीतसुसामसीम-
श्रीवामदेव वरसाम रथन्तरेड्यम् ।
श्रीव्योमकेशमुमया परिपूज्यबिल्वै-
स्तौ तुष्टुवा भुजगौ महेश्वरम् ॥ १५॥
एलापत्रः (उवाच) ।
वन्दे कुरङ्गकरसङ्ग भवोरुभङ्गं
भस्मभिभूषितमनङ्गमतङ्गभङ्गम् ।
गङ्गातरङ्गविलसज्जटिलोत्तमाङ्गं
श्रीलिङ्गमेतदगजाहृदयान्तरङ्गम् ॥ १८॥
एलापत्रस्त्रिणेत्रं स्वकफणिविलसद्धन्यगात्रोरुवेष्टै-
स्तल्लिङ्गाकण्ठलग्नो विधृतनवफणारत्नसञ्छादितश्रीः ।
बिल्वैश्चन्दनलेपसुन्दरमहाकायैश्च शीतैः शिवं
सन्तोष्यानुदिनं वसत्युरगपः पुण्ये प्रदोषेऽपि च ॥ १९॥
कार्कोटकः उवाच ।
श्रीनीलकण्ठ सितभस्मवरावकुण्ठ
वैकुण्ठनाथनयनार्चित पादपद्म ।
उत्कण्ठभावुकहृदा परिचिन्तनीय
पादाम्बुजे परिलुठामि च सन्नकण्ठः ॥ २२॥
धृतराष्ट्रः (उवाच)
हर हर गरकण्ठ पार्वतीश
त्रिदशामेयगुणाकर प्रसीद ।
हर हर शितिकण्ठ सामिसोमो –
ज्ज्वलितोत्तंस यमीन्द्रचित्तहंस ॥ २५॥
गुलिकः (उवाच)
सशङ्खचूडः(डं) शशिचूडमीश-
मीड्यं सदा वेदवचोभिरेव ।
भस्माङ्गरागच्छविसन्निकर्षा-
द्विकर्षयत्येव च ततोऽन्धकारम् ॥ २७॥
(द्विकर्षयन्तं च मनोऽन्धकारम्) ॥२७॥
देव देव परमेश्वर शम्भो
विश्वनाथ मम नाथ सनाथम् ।
मां कुरुष्व दययाद्य कृपालो
मन्मथान्तक विभो शशिचूड ॥ २८॥
शङ्खचूडः (उवाच)
शम्भो कन्दर्पसर्पज्वरहर पुरहन् पाहिमामीश दुःखात्
दुर्वाराखर्व(नल्प)गर्वं जनिमृतिविवशं रोगपापादियुक्तम् ।
कल्पानल्पजलोद्भवोद्भवमहासृष्टौ लुठन्तं सदा
त्वन्मौलिस्रगलङ्कृताङ्गकमहालिङ्गोत्तमाङ्ग प्रभो ॥ ३१॥
(त्वं मां मौलिस्रगात्मना कुरु महालिङ्गोत्तमाङ्गे प्रभो) ॥ ३१॥
पिचण्डिलः (उवाच)
मस्ताजस्रगलङ्कृताङ्गक महासर्पाङ्गभूषोज्ज्वल
नेत्रोन्मेषनिमेषणेषितजगद्रात्रीशचूडोज्ज्वल ।
पाहीश त्रिदशोत्तमोत्तमा सदा सामौक सीमास्तुत
कामाङ्गप्रहरावकामद सदा मां वामदेव प्रभो ॥ ३३॥
वारणो ह्युरगेन्द्रोऽसौ वारणत्वग्ववसा(वरा)र्चकः(चितः) ।
निवारणकरं देवं पापनाशकरं परम् ॥ ३४॥
वारणः (उवाच)
पाहीन्दुद्युतिजूटकूट(नाक) तटिनीगर्तादिनिर्वापण
त्वं कल्याणनगात्तसत्करधनो जेता जगत्कारणम् ।
(त्वं कल्याणनगात्तहस्तकमलो जेता जगत्कारणम्) ।
भस्माहीन(न्दु)सुभूषणोत्तम सदा कामाङ्गसंहारण
सर्वप्राणहरान्तकप्रहरणामेयाङ्घ्रिपद्मारुण ॥ ३६॥
द्रतिकः (उवाच)
रामासंहननार्धकायविलसत्सोमोज्ज्वलन्मूर्धक
धूतोद्दामशिरः कपर्द सुमहाधूमाङ्कनेत्रोज्ज्वल ।
भूमानन्दघन प्रसीद भगवन् त्वं व्योमकेशः श्रुतेः (श्रुति)
सीमा(व्रातैः) संस्तुतपादपद्म मम हृत्कामप्रदाव प्रभो ॥ ३९॥
सर्पः (उवाच)
शिष्टार्चितं सकलकष्टहरं प्रकृष्ट-
मोक्षप्रदं किलसदा शिपिविष्टलिङ्गम् ।
अष्टाकृतिं च भजतां न हि दुष्टभावो
नष्टाशुभा भुवि भवन्ति सदैव सर्पाः ॥ ४१॥
वामनः (उवाच)
उच्चैर्घोषादिशेषक्षितिधरवरधृक् पोषिताशेषलोक
सृष्टिस्थित्यन्तकार्येष्वतितरमनिशं जागरूक प्रभो माम् ।
वेदात्तर्होत्तमादिशेषघोषितपदाम्भोजप्रभाभावतो
वेषाकारमिदं सदा त्रिभुवनं मन्ये किमन्येन मे ॥ ४३॥
खर्वटः (उवाच)
त्वद्भीषाभीषितास्ते सुरवरनिकराश्चन्द्रसूर्यानिलेन्द्रा-
स्त्वद्मासा भासतेदं जगदिदमखिलं लोकजालैर्महेश ।
(स्त्वद्मासा भाति सर्वं जगदिदमखिलैः लोकजालैर्महेश) ।
विष्णुब्रह्ममरुद्गणादिजनकः सोमोऽसि सर्वान्तरः
कस्त्वां स्तौति महेश सर्वतनुभाक् त्वं निर्गुणोऽस्यव्ययः ॥ ४६॥
वासुकिः (उवाच)
क्षयद्वीर काकोदरापारहार
स्फुत्स्फारकर्पूरगौरावहीर-
प्रभाजाल निर्मूलितालोलपाशा-
त्तकाल त्रिकालाकुलाकारमारव्यथासारसंहार ।
उद्धतदु(भस्मीकृत)त्रैपुराकार गङ्गाधरामेय-
मातङ्ग चर्माम्बर नीलोत्पलाकारकण्ठ स्फुर-
त्सान्द्र गौरीकुचाश्लेषगाढप्रभावाङ्ग सञ्जात
सङ्कण्टकाङ्ग प्रभो पाहि माम् ॥ ४८॥
सर्पाः (ऊचुः)
अस्माकं कुलदैवतं शशिकलाजूटानुकूटोद्यत-
स्फाराकारभूजङ्गहारवलयालङ्कार लिङ्गोत्तमम् ।
घोटीभूतमहागमान्तशिखरं जूटीकृताहीश्वरं
पाटीरद्रवसार चन्दनलसत्कोटीरमीक्षेमहि ॥ ५१॥
॥ इति शिवरहस्यान्तर्गते तक्षकादिनागकृता पाताललिङ्गस्तुतिः सम्पूर्णा ॥
Found a Mistake or Error? Report it Now